________________
દશવૈકાલિકસૂત્ર ભાગ-૧
न
અધ્ય. ૧ નિયુક્તિ - ૨૧ થી ૨૩ षड्जीवनिकायगोचर: प्राय इत्यतश्चतुर्थमध्ययनम्, अथवाऽऽत्मसंयमःतदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह च-'तथा जीवसंयमोऽपि च भवति चतुर्थे ऽध्ययने ऽर्थाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्त्तते, उक्तं च- 'छसु जीवनिकाएसुं, जे बहु संजए सया । से चेव होइ विण्णेए, परमत्थेण संजए ॥१॥" इत्यादि । एवमेव च धर्म्मः, स च देहे स्वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च-'भिक्षाविशोधिस्तपःसंयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं भिक्षा तस्याः विशोधिः - सावद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपःप्रधानः संयमस्तपः संयमस्तस्य गुणकारिकैवेयं वर्त्तत इति, उक्तं च-से संजए समक्खाए, निरवज्जाहार जे विऊ । धम्मकायट्ठिए सम्मं, सुहजोगाण साहए ॥ | १ ||" इत्यादि । गोचरप्रविष्टेन च सता स्वाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव त षष्ठमध्ययनमिति, आह च - षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च " गोअरग्गपविट्टे उ न निसिएज्ज कत्थई । कहं च न पबंधिज्जा चिट्ठित्ताण व संजए जि ॥१॥" इत्यादि । आलयगतेनापि तेन गुरूणा (वा) वचनदोषगुणाभिज्ञेन जि न निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आह च- न शा "वयणविभत्ती” त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्ति:- शा स एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, शेषाध्ययनार्थाधिकारेभ्यः पुनः शब्दः ना अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति उक्तं च- ना य" सावज्जणवज्जाणं वयणाणं जो ण याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण य देसणं काउं ? ॥ १ ॥ " इत्यादि । तच्च निरवद्यं वचः आचारे प्रणिहितस्य भवति * इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च प्रणिधानमष्टमेऽध्यय* नेऽर्थाधिकारत्वेन 'भणितम्' उक्तम्, प्रणिधानं नाम विशिष्टश्चेतोधर्म इति उक्तं च- * * "पणिहाणरहियस्सेह, निरवज्जंपि भासियं । सावज्जतुल्लं विन्नेयं, अज्झत्थेणेह संवुडं
स
॥१॥" इत्यादि । आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्त
39
त
H, 201
५४
-
S