________________
परिशिष्टम् - १ * ४२५ जीयस्स परिणामः सोऽभिष्वङ्गोऽभिधीयते, किं सर्व्वेऽपि जीवपरिणामस्तथोच्यते ?, नेत्याह-येन धनधान्यकलत्रादिगार्ध्यपरिणामेनास्य जन्तोरन्ते - आयत्यां नारकादिभवदुः खलक्षणं भयमुत्पद्यते स तथाभूतः परिणामोऽभिष्वङ्गो न सर्व्वेऽपीति भावार्थ: । योगसङ्ग्रहाः समाप्ताः ॥
साम्प्रतमर्हदाशातनादिगता गाथा वित्रियन्ते, 'तत्थ - नत्थी अरहंतत्ती' गाहा (३२४ - ११) व्याख्या–प्रत्यक्षादिप्रमाणाग्राह्यत्वान्न सन्ति केचनार्हन्तः, सत्त्वे वा गृहवासेऽपि यदि ज्ञानत्रयसमन्वितो- 5 ऽर्हन्नभ्युपगम्यते तर्हि जानानोऽपि किमिति विपाकदारुणान् भोगान् असौ भुङ्क्ते ?, समुत्पन्नकेवलज्ञानश्च किमिति वीतरागोऽपि सन् प्राभृतिकां - सुररचितसमवसरणमहाप्रातिहार्य्यादिपूजालक्षणामुपजीवति, तस्मान्नायं क्षोदक्षम इति ब्रुवत आशातना भवति, एवं वदतश्चास्येदमुत्तरं वाच्यं, यदाह - 'भोग' गाहा, (३२४–१२) भोगफलाः पूर्वजन्मनिर्वर्त्तिता याः साताद्याः पुण्यप्रकृतयस्तासामुदयप्राबल्याद् भुङ्क्ते भोगानिति भोगभुक्तिपक्षे उत्तरमेवं प्राभृतिकायामप्येतद् - वक्ष्यमाणमुत्तरं श्रृणु, तद्यथा - 10 ‘नाणाइअणवरोहग’गाहा, (३२५ – १) ज्ञानदर्शनचारित्राणामनुपरोधक:- अनुपघातको योऽयमघातिसुखपादपः–सातवेदनीयं उपलक्षणत्वाद्यशः कीर्त्यादिकर्म च तद्वेदनार्थं सुरसार्थविहितपूजामर्हन्ननुभवतीति प्रकरणाद् गम्यते, तीर्थकृतो ह्यघातिकर्मवेदने नोपायान्तरमस्ति, न च तथा वेदयतः कश्चित् ज्ञानाद्युपरोधोऽस्तिं, तीर्थकरनामकर्म्मोदयाच्चामरादिपूजामयमनुभवति, तीर्थकरनामकर्म्मणो हि सकलत्रैलोक्यपूजनीयतैव विपाको नापर इति, तथा वीतरागत्वाच्च सुरपूजामनुभवतोऽपि न तस्य 15 तत्राभिष्वङ्गः क्षीणनि:शेषाभिष्वङ्गकारणमोहपटलत्वादिति सर्व्वं समञ्जसमिति गाथार्थ: । 'सिद्धाणं आसायण'मित्यादि, (३२५ - २) मूढस्य - अज्ञस्य वक्ष्यमाणं वदतः सिद्धविषयाशातना भवति, तद्यथा- न सन्ति सिद्धाः प्रत्यक्षाद्यग्राह्यत्वात्, सत्त्वे वा पाषाणवन्निश्चेष्टा एव किं तरिति, ननु पाषाणकल्पत्वमसिद्धं केवलज्ञानोपयोगयुक्तत्वात्तेषामित्याह- सति वा केवलोपयोगे विशिष्टेतरवस्तूपयोगे ध्रुवौ रागद्वेषौ प्रसज्येते, तथा सिद्धानां दर्शनज्ञानयोरन्यान्यकाले उपयोगोऽभ्युपगम्यते, एवं 20 . `चामीषामसर्व्वज्ञता प्राप्नोति, दर्शनकाले विशेषाणामदर्शनात् ज्ञानकाले तु सामान्यस्यादर्शनाद् एवं चैकस्मिन्नपि क्षणे न सर्व्वज्ञतेति, किंच - ज्ञानकाले दर्शनं न भवति तत्काले चेतरन्न भवतीत्यत्र कारणं वाच्यं, तच्च न ज्ञानदर्शनावरणकर्मणी, तयोन्निर्मूलकाषंकषितत्वात्, ततः सामर्थ्यात् ज्ञानेन दर्शनमाव्रियते दर्शनेन तु ज्ञानमित्यन्योऽन्यावरणता समापद्यते, अथ परस्परावरणताऽपि नेष्यते तर्हि . तन्निषेधककारणाभावाद्युगपदेव ज्ञानदर्शने प्रवर्त्तेयातां, तथा च सति तयोरेकत्वं स्यादिति 25 सार्द्धगाथाद्वयोक्तपूर्वपक्षार्थः ' भन्नइ नवि एएसि 'मित्यादिना, (३२५-५) प्रतिविधीयते एतेषां - सिद्धानामेकोऽप्युक्तदोषो न संभवति, तथाहि - यदुक्तं न सन्ति सिद्धास्तत्राह - सन्ति नियमात्सिद्धाः, सिद्ध इतिशब्दादेवेदं गम्यते, भावना चात्र प्रयोगतोऽवसेया, स चायं - सन्ति सिद्धाः व्युत्पत्तिमत्शुद्धशब्दवाच्यत्वाद् घटादिवदिति, निश्चेष्टताप्रेरणायां तु सिद्धसाध्यतैवेत्याह- करणवीर्यमाश्रित्य निश्चेष्टा अपि भवन्त्यमी, काययोगजनितवीर्यस्यात्यन्तक्षयादितिभावः, यदुक्तं - 'रागदोसधुवत्त 'त्ति, (३२५ - 30 ३) तत्राह-विशिष्टेतरवस्तुदर्शनेऽपि न तेषां रागद्वेषौ भवतः, तत्कारणरूपक्रोधादिकषायपटलस्य