________________
H
शयलिए सूा माग-१
मध्य. १ नियुजित - ५ " उच्यते - आर्यदेशोत्पन्नः सुखावबोधवाक्यो भवतीति देशग्रहणं, पैतृकं कुलं । विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जातिः तत्सम्पन्नो , विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति,
संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानादिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो । वस्त्राद्याकाङ्क्षति, अविकत्थनो बहुभाषी न भवति, अमायी न शाठ्येन शिष्यान् | वाहयति, स्थिरपरिपाटी स्थिरपरिचितग्रन्थस्य सूत्रं न गलति, । गृहीतवाक्योऽप्रतिघातवचनो भवति, जितपरिषत् परप्रवादिक्षोभ्यो न भवति, 7 | जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्याँश्चोदयति, " मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानवबुद्ध्याप्रतिबद्धो विहरति | देशनां च करोति, आसन्नलब्धप्रतिभो जात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, | ज्ञानादिपञ्चविधाचारयुक्तःश्रद्धेयवचनोभवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवाद
प्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक् प्ररूपयति । म नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं र
परमताक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् | परप्रवादिक्षोभमुत्पादयति, शिवो मारिरोगाद्युपद्रवविघातकृद् भवति, सौम्यः जि प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव गुणशतकलितो योग्यः जि न प्रवचनम्-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, शा उक्तं च-"गुणसुट्ठिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ । गुणहीणस्स न सोहइ शा मणेहविहीणो जह पईवो ॥१॥" तथा चान्येनाप्युक्तम्-"क्षीरं भाजनसंस्थं न तथा वत्सस्य स ना पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं ना व क्षीरं दुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥२॥ य
शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न * गृह्यते तद्वत् ॥३॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः | कुलजैश्चाण्डालकूप इव ॥४॥"
(६) 3 : ओनावरे अनुयो। ४२वायोग्य छ ? मे मा वामां इवान छे. तेम* છે જે આવા પ્રકારના આચાર્ય હોય, તેમણે અનુયોગ કરવો જોઈએ. તે આ પ્રમાણે (૧) |
F
*