________________
परिशिष्टम् - १ २८७ सारिओ वारिओ चोइओ पडिचोइओ चियत्ता मे पडिचोअणा उवट्ठिओऽहं तुब्भण्हं तवतेयसिरिए इमाओ चाउरंतसंसार- कंताराओ साहट्टु नित्थरिस्सामित्तिकट्टु सिरसा म मत्थएण वंदामि 'त्ति व्याख्या - हे क्षमाश्रमण ! इच्छामि अभिलषाम्यहमपूर्वाणि-अनागतकालीनानि कृतिकर्म्माणि विनयोपचाररूपाणीतियोगः, कर्तुमिति वाक्यशेष:, तथा कृतानि च मया पूर्वकाले 'मे'त्ति मया कृतिकर्म्माणि वैयावृत्त्यविशेषरूपाणि भवतामिति गम्यते, तेषु च वैयावृत्त्यविशेषेषु क्रियमाणेषु 5 यत्किञ्चिद् आचारान्तरे-ज्ञानाद्याचारविशेषे विषयभूते आचारव्यवधाने वा सति, ज्ञानादिक्रियाया अकर सतीति भाव:, तथा विनयान्तरे-आसनदानादिविनयविशेषे विषयभूते विनयविच्छेदे वा तदकरण इत्यर्थ:, 'सेहिओ 'त्ति यदहं शिक्षितः स्वयमेव भवद्भिः शिक्षां ग्राहित इत्यर्थः, सेधितो वा - निष्पादित: आचारविशेषे विनयविशेषेषु कुशलीकृत इत्यर्थः, तथा 'सेहाविओ 'त्ति शिक्षापितः सेधापितो वा उपाध्यायादिप्रयोजनतः, तथा 'संगहिओ 'त्ति सङ्गृहीतः शिष्यत्वेनाश्रितः, तथोपगृहीतो - 10 ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भितः, तथा सारितो - हिते प्रवर्त्तितः कृत्यं वा स्मारितः, तथा वारित:अहितान्निवर्त्तित:, तथा 'चोइओ 'त्ति संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरित: 'पडिचोइओ'त्ति तथैव पुनः पुनः प्रेरितः, एवं चासौ 'चियत्ता मे पडिचोयण 'त्ति प्रीतिविषया सौमनस्यकरी ममेयं प्रतिप्रेरणा भवद्भिः क्रियमाणेत्यर्थः, उपलक्षणं चैतत् शिक्षादेरिति, एतदुक्तं भवतितेषु २ वैयावृत्त्यादिकृतिकर्म्मसु क्रियमाणेषु यत् क्वचिदाचारान्तरादौ भवद्भिः शिक्षादिकं दत्तं तत्सर्वं 15 मम परमप्रीतिकारणमेवं न पुनर्वैमनस्यजनकमिति, ततश्च 'अब्भुट्टिओऽहं 'ति उपस्थितोऽस्म्यहं प्रतिप्रेरणादिविषयार्थसम्पादने कृतोद्यम इत्यर्थः, किंच युष्माकं तपस्तेजः श्रिया - भवदीयया तप:प्रभावसम्पदा हेतुभूतया अस्माच्चतुरन्तसंसारकान्तारात् - चत्वारो नारकतिर्यग्नरामरगतिलक्षणा अन्ता यस्य संसारस्य स तथा स एव कान्तारं तस्मात् 'साहद्वृत्ति संहृत्य - कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थ: “नित्थरिस्सामि 'त्ति लङ्घयिष्यामि 'इतिकट्टु 'त्ति इतिकृत्वा - इतिहेतोरितियावत्, 'सिरसा 20 मणसा मत्थएण वंदामि'त्ति भवत इति वाक्यशेषः, शेषं प्राग्वद्, अत्र गुरुनिर्वचनं - 'नित्थारगपारगा होह'त्ति (९५–८) निस्तारका भवत संसारसमुद्रात् प्राणिनां प्रतिज्ञाया वेतिगम्यते, पारगास्तु-संसारसमुद्रतीरगामिनो भवतेत्याशीर्वचनमिति, अत्र च यदादौ 'अपुव्वाइं 'ति सूत्रपदं लिखितं तद्बहुष्वादर्शेषु न दृश्यते केवलं पूर्व्वाचार्यैः कुतश्चिद्व्याख्यातं युक्तिसंगतं चेति मयापि व्याख्यातं यदिवा ' कयाई चे 'त्यत्र पक्षान्तरसूचकचशब्दादपि लभ्यत एवेदमित्यदोषः, शेषं सुगमं यावत्कायोत्सर्गनिर्युक्तिः समाप्ता 25 ॥ साम्प्रतं प्रत्याख्याननिर्युक्तिरारभ्यते - इह च 'दुविहं तिविहेणं पढमओ इत्यादिना (१२५–१०) श्रावकार्हपञ्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः, ताश्चेवं- दुविहं तिविहेणेत्यादिना एकैकं व्रतं प्रति अभिहितषड्भङ्गैर्निष्पद्यते तथा एभिरेव षड्भङ्गैर्मनोवाक्कायकरणकारणद्वारेण चारितैरेकैकव्रतं प्रति ये एकविंशतिर्भङ्गा भवन्ति तैश्च तथा तिविहं तिविहेणं वा पडिक्कमतीत्यादिना भगवत्यामेकैकव्रतं प्रति ये नव भङ्गा उक्तास्तैश्च तथैभिरेव नवभिर्भङ्गैर्मनोवाक्कायकरणकारणानुमतिद्वारेण चारितैरेकैकव्रतं 30 प्रति ये एकोनपञ्चाशद्भङ्गा भवन्ति तैश्च ता निष्पद्यन्ते, तथा च वृद्धा: - एगवएछब्भंगा तहेगवीसा नवे इगुवण्णा । एगाहियतग्गुणिआ तेण जुया वयसमं भंगा || १ || अस्याश्च विनेयानुग्रहाय लेशतो व्याख्या