________________
૪૨૬ * भसधारीडेभयन्द्रसूरित टीप्पा (भाग - ६)
निरवशेषक्षयादिति, यदपि कालभेदेनोपयोगप्रवृत्तिमुद्भाव्य दूषणमुक्तं तत्राप्याह-योऽयं युगपद्दर्शनज्ञानोपयोगः सिद्धानां न भवति स तावज्जीवस्वाभाव्यादेवेति, यत्पुनरयुगपदुपयोगेऽसर्वज्ञता प्रेरिता तत्राह - 'नयमयाओ यत्ति, (३२६ - २) अयुगपदुपयोगप्रवृत्तावपि नियमतः सर्व्वज्ञताऽस्यानिवारितैवेति अध्याहारः, इदमत्र हृदयं - यत्र क्षणे असौ सामान्ये उपयुक्तस्तस्मिन्नपि क्षणे 5 विशेषपरिज्ञानलब्धिरस्य विद्यते यत्र वा क्षणे विशेषेषूपयुक्तस्तत्रापि सामान्यपरिज्ञाने लब्धिरस्ति, ततश्च य इह नैगमादिर्नयो लब्धिमिच्छति तन्मतेनास्य सर्व्वज्ञता कदाचिदपि न हीयते, इत्थं चेदमङ्गीकर्त्तव्यं अन्यथैकस्मिन्काले तावदेकस्मिन्नेव ज्ञाने उपयोगो न बहुषु, अथ च छद्मस्थावस्थायामेष द्विज्ञानी त्रिज्ञानी चतुर्ज्ञानीत्यादयो व्यपदेशाः कथं सर्वदैव प्रवर्तेरन् ?, अथैकज्ञानोपयोगेऽपि लब्धितः शेषज्ञानान्यपि सन्तीति न सर्व्वदा शेषज्ञानैर्व्यपदेशो दुष्टः तदेतदिहापि समानमितिव्यवस्थितमेतद्— 10 अयुगपदुपयोगप्रवृत्तावपि नैगमादिलब्धिनयमतेन सर्व्वदैव सर्व्वज्ञताऽस्य न क्षूयत इति, यदप्युक्तं'युगपदेव ज्ञानदर्शने प्रवर्त्तेयातां तथा च तयोरेकत्वं स्यादिति, तत्र जीवस्वाभाव्यात् तयोर्युगपत्प्रवृत्तिर्नेष्यते एवेति कुत एकत्वं ?, अथवा युगपत्प्रवृत्तिमभ्युपगम्याप्याह - ' न पिहुयावरणाउ' त्ति, (३२६-२)युगपदुपयोगप्रवृत्त्यभ्युपगमेऽपि न ज्ञानदर्शनयोरेकत्वमित्यध्याहारः, कुत इत्यत्र हेतुमाहपृथगावरणादिति, भावार्थः प्रयोगादवसेयः, स चायं - इह यस्य २ पृथगावारकं कर्म्म आसीत् 15 तत्तदवक्षेपे युगपत्प्रवृत्तावपि नैकीभवति, यथा- दर्शनावरणवीर्य्यान्तरायक्षयोद्भूते क्षायिकसम्यक्त्वानन्तवीर्य्ये, आसीच्च पृथगावारकं कर्म्म दर्शनज्ञानयोः ततः तत्क्षये युगपत्प्रवृत्तावपि नैकीभवत इति, यदिवाऽवबोधसामान्यमाश्रित्य द्रव्यार्थिकमतेन दर्शनज्ञानयोरेकत्वमपि भवतीतिसिद्धसाध्यतैवेत्येतदाह'दव्वट्ठिए'त्यादि पातनयैव व्याख्यातमिति, द्रव्यार्थिकमतमेव दर्शयति- 'नाणनये 'त्यादि, (३२६– ३) गाथा सुगमा, नवरं ज्ञाननयदर्शननयौ द्रव्यार्थिकभेदौ, द्रव्यार्थिको हि सामान्यवादित्वादवबोध20 सामान्यमाश्रित्य सर्व्वं ज्ञानमेवेदं, दर्शनं वेत्यभ्युपगच्छतीति, अयुगपदुपयोगापेक्षया पूर्व्वमसर्व्वज्ञता प्रेरिता तां पुनः प्रकारान्तरेण परिहर्तुमाह- 'पासणयं व 'गाहा, (३२७ - १) एतदुक्तं भवति - केवलज्ञानस्य केवलदर्शनस्य च प्रज्ञापनायां पश्यत्ता प्रतिपादिता, तां चाश्रित्य ज्ञानपयोगकाले दर्शनमस्ति दर्शनोपयोगेऽपि ज्ञानमपि पश्यत्तासामान्यस्योभयत्रापि भावादिति नासर्व्वज्ञतेत्युत्तरपक्षगतसार्द्धगाथापञ्चकार्थः। सदेवमनुजासुरलोकाशातनाप्रतिविधाने 'सत्तसु परिमिए 'त्यादि (३३१-७) 25 गाथाद्वयव्याख्या–यत्तावदुक्तं - 'सप्तद्वीपसमुद्रमात्रो लोकः, तदसङ्गतं, एतावन्मात्रे लोके सत्त्वानां परिमितत्वात् तेषामपि चानवरतं सिद्धिगमनात्कालस्य चानन्तत्वान्निगोदजीवानां च परैर्वार्त्तयाऽप्यश्रुतत्वात्सर्व्वशून्यतापत्तिः, सोपस्कारत्वात्प्रजापतिना कृतो लोक इति अभ्युपगमे सोऽपि प्रजापतिः केन कृत इति वाच्यं, अपरप्रजापतिनेति चेत् सोऽपि केनेत्यनवस्था, 'प्रकृतिपुरुषसंयोगाल्लोको भवती 'ति यदुक्तं तत्राह - प्रकृत्या प्रवृत्तिरेव कथं घटते ?, यद् - यस्मात्कारणात् अचेतना सती पुरुषार्थप्रसाधनाय 30 किल प्रवर्त्ततेऽसावित्यभ्युपगम्यते नचाचेतनस्य स्वतन्त्रस्योपलशकलस्येव प्रवृत्तिर्युज्यते, अचेतनामप्येतां पुरुष: प्रवर्त्तयिष्यतीति चेदाह - 'तीसे च्चिअ अपवत्ती परोत्ति, (३३१ – १०) तस्याश्च-प्रकृतेः