________________
* भाघारीडेभयन्द्रसूरिद्धृत टीप्पाड (लाग-७)
प्रतन्यते-इहैकस्मिन्व्रते स्थूलप्राणातिपातविरमणादिकेऽनन्तरोक्तनीत्या षट् तथैकविंशतिस्तथा नवैकोनपञ्चाशद्भङ्गा भवन्ति, अत्र च द्व्यादिव्रतभङ्गसङ्ख्यापरिज्ञानायोत्तरार्द्धेन करणमाह-'एगाहियतग्गुणिय'त्तित एव षट्कादिराशयोऽवधौ व्यवस्थाप्यन्ते तेनैव षट्केनैकविंशत्या नवकेनैकोनपञ्चाशद्राशिना चैकाधिकेनप्रक्षिप्तैकरूपेण सप्तादिराशिनेत्यर्थो गुणिताः - ताडितास्तेन च - षट्कादिना 5 युक्ता भङ्गा भवन्ति - सर्व्वभङ्गकसङ्ख्याराशिर्भवतीत्यर्थः कियतीः पुनर्वाराः षट्कादिराशयो गुण्यन्त इत्याह-‘वयसमं 'ति यावन्ति व्रतानि विवक्ष्यन्ते तावतीर्वारा गुण्यन्ते, स्थूलं च न्यायमाश्रित्यैवमुच्यते यावता एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इत्यक्षरार्थः, भावार्थस्तु पञ्चाणुव्रतान्याश्रित्य तावद्दर्श्यते - एकव्रते तावत् षड्भङ्गाः ते च रूपाधिकेन षट्केन सप्तभिरित्यर्थो गुणिता जाता द्विचत्वारिंशत् तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशत् ४८ एषापि सप्तभिर्गुण्यन्ते 10 षट् क्षिप्यन्ते जातं ३४२ अत्रापि सप्तभिर्गुणिते षट्सु प्रक्षिप्तेषु जातं २४०० पुनः सप्तभिर्गुणिते षट्प्रक्षेपे जातं १६८०६ एवं षड्भङ्गपक्षभावना, एकविंशतिभङ्गपक्षेऽप्येवमेव, केवलमेकविंशतिरवधौ व्यवस्थाप्य' वारं २ द्वाविंशत्या गुण्यन्ते एकविंशतिस्तु प्रक्षिप्यते यावच्चतुर्थवारायामागतं ५१५३६३१, नवभङ्गपक्षेऽप्येवं, नवरमवधौ नव ते च वारं २ दशभिर्गुण्यन्ते नव च प्रक्षिप्यन्ते यावच्चतुर्थवारायामागतं ९९९९९, एकोनपञ्चाशद्भङ्गपक्षे त्ववधावेकोनपञ्चाशद् वारं २ पञ्चाशता गुण्यन्ते एकोनपञ्चाशत्क्षिप्य 15 यावच्चतुर्थवेलायामागतं ३१२४९९९९९, एवं तावत् षड्भङ्गकादिषु चतुर्ष्वपि पदेषु पञ्चाणुव्रतान्याश्रित्यैषा सर्व्वभङ्गकसङ्ख्या, यदि पुनर्द्वादशानामपि व्रतानां कश्चिद् भङ्गकसंख्यां जिज्ञासेत् तदा तथैव षड्भङ्गराशिश्चतस्रो वाराः पूर्वं गुणितस्तथैव सप्तकगुणितषट्प्रक्षेपद्वारेणापरा अपि सप्तवारा गुणनीया यावदेकादश्यां वेलायामागतं १३८४१२८७२०० एवमेकैकव्रतं प्रति षड्भङ्गपक्षे सर्वा द्वादशव्रतभङ्गसङ्ख्यैषा, एकविंशतिभङ्गपक्षेऽपि द्वाविंशतिगुणनैकविंशतिप्रक्षेपक्रमेण पूर्ववदपरा अपि सप्तवारा 20 गणना विधेया यावदेकादशवेलायां सर्वद्वादशव्रत भङ्गसंख्यायामागतं (१२८५५००२६३१०४९२१५) (प्रत्यन्तरे - १२८५५०००३६३१०४९२१५) नवभङ्गपक्षेऽपि दशगुणननवप्रक्षेपक्रमेण पूर्ववदन्या अपि सप्तवारा गुणनीयं यावदेकादश्यां वारायां सर्व्वव्रतभङ्गकसंख्यायामागतं ९९९९९९९९९९९९, एकोनपञ्चाशद्भङ्गपक्षे पञ्चाशङ्गुणनैकोनपञ्चाशत्प्रक्षेपक्रमेणापरसप्तवारागुणिते सर्व्वव्रतभङ्गसंख्यायामागतं २४४१४०६२४९९९९९९९९९९९९ इति गाथार्थ: । नन्वनया गाथा 25 विवक्षितव्रतभङ्गकसर्व्वसंख्यैवागच्छति, भेदतस्त्वेकैकद्विकसंयोगादिभङ्गकरचनाक्रमेण या देवकुलिकारचना सा कथमानीयत इति, सत्यं, अत्राप्युक्तं वृद्धैः, तद्यथा - एगाई वयतुल्ला उवरुवरिं पक्खिवे चरमवज्जा। छच्छक्कगगुणिआणं गुणकारा होंति नायव्वा ॥१॥ व्याख्या - एकादय: आदिशब्दाद् द्वित्रिचतुःपञ्चादिपरिग्रह: ते एकादयो यावन्ति व्रतानि विवक्ष्यन्ते तत्तुल्या उपर्युपरि व्यवस्थाप्यन्ते, तत्र किल पञ्चाणुव्रतानि विवक्ष्यन्तेऽतस्तत्तुल्येकादीनां स्थापना एते च वारं वारं चरमं वर्जयित्वा 30 उपर्युपरि प्रक्षेप्तव्या:, तद्यथा - एकको द्विके प्रक्षिप्तो जातास्त्रयः
३
तेऽपि चतुर्षु क्षिप्ता जाता दश चरमस्तु पञ्चको वर्ज्यते न पुनरप्येकस्त्रिषु क्षिप्यते जाताश्चत्वारस्तेऽपि षट्सु क्षिप्ता जाता
૨૯૮
५
४
२
१
तेऽप्युपरितनत्रिषु प्रक्षिप्ता जाता: षट् -
किमपि तत्र क्षिप्यत इत्यर्थः, ततः
दश उपरितनस्तु दशको वर्ज्यते,