________________
भसधारीहेभयन्द्रसूरिद्धृत टीप्पशङ (भाग-७)
स्तुतिभिर्नमस्कृत्य प्रणामत:, क्व वन्दित्वा ? इत्याह-'तुब्भण्हं पायमूले' युष्मदीयचरणान्तिके, एतदुक्तं भवति-बहिर्विहारं चिकीर्षता युष्मदन्तिक एव तावद्विशिष्टप्रणिधानतः सङ्घसत्कचैत्यवन्दनमकारि, तदनन्तरं किमित्याह——विहरमाणेणं 'ति विचरता मया 'जे केइ 'त्ति ये केचन सामान्यतः 'बहुदेवसिया' बहुदिवसपर्यायाः साधवो दृष्टाः, किं विशिष्टा इत्याह-' समाणा व 'त्ति जङ्घाबलपरिक्षयाद्वृद्धवासित5 यैकक्षेत्रवासिनः 'वसमाणा व 'त्ति विहारवन्तः ऋतुबद्धे काले मासकल्पेन वर्षाकाले तु चतुर्मासकल्पेनेति, अत एवाह - 'गामाणुगाम 'मित्यादि ग्रामः प्रतीतोऽनुग्रामस्तु तदनन्तर इति ग्रामानुग्राम तद्द्रवन्तो-गच्छन्तः अत्र तेषु मध्य इति वाक्यशेषो द्रष्टव्यः, 'रायणिय 'त्ति रात्त्रिका:-भावरत्नव्यवहारिण आचार्या इत्यर्थः, ‘संपुच्छंति' संप्रश्नयन्ति मया वन्दिताः सन्तो भवतां शरीरादिकुशलवार्त्तामिति गम्यते, अवमरात्त्रिका:-भवतः प्रतीत्य लघुतरपर्याया एव वन्दन्ते - प्रणमन्ति कुशलादि च प्रश्नयन्ति, 10 'अज्जया वंदंति 'त्ति सामान्यसाधवः प्रणमन्ति एवमायिकादयोऽपि ३ अहमपि च तान् यथादृष्टसाधून्निःशल्यादिविशेषणो‘वन्दामि 'त्ति वन्दितवानित्यर्थो, वर्त्तमानतानिर्देशस्तु तत्कालापेक्षयेत्यदोषः, शेषं प्राग्वत् । तथा “अहमवि वंदावेमि चेइयाई" ति अहमपि तान् यथादृष्टसाधून् वन्दापयामि, चैत्यानि वन्दापितवानित्यर्थः, वर्त्तमानतानिर्देशः प्राग्वद्, अमुत्र नगरादौ युष्मत्कृते मया चैत्यानि वन्दितानि तानि यूयं वन्दध्वमित्येवं ते मया चैत्यानि वन्दापिता इति भावार्थ:, एवं शिष्येणोक्ते आचार्यः 15 प्रत्युत्तरयति - यथा मस्तकेन वन्दे तान् ये मम वार्त्तासंपृच्छनादि कुर्व्वन्तीतिभावः । अथ वस्त्रादिनिवेदनद्वारेणात्मानं गुरूणां निवेदयति चतुर्थक्षामणकसूत्रेण, तच्चेदं -' इच्छामि खमासमणो ! उवओऽहं तुब्भहं संतियं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं वा सिलोगद्धं वा अटुं वा हेउं वा पसिणं वा वागरणं वा
૨૯૬
भेहिं चित्तेण दिनं मए अविणएण पडिच्छियं तस्स मिच्छा मि दुक्कडं 'ति (९४–४), 20 व्याख्या– इच्छामि क्षमाश्रमण ! वस्त्रादिनिवेदनद्वारेणात्मानं निवेदयितुमितिवाक्यशेष:, न केवलं इच्छाम्येव किन्तु अभ्युत्थितोऽस्म्यात्मनिवेदनायेति शेषः, यत्किमप्यस्मत्परिभोग्यमस्ति तत्सर्वं 'तुब्भण्हं संतियं 'ति युष्माकं सत्कं युष्मदीयमित्यर्थः, किंभूतं तद् ? इत्याह-' अहाकप्पं 'ति कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः, किं पुनस्तदित्याह -' वस्त्रं वे 'त्यादि प्रतीतमेव, नवरं पतद्ग्रहः-पात्रं पादप्रोञ्छनकंरजोहरणं 'अट्टं व'त्ति अर्थ:-सूत्राभिधेयः प्राकृतत्वान्नपुंसकनिर्देशः, प्रश्नः - पण्डिताभिमानी प 25 माननिग्रहाय गुरुर्वा संशये सति यत्प्रश्न्यते तत्रैव च यदुत्तरं तद्व्याकरणं, वाशब्दाः समुच्चयार्थाः एवं तावद्यत्किमप्यस्मत्परिभोग्यं तत्सर्वं युष्मदीयमित्येवं वस्त्रादिनिवेदनद्वारेणात्मानं गुरूणां निवेद्य साम्प्रतं युष्माभिरेवेदं वस्त्रादि मम दत्तमित्यावेदयंस्तद्ग्रहणसंभविनमविनयं क्षमयन्निदमाह– 'तुब्भेही 'त्यादि, युष्माभिर्यत् प्रीत्या दत्तं मया त्वविनयेन प्रतीप्सितं तत्र मिथ्यादुष्कृतमिति प्राग्वद्, एवं चोक्ते सूरिराह - 'आयरिअसंतियं 'ति (९५ – १), पूर्व्वाचार्यसत्कमेतद्वस्त्रादिकं किं ममात्रे30 त्यहङ्कारवर्ज्जनार्थं गुरुभक्तिख्यापनार्थं चेत्थमाहेति । साम्प्रतं पक्षाभ्यन्तरे यद्विनयिताः शिक्षां . ग्राहितास्तमनुग्रहं बहुमन्यमानाः पञ्चमक्षामणकसूत्रमाहुः, तच्चेदं -' इच्छामि खमासमणो ! अपुव्वाई काई च मे किइकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ