________________
૩૯૨ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) यतोऽनादिकालाज्जन्यजनकभावेन व्यवस्थितोऽपि बीजाङ्करादिः सन्तान: सान्तो दृश्यते, कस्यचिद्वीजस्य वल्यादिसामग्रीतो विनाशादङ्करस्यानुत्पत्तेरिति, ननु च जीवकर्मणोः संयोगः किं काञ्चनोपलवदुत जीवाकाशप्रदेशवद् ?, यद्याद्यः पक्षस्तहि भवद्दर्शितनीत्यैव युज्यते वियोगो, द्वितीयपक्षे तु न युज्यते, सत्यं, द्विविधोऽपीहाश्रीयते, किन्तु प्रथमो भव्यानां द्वितीयस्त्वभव्यानामिति, ननु यदनादिस्वभावं तन्न क्रियते यथा व्योम, तथास्वभावं चाभ्युपगम्यते कर्म, तस्मान्न क्रियत इत्याशक्याह-'न चानादित्वादि'त्यादि, (३४८-९), उपपत्तिमाह-'यत इत्यादि (३४८-९), यदि वर्तमानतयोपात्तं कृतमभिधीयते तर्हि अनादिता कथमित्याशङ्कय पुनरपि वर्तमानत्वम् अनादित्वं च यथा भवति तथा सदृष्टान्तं दर्शयति–'सर्वं चेत्यादि (३४९-२), एतदुक्तं भवति-कालवत्कर्मणः प्रवाहापेक्षया अनादित्वं व्यक्त्यपेक्षया तु सादित्वमिति, ननु चेत्थं कर्मवियोगं प्राप्यानन्ताः सिद्धिक्षेत्रं जग्मुर्गमिष्यन्ति च, तच्च पञ्चचत्वारिंशद्योजनलक्षमानमेव, ततस्तावतां कथं तत्र स्थितिरित्याशङ्क्याह-'न च परिमिते'त्यादि, दृष्टान्तमाह-'प्रतिद्रव्य'मित्यादि (३५०-१), एकैकस्मिन्नपि हि परमाण्वादिके द्रव्ये येषां ज्ञानं विषयमासादयति तन्मतेन अनन्तानां सिद्धकेवलिनामनन्तानि ज्ञानदर्शनानि पतन्ति, न च तत्र कश्चित्सम्बाधः, अमूर्त्तत्त्वाज्ज्ञानस्य, तद्वदिहापीति भावः, दृष्टान्तान्तरमाह-'नर्तकी'त्यादि (३५०-२), नयनानां विज्ञानानि २ नर्तक्यां तत्सम्पातस्तद्वद्, रङ्गभूमौ हि लास्यप्रवृत्तवराङ्गनातनौ केषाञ्चिन्मतेन कौतुकाक्षिप्तदिदृक्षूणां नायना रश्मयो निर्गत्य बहवः पतन्ति; न च तत्र योषित्तनोः काचिद्वाधा नापि रश्मीनां परस्परं तद्वदिहापीति भावः षष्ठः समाप्तः ॥ सप्तम आरभ्यते–'स एष यज्ञायुधी'त्यादि (३५१-४), यज्ञ एवायुधं तद्विद्यते यस्य स तथा 'अञ्जसा' प्रगुणेन न्यायेन इदं देवसत्ताप्रतिपादकं, अनन्तरं च 'तथा अपामे'त्यादि (३५१-५), ज्योतिषः पर्यायमाह'स्वर्ग'मिति, येऽमरणधर्माणो मुक्ता न बभूवुस्ते स्वर्गमगमन्निति भावः, गत्वाऽपि स्वर्ग किं ते प्रापुरित्याह-'अविदाम देवानि'ति, विदेर्लाभार्थत्वाच्छान्दसत्वाच्च देवानिति देवत्वं लब्धवन्त इत्यर्थः, न केवलं मम प्रत्यक्षत्वात्सन्ति देवाः, किन्तु भवतोऽपि प्रत्यक्षत्वादिति योज्यं, तत्प्रत्यक्षत्वं च देवानां तदा तत्रैवागतत्वात्, आगमाच्च ‘स एष यज्ञायुधी'त्यादिलक्षणात्सन्तीत्यनुवर्तते, ननु 'को जानाति मायोपमानि' त्यादिलक्षणा-दागमान्नास्तित्वमप्यवसीयत इत्याह-'सर्वथे'त्यादि, 'अनधीनमनुजकार्यत्वादिति (३५३- ३), न हि मनुष्याणां सम्बन्धि किञ्चित्कार्यं देवानामायत्तं, तस्य मनुष्यनिर्वय॑त्वात्, यदिवा न देवकार्यं किञ्चिन्मनुष्याधीनं येन तन्निष्पत्तये ते इहागच्छेयुरिति भावः, एतैश्च सर्वैरेव हेतुभिः 'संकंतदिव्वपेमा विसयपसत्ता समत्तकत्तव्वा । अणहीणमणुयकज्जा नरभवमसुभं न इति सुरा ॥१॥' एषा भाष्यगाथा विवृता भवति, शेषं सुगमं । सप्तमः समाप्तः।। अष्टमः प्रारभ्यते-अत्र सर्वज्ञाभाववादिमीमांस-कादिमतमाशङ्कयाह-'न चाशेषे'त्यादि (३५५७), उपपत्तिमाह-'यत'इत्यादि, यदि समस्तवस्तुज्ञायकोऽसौ किमिति तन्न पश्यतीत्याह-'ज्ञाने'त्यादि, यद्यावृत्तस्वभावोऽसौ ज्ञस्वरूपत्वं तर्हि कथमवसीयते इत्याह-'तत्क्षये'त्यादि (३५५-८), तस्य