________________
પરિશિષ્ટ-૧ ૩૮૯ अनणुत्वस्याभावः, षष्ठयन्तस्य वतिः, तथा सजातीयेभ्यः-परमाणुभ्य एकान्तेनाणुत्वेनापि व्यावृत्ताविष्यमाणायामणुत्वस्याप्यभावः स्यात्, भावे चाणुत्वस्यैव तुल्यरूपतेति सिद्धं नः साध्यं, ननु चार्थानां तुल्यत्वातुल्यत्वचिन्ता युज्यते यद्यर्था एव तावत्सत्यतया सिद्धा भवेयुः, तच्च नास्ति, तत्प्रतिभासस्य निर्निमित्ततया भ्रान्तत्वात्, तथाहि-स्तम्भादीनां यावद्दृश्यमस्ति तस्य परभागः कल्पनीयः, स चार्वाग्भागेन तिरोहितत्वान्न दृश्यते, सारातीयभागस्त्वेकैकपरमाणुप्रतररूपः, स च नाग्दिर्शिनां दृग्पथमवतरतीत्यनादिविद्यातो निनिर्मित्ता एवार्थावभासास्तथा तथा विपरिवर्तन्त इति भवदभिप्रेतापि तुल्यबुद्धिनिमित्तरहितैवेत्याशङ्कयाह-'न चेयमनिमित्ते'त्यादि (३३८-१), एतदपि कुत इत्याह-'देशे' त्यादि, यदि हि निनिमित्ता एवार्थबुद्धयो भवेयुस्तर्हि देशकालाद्यनियमेन सर्व्वत्रैवोत्पद्येरन्नियामकाभावादिति भावार्थः । ननु च स्वप्नबुद्धयोऽपि नियतदेशादिविशेषितमर्थं गृह्णन्ति न च सत्या एवेत्याह-'न च स्वप्ने'त्यादि (३३८-१), भावना सुगमैव, 'अणूभूय' गाहा (३३८-३). अनुभूतं-जलावगाहनादि दृष्टम्-अङ्गनादि चिन्तितं-क्रयविक्रयादि श्रुतं-देवलोकादि प्रकृतिविकारो-वार्तापत्तक्षोभादिर्देवता-प्रतीता अनूपः-सजलप्रदेशः, तत्र हि सुप्तः प्रायः किल प्रचुरस्वप्नदशीं भवति, एतानि साण्यपि स्वप्नदर्शननिमित्तानि भवन्ति, तथा शुभस्वप्नदर्शने पुण्यं दुःस्वप्नदर्शने पापं च निमित्तीभवति नाभावः-अवस्तुरूप: । किञ्च-यदि घटादयोऽर्थाः सत्यतया नाभ्युपगम्यन्ते तहि नेयं भवतो व्यवस्था युज्यते-अयं स्वप्नोऽयं चास्वप्नः इदं गन्धर्वनगरं व्यलीकमिदं तु वस्तु सन्नगरं पाटलीपुत्रादीति, अमुमेवार्थमाह-'न च भूते'त्यादि (३३८-५). एवं तुल्यबुद्धेः सनिमित्तत्वं व्यवस्थाप्य पुनरपि ज्ञानवादिमतमाशङ्क्याह-'न चालये'त्यादि (३३८५), आलय आश्रय आधार इत्यनान्तरं, तद्भूतं विज्ञानं आलयविज्ञानं घटद्यर्थग्राहकानेकज्ञानजनकशक्त्याधारमनादिप्रवाहवाहिकया प्रवृत्तं मनस्काराख्यं चैतन्यमात्रमित्यर्थः, ' तद्गता या शक्तिस्तस्यास्तथाविधवासनातः समुद्भूतो यः परिपाकस्तत्समनन्तरं यदुत्पन्नं तुल्योऽयमिति विकल्पजननसामर्थ्यमालयविज्ञानस्य तदस्यास्तुल्यबुद्धेनिमित्तं न बाह्यार्थगतं तुल्यत्वमिति न वाच्यं, कुत इत्याह-'स्वलक्षणे'त्यादि (३३९-१), आलयविज्ञानगतं हि सामर्थ्य सकलसजातीयविजातीयव्यावृत्तं स्वलक्षणरूपं, तच्च कथं तुल्यबुद्धौ विपरिवर्त्तमानस्य विजातीयव्यावृत्तिमात्ररूपतुल्यत्वस्य निमित्तीभवति ?, न ह्यात्मना अन्यथाभूतं वस्तु अन्यथाभूतं विज्ञानं जनयति, नीलवस्तुनि पीतज्ञानप्रसक्तेरिति भावार्थः, नाप्यत्यन्तसाहसपरैरक्षिणी निमील्येदमभिधानीयं-आलयज्ञानं स्वलक्षणादन्यत्किञ्चिदुत्पत्स्यते ततोऽपि पारम्पर्येण तुल्यबुद्धिगतं तुल्यत्वं सामान्यमिति, कुत इत्याह-'स्वलक्षणे'त्यादि (३३९-२), सुगम, किञ्च-यः प्रागालयज्ञानस्य शक्तिपरिपाकोऽभिहितः सोऽपि बाह्यनीलाद्यर्थमन्तरेण नोपपद्यते, निबन्धनाभावात्, अन्यथा सर्वदा शक्तिपरिपाकप्रसङ्गात्, एतदेवाह-'बाह्ये'त्यादि (३३९-३), किञ्च-आलयज्ञानस्य याः पूर्वं शक्तयोऽभिहिताः ता अपि भेदाभेदैविकल्प्यमाना न सत्तामनुबन्धन्ति, एतदाह-'किञ्चालये'त्यादि