________________
સૂ૦ ૧-૧-૨
इत्येवमात्मकपरिदृष्टसामर्थ्य कारकप्रयोक्तृत्वलक्षणम्, तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य युज्यते, किं पुनः कारकसंनिपातः ? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः । तथा तमन्तरेण सामानाधिकरण्यम्, विशेषण-विशेष्यभावोऽपि नोपपद्यते; तथाहि-भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकत्रार्थे वृत्तिः सामानाधिकरण्यम्, तयोश्चात्यन्तभेदे घटपटयोरिव नैकत्र वृत्तिः, नाप्यत्यन्ताभेदे भेदनिबन्धनत्वात् तस्य, नहि भवति नीलं नीलमिति । किञ्च, नीलशब्दादेव तदर्थप्रतिपत्तौ उत्पलशब्दाऽऽनर्थक्यप्रसङ्गः । तथैकं वस्तु सदेवेति नियम्यमाने विशेषण-विशेष्यभावाभावः, विशेषणाद् विशेष्यं कथञ्चिदर्थान्तरभूतमवगन्तव्यम्, अस्तित्वं चेह विशेषणम्, तस्य विशेष्यं वस्तु, तदेव वा स्याद्, अन्यदेव वा ? न तावत् तदेव, नहि तदेव तस्य विशेषणं भवितुमर्हति, असति च विशेष्ये विशेषणत्वमपि न स्यात्, विशेष्यं विशिष्यते येन तद् विशेषणमिति व्युत्पत्तेः, अथान्यत् तर्हि अन्यत्वाविशेषात् सर्वं सर्वस्य विशेषणं स्यात्; समवायात् प्रतिनियतो विशेषण-विशेष्यभाव इति चेद्, न-सोऽप्यविष्वग्भावलक्षण एवैष्टव्यः, रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः, अतो नासावत्यन्तं भेदेऽभेदे वा संभवतीति भेदाभेदलक्षणः स्याद्वादोऽकामेनाप्यभ्युपगन्तव्य इति । आदिग्रहणात् स्थान्यादेशनिमित्तनिमित्तिप्रकृतिविकारभावादिग्रहः । किञ्च, शब्दानुशासनमिदम्, शब्दं प्रति च; विप्रतिपद्यन्ते-नित्य इत्येके, अनित्य इत्यपरे, नित्यानित्य इति चान्ये । तत्र नित्यत्वा-ऽनित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरहः स्यादित्याह-सर्वपार्षदत्वाच्चेति-स्वेन रूपेण व्यवस्थितं वस्तुतत्त्वं पृणाति पालयतीति "प्रः सद्" [उणा० ८९७.] इति सदि पर्षद, तत्र साधु "पर्षदो ण्यणौ" [७.१.१८.] इति णे पार्षदं साधारणमित्यर्थः । अथवा पार्षदः परिचारक उच्यते, स च पर्षत्साधारण इत्यर्थः, पार्षदत्वेन च साधारणत्वं लक्ष्यते, तेन सर्वेषां पार्षदं सर्वसाधारणमित्यर्थः । दृश्यते तत्त्वमेकदेशेनैभिरिति दर्शनानि नयाः, समस्तदर्शनानां यः समुदायः तत्साधारणस्याद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः । अतिरमणीयमिति-णिगन्तात् “प्रवचनीयादयः" [५.१.८.] इत्यनीयः । - एतदेव स्वोक्तेन द्रढयति-अन्योऽन्येत्यादि-साध्यधर्मवैशिष्ट्येन पच्यते व्यक्तीक्रियते हेत्वादिभिरिति “मा-वा-वदि०"-[उणा० ५६४.] इति से पक्षः-साध्यधर्मविशिष्टो धर्मी, शब्दोऽनित्य इत्यादिः, प्रतिकूलः पक्षः प्रतिपक्षः, अन्योऽन्यं पक्षस्य प्रतिपक्षास्तेषां भावः, एकस्मिन् धर्मिणि परस्परविरुद्धधर्मोपन्यास इत्यर्थः, ततः । यथेति दृष्टान्तोपन्यासे । परे
१. 'च प्रति' इ-उ। २. पक्षप्रति०' इ-उ ।