________________
૩૯૦ % મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) (३३९-५), सर्वैकत्वे शक्तीनां यथा पीतादिप्रतिभासहेतुता न भवति तथा प्रयोगेण दर्शयति'नीलविज्ञाने'त्यादि, 'न तद्धर्मेति (३४०-२). न नीलविज्ञानजननधम्मेत्यर्थः, शक्त्यन्तरस्वात्मवदिति, यथा शक्त्यन्तरंपीतादि-विज्ञानजननशक्तिलक्षणं नीलविज्ञानं न जनयति तथा नीलविज्ञानजननशक्तिरपि न तज्जनयेत्, पीतादिशक्त्यन्तररूपत्त्वात्तस्याः, अथ पीतादिविज्ञानशक्त्यो नीलविज्ञानशक्तिरूपास्तहि विपर्ययः स्वबुद्धया भावनीयः । 'बाह्योऽर्थः केन वार्यत' इति (३४०-४), अयमभिप्रायोयद्यालयविज्ञानाव्यतिरिक्ता वस्तुसत्यः शक्तयोऽभ्युपगम्यन्ते तर्हि गतो ज्ञानाद्वैतवाद इत्यर्था अपि किन्नाभ्युपेयन्त इति, ‘एव' मित्याधुपसंहारः । ननु च 'तदाभासज्ञानोत्पत्ते' रित्यत्र तुल्यरूपपरमाण्वाकारज्ञानोत्पत्तेः परमाणूनां तुल्यरूपग्रहणमित्ययमर्थोऽभिप्रेतः, स च न युक्तः, अर्थाकारस्यैव विज्ञाने विकल्पाभ्यामनुपपत्तेः, तथाहि-नीले वस्तुनि पुरो दृश्यमाने योऽयं ज्ञाने नीलाकारो भवद्भिर्गीयते स किं तस्मानीलवस्तुनो भिन्नोऽभिन्नो वेति वक्तव्यं, यदि भिन्नस्तर्हि न नीलवस्तुपरिच्छेदो, न हि ततोऽत्यन्तव्यतिरिक्ताकारपरिच्छेदे तस्य परिच्छेदो युक्तः, अन्यथा घटपरिच्छित्तौ पटस्यापि परिच्छित्तिः स्यादिति न प्रतिनियतविषयव्यवस्था, अथाभिन्नो नीलविषयान्नीलाकारोऽभ्युपगम्यते तर्हि विषयाकारस्य ज्ञानात्मनि सङ्क्रान्तत्वाद्विषयस्य निराकारतैव स्यात्, किञ्च-विषयादभिन्नत्वादाकारस्य तत्सङ्क्रान्तौ विषयस्यापि ज्ञानात्मनि सङ्क्रान्तिरभ्युपेया, सा च न युक्ता, निशितशस्त्रदहननीरनिवहाद्यवलोकने हृदयपाटनदहनप्लावनप्रसक्तेः, तदेवं विषयाद्भिन्नस्याभिन्नस्य वा तदाकारस्य ज्ञानात्मनि प्रतिभासाभावात् तद्द्वारेण ग्राह्यत्वा-भिमतार्थानामप्यभाव इति ज्ञानमेवैकं वस्तु सन्नार्थ इत्येवं विह्वलमारसन्तं ज्ञानाद्वैतवादिनमाशङ्क्याह-'न च विषये'त्यादि (३४१-१), विषयोनीलादिस्तबलेन यः सञ्जातः संवेदनस्यांकारो नीलादिः तस्य पूर्वोक्तनीत्या विषयाद्भेदाभेदविकल्पमुखेन अनुपपत्तिः-अघटना न भाव्येत्यक्षरघटना, भावार्थस्तु पातनावसरे कथित एव, क्वचिद् 'विषयबलोपसंजातसंवेदनाकारस्य ज्ञानस्य'ति पाठः, स तु नातीव श्लिष्टतया बुद्धयते, कथञ्चित्स्वबुद्धया भावनीयो वा, कस्मात्संवेदनेऽर्थाकारस्यानुपपत्तिर्न भाव्येत्याह-'विशिष्टे'त्यादि (३४१-१), अयमभिप्रायो-नास्माभिराकारसङ्क्रान्तिर्ज्ञानेऽभ्युपगम्यते येन भेदाभेदपरिकल्पनयाऽऽत्मानं पंरिक्लेशयति भवान्, किन्तु विशिष्टपरिणामो योऽर्थः प्रतिविशिष्टदेशाद्यवस्थानेन सम्पादितविज्ञानजननस्वभाव इति भावः, तत्सन्निधावात्मनो-जीवस्य कालश्च क्षयोपशमश्च आदिशब्दात्सोपयोगत्वादिपरिग्रहः, तत्सव्यपेक्षस्य नीलादिप्रतिभासं ज्ञानमुत्पद्यते, तथाहिपुरुषादिमुखसङ्क्रान्तिमन्तरेणापि दर्पणादौ कश्चित्प्रतिबिम्बोदयो दृश्यते, न च तत्र भेदाभेदकल्पना युक्तिमती, तथाविधपुरुषमुखादिसामग्यास्तथा-भूतसप्रतिबिम्बदर्पणादिवस्तूत्पत्तिदर्शनात्, न हि दृष्टेऽनुपपत्रं नाम, यथा वा सूर्योपलरवि-किरणगोमयादिसामग्या अनलप्रसूतिः, न च तत्र सामण्यन्तर्गतं किञ्चित्तत्र सङ्क्रामति, तथेहापि रूपालोकमनस्कारादिसामण्या नीलादिप्रतिभासपरिणामस्वरूपमात्मनो ज्ञानमुत्पद्यते का तत्र भेदाभेदपरिकल्पना ?, प्रतीतिबाधितत्वेन तस्या अनादेयत्वात्. तदुक्तं