________________
પરિશિષ્ટ-૧
૩૯૧
‘कैश्चित्सौगतविशेषैरपि – “रूपालोकमनस्कारचक्षुर्भ्यः संप्रवर्त्तते । विज्ञानं मणिसूर्य्याशुगोशकृद्भ्य इवानलः ॥१॥ इति” तदेवं विशिष्टरूपादिसाम्ग्र्या नीलादिविषयग्रहणपरिणामस्यैव ज्ञानस्याभ्युपगमान्नार्थाकारसङ्क्रान्तिपक्षोक्तो दोष:, तदभावाच्च नार्थाभाव इति स्थितं तद्दर्शनान्यथानुपपत्तेरेव स्वाभ्युपगमं ग्राह्यन्नाह—'इत्थं चैतदि त्यादि ( ३४१-३), प्रागुपन्यस्तविकल्पयुगलं भेदाभेदलक्षणं, इदमत्र हृदयं—अर्थाभावेऽप्यनाद्यविद्यावश-तस्तावद्भवताऽपि नीलपीतादिबुद्धयः क्षणिकस्वरूपा इष्यन्त एव, तत्र चोत्तरनीलबुद्धिक्षणो यो नीलाकारः प्रतिभाति स किं पूर्व्वनीलबुद्धिक्षणाद्भिन्नोऽभिन्नो वा ?, यदि भिन्नः कथमुत्तरसंवेदनक्षणे प्रतिभासते, प्रतिभासे वा पीताकारस्याप्युत्तरबुद्धिक्षणे प्रतिभास: स्यात्, पूर्व्वनीलबुद्धिक्षणाद्द्द्वयोरपि भेदाविशेषात्, अथाभिन्न इति पक्षस्तर्हि न जन्यजनकभाव:, उत्तरनीलसंवेदनाकारस्य पूर्व्वस्मादभिन्नत्वाद्, भेदे च जन्यजनकभावाभ्युपगमादित्युत्तरनीलसंवेदनोत्पत्त्यभावादेकमेव प्रथमनीलसंवेदनं स्यात्, अथ प्राक्तननीलसंवित्तेस्तथाभूतैवोत्तरनीलसंवित्तिः प्रादुर्भवति किं तत्र भेदाभेदचिन्त्या ?, हन्त तर्हि स एव सुद्भूतोऽस्मदभ्युपगमस्तवापि शरणं, वयमपि ह्येवमेव ब्रूमः - तथाविधनीलविषयादिसाम्ग्र्यास्तथाभूतमेव नीलप्रतिभासपरिणामं ज्ञानमुत्पद्यते किमिह भेदाभेदचिन्तयेति इत्येवमादि सुगमं । नन्वेतावता ग्रन्थेनेदमुक्तं- एकैकः परमाणुर्न गृह्यते, बहुषु तु परमाणुषु समुदितेषु तत्तुल्यरूपं चक्षुर्ज्ञाने प्रतिभासत इति तदेतन्मन्यामहे, केवलं परमाणूना बहुत्वेऽपि तुल्यबुद्धयभ्युपगमेऽयं विशेषो न स्याद् अयं घटादिरयं च शरावादि:, निबन्धनाभावादित्याशङ्क्याह - 'न च परमाणूना 'मित्यादि ( ३४१-५), पृथुबुघ्नोदराकारादिपरिणामवन्तो घटादयः उत्तानच्छत्राकारादिपरिणामवन्तश्च शरावादय इत्यादिपरिणामवैचित्र्यान्नि बन्धनाभावादित्यसिद्धो हेतुरित्यभिप्रायः ननु च मया भूतानामभाव आशङ्कितः, साधिता च परमाणुसत्तेत्य-सम्बद्धमेतदित्याशङ्क्याह - ' न च परमाण्वि' त्यादि ( ३४२ -१), नन्वयुक्तमेतद्आकाशस्यानणुरूपत्वात्, सत्यं युक्तमुक्तं केवलं पृथिव्यप्तेजोवायूनां तद्रूपत्वाद्बाहुल्यादित्थमुक्तं, आकाशं तु विद्यते नभः असमस्तपदवाच्यत्वाद् घटवदित्यादियुक्तिभ्यः स्वयमभ्यूह्यमित्यलं प्रसङ्गेन समाप्तश्चतुर्थगणधरः । पञ्चमः सुगमः । षष्ठः प्रारभ्यते - पूर्वं निर्हेतुकत्वादात्मन: प्रसूतिरेव नोपपद्यत इत्युक्तं इदानीं पूर्व्वस्मिन्नेव पक्षे प्रसूतिमभ्युपगम्यापि दूषणमाह - 'न चादिमत्यपी' त्यादि ( ३४७८), क्वचिदनादिमत्यपीति पाठः, स चायुक्त एव तत्पक्षस्यानन्तरमेव वक्ष्यमाणत्वादिति । अनादित्वाज्जीवकर्म्मसंयोगस्य वियोगाभावान्मोक्षाभावं प्रतिपाद्य प्रकारान्तरेणाह - 'देहकर्मसंन्ताने' त्यादि (३४८-२), सन्तानश्चायं देहकर्म्मणोरित्थं द्रष्टव्यः शरीरं कर्म जनयति, कर्मापि शरीरं, तदपि पुनः कर्म, कर्म्मापि शरीरं, तदपि पुनः कर्म, कर्म्मापि पुनः शरीरमिति, तदेवमत्र जन्यजनकभावेन व्यवस्थितेर्देहकर्म्मसन्तानस्य व्यवच्छेदाभावान्मोक्षाभावः पूर्वमंत्र च जीवकर्म्मणोर्वियोगाभावादित्ययं विशेषः, अत्र च परिहारः - संयोगावियोगाभावपक्षे यतः काञ्चनोपलयोरित्यादिकं वक्ष्यति, द्वितीयपक्षे तु स्वयमभ्यूह्यं यथा नायमेकान्तोऽनादेर्जन्यजनकत्वेनावस्थितस्य सन्तानस्यान्तो न भवति,