________________
८०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ભાગ-૧ "विभक्तिथमन्त०" (१/१/33) सूत्रथा तथा स्व२५iथी अव्ययसंश. "स्वरादयोऽव्ययम्" (१/१/30) सूत्रथ. थाय छे. ॥ स्यात् अव्यय भने तिने प्रशित ४३. छ. स्यात् अव्यय वाय:५९iथी मनेांतनो धोतछ, वाथ्य५९iथी नही. अर्थात्, “स्यात्" अव्ययमा भनेतन। દ્યોતક તરીકે જ વાચકશક્તિ આવે છે, વાચ્યત્વપણાંથી વાચકશક્તિ આવતી નથી.
(न्या०स० ) अनेकान्तवाद इति-अमति गच्छति धर्मिणमिति “दम्यमि०" [उणा० २००.] इति तेऽन्तो धर्मः, न एकोऽनेकः, अनेकोऽन्तोऽस्यासावनेकान्तः, तस्य वदनं याथातथ्येन प्रतिपादनम्, तच्चाभ्युपगतस्यैव भवतीति । नित्यानित्यादीति-आदिशब्दात् सदसदात्मकत्वसामान्यविशेषा-त्मकत्वा-ऽभिलाप्यानभिलाप्यत्वग्रहः । “नेधुंवे" [६.३.१७.] इति त्यचि नित्यम्, उभयान्तापरिच्छिनसत्ताकं वस्तु, तद्विपरीतमनित्यम् । आदीयते गृह्यतेऽर्थोऽस्मादिति "उपसर्गाद् दः किः" [५.३.८७.] इति को आदिः । धरन्ति धर्मिणो धर्मिरूपतामिति धर्मा वस्तुपर्यायाः, ते च सहभुवः सामान्यादयः, क्रमभुवश्च नवपुराणादयः पर्यायाः, धर्ममन्तरेण धर्मिणः स्वरूपनाशात् । शाम्यति विरुद्धैर्धमैयुगपत्परिणतिमुपयाति "शमेर्ब च वा" [उणा० ४७०.] इत्यले शबलम् । एत्यभेदं गच्छति "भीणशलि०" [उणा० २१.] इति के एकम् । वसन्ति सामान्य-विशेषरूपा धर्मा अस्मिन्निति "वसेणिद्वा" [उणा० . ७७४.] इति तुनि वस्तु । नित्यानित्यादिभिरनेकधर्मः शबलं यदेकं वस्तु तस्याऽभ्युपगमः प्रमाणाविरुद्धोऽङ्गीकारः, तत एव शब्दानां सिद्धिर्भवति नान्यथेत्यत आह-एकस्यैवेति । तथाहि-यस्यैव वर्णस्य हुस्वत्वं विधीयते तस्यैव दीर्घत्वादि, तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य हुस्वादिविधेरसंभवः; एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य ह्रस्वादिविधिरिति वर्णरूपसामान्याऽऽत्मना नित्यो हुस्वादिधर्मात्मना त्वनित्य इति । तथा द्रव्याणां स्वपराश्रयसमवेतक्रियानिर्वर्तकं सामर्थ्य कारकम्, तच्च कर्नाद्यनेकप्रकारमेकस्याप्युपलभ्यते; यथा-पीयमानं मधु मदयति, वृक्षमारुह्य तंतः फलान्यवचिनोति, विषयेभ्यो बिभ्यदनात्मज्ञस्तेभ्य एवात्मानं प्रयच्छंस्तैरेव बन्धमाप्नोतीत्यादि; तच्च कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याऽवस्थान्तराभिव्यक्तरूपोपलम्भाभावाद् घटते ? इति साध्य-साधनरूपकारकव्यवहारविलोपः । अनित्यत्वेऽपि न घटते, तथाहि-स्वातन्त्र्यं कर्तृत्वम्, तच्च
"इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशेयं मम । . अयं सुहृदयं द्विषन् प्रकृतदेशकालाविमाविति प्रतिवितर्कयन् प्रयतते बुधो नेतरः" ||७|| १. पादपात् । २. मूर्खः ।