________________
परिशिष्टम् - १२८५ द्भावनार्थौ 'तुब्भे जाणह' त्ति यूयं जानीथ यत्किञ्चिदितिवर्त्तते "अहं न याणामि "त्ति अहं पुनर्न जानामि मूढत्वाद् यत् किञ्चिदिति वर्त्तत एव 'तस्स 'त्ति षष्ठीसप्तम्योरदादस्मिन् अप्रीतिकविषये विनयपरिहीणविषये च ‘मिच्छा मि दुक्कडं 'तिमिथ्या मे दुष्कृतमिति स्वदुश्चरित्रानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीतिशेषः, अथवा 'तस्स 'त्ति विभक्तिपरिणामात्तदप्रीतिकं विनयपरिहीणं च मिथ्यामोक्षसाधनविपर्ययभूतं वर्त्तते मे मम तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्ति- 5 रूपमपराधक्षमणमिति । अत्राऽऽचार्य्यो ब्रूते - 'अहमवि खामेमि तुब्भे 'त्ति (९१-४), प्रतीतार्थमेवेदमिति । इह यथा राजानं पुष्पमाणवा - मङ्गलपाठका अतिक्रान्ते माङ्गल्यका बहु मन्यन्ते यदुत अखण्डितबलस्य ते सुष्ठु कालो गतोऽन्योऽप्येवमेवोपस्थितः । एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण साधवः आचार्यस्य कुर्व्वन्ति, तच्चेदं - ' इच्छामि खमासमणो ! पिअं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियउवज्झायाणं नाणेणं 10 दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वइक्कतो कल्ला ज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि" व्याख्या-तत्र इच्छामिअभिलषामि वक्ष्यमाणं वस्तु हे क्षमाश्रमण !, कुतोऽपि कारणादप्रियमपि किञ्चिदिष्यत इत्यत आहप्रियं - अभिमतं चशब्दः समुच्चये मे-मम, किं तदिच्छामि प्रियं चेत्याह- यद् भे-भवतां हृष्टानांरोगरहितानां तुष्टानां - तोषवतां अथवेदं हर्षातिरेकप्रतिपादनार्थमेकार्थिकपदद्वयोपादानं अल्पातङ्कानां - 15 अल्पशब्दस्याभाववचनत्वात्सद्योघातिरोगवर्जितानां सामान्येन वा नीरोगाणां स्तोकरोगाणां वा सर्व्वथा निरुजत्वस्यासंभवात् “अभग्गजोगाणं "ति अभग्नसंयमयोगानां 'सुसीलाणं सुव्वयाणं 'ति व्यक्तं, साचार्योपाध्यायानां-अनुयोगाद्याचार्य्योपाध्यायोपेतानां ज्ञानादिभिरात्मानं भावयतां बहुशुभेनअत्यर्थश्रेयसा ईषदूनशुभेन वा सर्व्वस्य शुभस्यासंभवात् 'भे 'इति भो भगवन्तः अथवा भे इति भवतां भावयतामित्येकेनैव विशेषणेन सम्बन्धनीयं, दिवसो-दिनं, किंविशिष्टः ? - पौषधो-धर्म्मपोषकः तथा 20 . पक्ष:- अर्द्धमासरूपो व्यतिक्रान्तः - अतिलङ्घितः अन्यश्च पक्ष इति वर्त्तते भे- भवतां कल्याणेन - शुभेन युक्त इति गम्यते पर्युपस्थितः - प्रक्रान्त इत्येवं मङ्गलवचनमभिधाय गुरून् प्रणमन्नाह - शिरसा मनसेति व्यक्तं, चशब्दश्चेह समुच्चयार्थो द्रष्टव्यः 'मत्थएण वंदामि त्ति नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धं अतः शिरसेत्यभिधायापि यन्मस्तकेनेत्युक्तं तददुष्टमेव, यथैषां बलीवर्द्धानां एष गोस्वामीति गोस्वामिशब्दस्य स्वामिपर्यायतया लोके रूढिरिति ॥ अत्राचार्य आह- 'तुब्भेहिं समं' (९२ – ९) ति, युष्माभिः 25 सार्द्धं सर्व्वमेतत्सम्पन्नमित्यर्थः । अथ चैत्यवन्दापनं साधुवन्दापनं च निवेदयितुकामा भणन्ति - 'इच्छामि खमासमणो ! पुव्विं चेइआई वंदित्ता णमंसित्ता तुब्भण्हं पायमूले विहारमाणेणं जे केई बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा रायणिया संपुच्छंति ओमरायणिया वंदंति अज्जया वंदंति अज्जियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निस्सल्लो निक्कसाओ सिरसा मणसा मत्थएण वंदामि ॥ ' अहमवि वंदावेमि 30 चेइयाइं 'ति व्याख्या-इच्छामि - अभिलषामि चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेष: 'खमासमणो 'त्ति पूर्व्ववत् 'पुव्वि 'न्ति विहारकालात्पूर्व्वं चैत्यानि - जिनप्रतिमा: वन्दित्वा
-