SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-१ * ४२७ 'अपवत्ति'ति अप्रवर्तकः परः पुरुष इत्यर्थः, एतदुक्तं भवति-न ह्यचेतनायास्तस्याः पुरुषः प्रवर्तकत्वेन भवद्भिरभ्युपगम्यते तस्य सकर्तृत्वप्रसङ्गात्, तस्मात्प्रकृतेः कथञ्चिदपि लोकनिवर्त्तने प्रवृत्त्ययोगात्प्रकृतिपुरुषसंयोगादपि न तत्सिद्धिरिति सर्वमेव विरुद्धं परैः प्रलपितमिति गाथाद्वयार्थः । 'उभयोरपि दृष्टोऽन्त'इति (३३३-३) निश्चय इत्यर्थः । 'तामालम्ब्य प्रशस्तमनसः कर्मयदर्शनादिति (३३४-७) यो हि किल श्रुतदेवताधिष्ठितं मन्त्रं प्रशस्तमनसा ध्यायति तस्य 5 काव्यादिशक्तयो विशिष्ट श्रुतलाभश्च दृश्यते, ततश्च कर्मक्षयः सुप्रतीत एवेति । 'एतानि च चतुर्दश सूत्राणि श्रृंतक्रियाकालगोचरत्वान्न पौनरुक्त्यभाञ्जी 'ति, (३३५-६) अयमत्र भावार्थः- इह यद्यपि केवलिपन्नत्तस्स धम्मस्स आसायणाए' इत्यत्र सूत्रे श्रुतधर्माशातनाद्वारेण श्रुताशातना प्रतिपादिता तथा 'सुअस्स आसायणाए' इत्यत्रापि सूत्रेऽसौ प्रोक्ता तथा प्रस्तुतैरपि चतुर्दशभिः सूत्रैरसावेवश्रुताशातना प्रतिपाद्यते तथापि न पौनरुक्त्यमाशङ्कनीयं, यतः पूर्वसूत्रद्वयोक्ताशातना सामान्यश्रुतविषया द्रष्टव्या 10 'जं वाइद्ध'मित्यादिप्रस्तुतंचतुर्दशसूत्रोक्ता तु श्रुतक्रियाकालगोचरा श्रुताध्ययनप्रवृत्तस्येत्यर्थः, पूर्वसूत्रद्वयस्य तु परस्परं पौनरुक्त्यं 'सुयस्स आसायणाए' इत्यत्र वृत्तिकृतैव परिहतमिति सर्वं सुस्थमिति, ननु तथाप्येतानि चतुर्दश पदानि तदा पूर्यन्ते यदा सुष्ठु दत्तं दुष्ठु प्रतीच्छितमिति पदद्वयं पृथगाशातनास्वरूपतया गण्यते, न चैतद्युज्यते, सुष्ठु दत्तस्य तद्रूपताऽयोगात्, न हि शोभनविधिना : दत्ते काचिदाशातना संभवति, सत्यं, स्यादेतद् यदि शोभनत्ववाचकोऽत्र सुष्ठुशब्दः स्यात् तच्च 15 नास्ति, अतिरेकवाचित्वेनेहास्य विवक्षितत्वाद्, एतदत्र हृदयं-सुष्ठु-अतिरेकेण विवक्षिताल्पश्रुतयोग्यस्य पात्रस्याऽऽधिक्येन यत् श्रुतं दत्तं तस्य मिथ्यादुष्कृतमिति विवक्षितत्वान्न किञ्चिदसङ्गतमिति ॥ आशातनाः समाप्ताः ॥ साम्प्रतमस्वाध्यायिकनियुक्तिरारभ्यते-तत्र यदुक्तं-'सव्वेसिं जाव पाडिवओ'त्ति तत्र परः प्राह-नन्वाषाढीप्रभृत्युत्सवाः पौर्णमासीपर्यन्ता एव प्रायो दृश्यन्ते तत्कथं प्रतिपदं यावद्वय॑न्ते 20 इत्याशङ्क्याह-'छलणावसेसएणं'गाहा, (३५१-४) इहाषाढीप्रभृत्युत्सवेषु सर्वत्र पर्यटत्क्रीडाप्रियव्यन्तरादिभ्यस्तावच्छलना संभवति तदवशेषश्चातीव प्रत्यासत्तेः प्रतिपद्यपि संभाव्यते अतश्छलनावशेषेण हेतुना प्रतिपत्स्वपि उत्सवा अनुसर्पन्ति, किं च - महः-उत्सवस्तव्याकुलत्वेन पौर्णमास्यां ये गृहस्थैर्भोजनादिना न सन्मानिता भवन्ति तेषां पौर्णमास्यां असारितानां-असन्मानितानां सन्मानः प्रतिपत्स्वपि सम्भवति तेन तत्राप्युत्सवा अनुसर्पन्तीति, प्रक्षेपगाथा चेयं लक्ष्यते सोपयोगा चेति 25 व्याख्यातेति गाथार्थः । 'पिट्ठायगलोट्टभंडणे वत्ति, (३५५-८) पिष्टं मुद्गमाषमकुष्ठादीनां लोट्टस्तु योवारिप्रभृतिधान्यानां, ततश्च यथेह धूलिहट्टिकायां रेणुना क्रीडन्ति तथा विषयान्तरेषु पिष्टलोट्टादिभिः स्वविषयप्रसिद्धैर्लोकाः क्रीडन्ति तेषु च क्रीडत्सु तावतीं वेलामनध्ययनं भवतीति, भंसुला:-क्रीडोत्क्षिप्तरेण्वादिनिकरा इति । 'सीआणे जं दटुं'गाहा, (३६८-७) व्याख्या-श्मशाने यद्दग्धमस्थि उपलक्षणत्वाद् व्यूढं च यदुदकप्रवाहेन तन्नास्वाध्यायिकं करोतीति गम्यते 'तत्तु 30 मोत्तूणं ति तत् श्मशानदग्धं मुक्त्वा शेषाण्यनाथमृतकनिहितास्थीनि तथा आडम्बरो-मातङ्गयक्षो
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy