________________
૨૯૪ & મલધારીહેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) यद्यपि सर्वेष्वपि पृथिव्यादिभेदेषु प्रत्येकं निकायता लभ्यते तथापि सामान्येनेह सर्वोऽपि जीवसङ्घातो निकायत्वेन विवक्ष्यते, अन्यथा अनन्तरवक्ष्यमाणव्याख्यान्तरभेदाभावप्रसङ्गात्, ततश्च निकाय एव कायो निकायकाय इति कर्मधारयोऽत्र विधेयो, द्वितीयव्याख्याने तु षड्विधोऽपि पृथ्व्यादिभेदो निकायतया
प्रत्येकं विवक्ष्यते, ततश्च निकायानां कायो निकायकाय इति षष्ठीतत्पुरुष इति व्याख्याद्वयस्य भेद इति । 5 'अनेन च धर्माधर्माकाशानामैकैकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य चैकत्वादस्ति
कायत्वापत्तिरिति एतत्परिहृतमवगन्तव्य'मित्यादि (२४-६), अयमत्र भावार्थ:-अत्र यदि कश्चिद् ब्रूयात्-ननु कायशब्दस्य निचयवाचित्वाद्धाधाकाशानां त्वेकैकद्रव्यरूपत्वादस्तिकायत्वानुपपत्तिरिति पञ्चास्तिकाया इत्ययुक्तं, अथैकरूपस्याप्यस्तिकायत्वमभ्युपगम्यते तीद्धासमयस्याप्येक
रूपस्य तत्स्याद्, एवं च सति षडस्तिकायाः प्राप्नुवन्ति, एतद् गाथायां बहुप्रदेशग्रहणेनैवकारार्थेन 10 तुशब्देन च परिहतं, एतदुक्तं भवति-धर्माधाकाशानां बहुप्रदेशत्वस्यागमेऽनेकधा प्रतिपादितत्वेन
निचयरूपताया अविरोधात्कायशब्दप्रवृत्तिरदुष्टैव, अद्धासमयस्य तु वर्तमानसमयमात्ररूपत्वान्निचयत्वायोगाद् आगमे च क्वचिदपि अनुक्तत्वान्न कायशब्दप्रवृत्तिरिति पञ्चैवास्तिकाया न हीना नाप्यधिका इति, गन्धहस्तिना तु कयाचिद्विवक्षया कालस्याप्यस्तिकायता उक्ता, सा त्विह न विवक्षितेति ॥ इह
पाक्षिकक्षामणकसूत्राणि वृत्तिकृता न सामस्त्येन व्याख्यातान्यतः संक्षेपतः किञ्चिदव्याख्यायन्ते-तत्र च 15 वाचनावैचित्र्यदर्शनात् प्रत्यक्षरं सूत्रमभिलिख्यते-'इच्छामि खमासमणो ! अब्भुट्टिओमि अभितर
पक्खिअं खामेडं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जंकिंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छा मि
दुक्कडं 'ति (९०-७), व्याख्या-'इच्छामि 'त्ति अभिलषामि क्षमयितुमितियोगः 'खमासमणो 'त्ति हे 20 क्षमाश्रमण !, ओकारान्तत्वं च प्राकृतत्वात्, न केवलमिच्छामि किन्तु 'अब्भुट्टिओमि'त्ति
अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहं, अनेनाभिलषितमात्रव्यपोहेन क्षमणक्रियायाः प्रारम्भमाह, 'अभितरपक्खिअंति पक्षाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षमयितुं-मर्षयितुमितिप्रस्तावना, क्षमणमेवाह"पन्नरसण्हं" पञ्चदशानां "दिवसाणं"ति दिनानां 'पन्नरसण्हं' पञ्चदशानां 'राईणं'ति रात्रीणां अभ्यन्तर
इति शेषः, "जंकिंचि"त्ति यत्किञ्चित्सामान्यतो निरवशेषं वा "अपत्तिअं"ति प्राकृतत्वादप्रीतिकं25 अप्रीतिकमात्रं "परपत्तिअं" प्रकृष्टं अप्रीतिकं परप्रत्ययं वा-परहेतुकं उपलक्षणत्वादस्य आत्मप्रत्ययं
चेति द्रष्टव्यं, भवद्विषये मम जातं भवतां वा मया जनितमिति वाक्यशेषः, "तस्स मिच्छामि दुक्कड"मिति सम्बन्धः, तथा भक्ते-भोजनविषये पाने-पानविषये विनये-अभ्युत्थानादिरूपे वैयावृत्त्ये-औषधपथ्यदानादिनोपष्टम्भकरणरूपे आलापे-सकृज्जल्पे संलापे-मिथः कथायां उच्चासने समासने चेति व्यक्तं
अन्तरभाषायां-आराध्यस्य भाषमाणस्य अन्तरालभाषणरूपायां उपरिभाषायां-आराध्यभाषणानन्तरमेव 30 तदधिकभाषणरूपायां, इह समुच्चयार्थः चशब्दो लुप्तो द्रष्टव्यः, यत्किञ्चित्समस्तं सामान्यतो वा .
"मज्झ"त्ति मम विनयपरिहीणं-शिक्षा वियुतत्वमनौचित्यमित्यर्थः सञ्जातमितिशेषः, विनयपरिहीणस्यैव सामस्त्यं सामान्यरूपतां वा दर्शयन्नाह-सूक्ष्मं वा बादरं वा, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतो