SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ૩૮૮ મો મલધારી હેમચન્દ્રસૂરિકૃતિ ટીપ્પણક (ભાગ-૨) यो घटस्तद्वद्देशतः प्रत्यक्षो जीव इति। ननु च देह एव ग्रहो न तद्व्यतिरिक्तः, तस्य चाव्यतिरिक्तहास्यादिलिङ्गेन सहाविनाभावोऽध्यक्षसिद्ध एवेत्याशङ्कयाह-'न च देह एव ग्रह' इति (३२२-३), यदि हि देह एव ग्रहः स्यात्तदा देहत्वाविशेषा-त्सर्बदेहानामप्यष्यतिरिक्तहास्यादिप्रसङ्ग इति भावः इति प्रथमो गणधरः । इदानी द्वितीयः-'छलादिने'ति (३२४-१), आदिशब्दाद् वितण्डाजात्यादिपरिग्रहः, 'अकारणताविशेषाभ्युपगमे चे'त्यादि (३२८-५), एतदुक्तं भवतियद्यतिप्रसङ्गनिवृत्त्यर्थमकारणतापि विशिष्टा काचिदभ्युपगम्यते तदा तद्भावप्रसङ्ग:-कर्मभावप्रसङ्गः. संज्ञान्तरेण तस्यैवोक्तत्वादित्यभिप्रायः इति द्वितीय इति । तृतीयः सुगमः । इदानीं चतुर्थवक्तव्यता'समूहिभ्यस्तत्त्वान्यत्वाभ्या'मित्यादि (३३५-१), समूहः समुदाय इत्यनर्थान्तरं, समूहिनः समुदायिन इत्यपि च, ततश्चायं समुदाय: समुदायिभ्यो भिन्नो वा स्यादभिन्नो वा ?, यद्याद्यः पक्षस्तॉसौ समुदायिषु वर्तमानः किं देशेन वर्तते सर्वात्मना वेति वक्तव्यं, यदि देशेनेति पक्षस्तहि तेष्वपि देशेष्वनेन वर्तितव्यं, ततस्तत्रापि वर्तमानः किं देशेन वर्त्तते सामस्त्येन वेत्यादि पुनस्तदेवावर्तत इत्यनवस्था, अथ सर्वात्मनेति पक्षस्त]कस्मिन्नेव समुदायिनि सामस्त्येन वृत्तत्वाद्वितीयादिसमुदायिनः समुदायशून्यत्वमासादयेयुः, अथ मा भूदेष दोष इत्यभिन्नोऽसौ अभ्युपगम्यते तर्हि समुदायिन एव ते न पुनस्तदतिरिक्तः समुदायो वास्तवः कश्चनापि विद्यत इति तत्त्वान्यत्वाभ्यांभेदाभेदाभ्यामनिर्वचनीयः-अवाच्य इत्यर्थः, 'तदभावे खल्वेकपरमाणुव्यतिरेकेण'त्यादि (३३६६), 'तदभावे' इति तुल्यत्वाभावे, कथं शेषपरमाणूनामभाव इति चेद् उच्यते, ते हि विवक्षितपरमाणुना सार्द्ध परमाणुत्वेन तुल्या न वेति वाच्यं, यदि तुल्यास्तहि तुल्यरूपसिद्धिः, अथ न तुल्या इति पक्षस्तहि यथा परमाणुत्वेनातुल्यस्य व्योमादेः परमाणुत्वाभावस्तथा विवक्षितैकपरमाणुव्यतिरेकेण शेषपरमाणुष्वपि तत्त्वाभावः स्यात्, तत्रैतत् स्यात्-तदन्यव्यावृत्तिमात्र तुल्यत्वं, तच्च परिकल्पितमेवेत्याह-'न च तदन्ये'त्यादि (३३७-१), एतदपि कुत इत्याह–'स्वरूपे'त्यादि (३३७१), परमाणूनां हि किञ्चित्स्वकीयं रूपमभ्युपगन्तव्यं, अन्यथा तदन्यव्यावृत्तिमात्ररूपतायां खपुष्पत्वप्रसङ्गः, स्यादेतद्-भवतु नाम परमाणूनां स्वरूपं, तथापि न भवत्समीहिततुल्यत्वसिद्धिः, तस्यैव सजातीयेतव्यावृत्तस्य तदन्यव्यावृत्तिरूपत्वादित्याह-'न च तद्रूपमेवे'ति (३३७-३), किमितीत्याह-'तस्ये'त्यादि (३३७-३), तस्य अणोस्तेभ्यः-सजातीयेतरपरमाणुगगनादिभ्यः, एतदुक्तं भवति-येन स्वभावेनासौ व्योमादिभ्यो व्यावृत्तो न तेनैव शेषाणुभ्य इति स्वभावद्वयमस्याभ्युपगन्तव्यं, कस्मादित्याह-'स्वभावे'त्यादि (३३७-४), अयमभिप्रायो-यदि हि विवक्षितस्याणोः स्वभावद्वयं स्यात्तर्हि तदाश्रित्यायमस्य सजातीयः परमाणुर्विजातीयश्च गगनादिरित व्यवस्थाप्येत, नान्यथा, निबन्धनाभावात्, यदि नाम स्वभावद्वयं तस्याभ्युपगतं तथापि तस्य सजातीयव्यावृत्तिनिबन्धनस्वभावेन सर्वथैव सजातीयेभ्यो व्यावृत्तत्वान्न भवदभिप्रेततुल्यत्वसिद्धिरित्याह-'सजातीयैकान्ते'त्यादि (३३७४), इदमत्र हृदयं-यथा तस्य विजातीयेभ्यः-अनणुस्वभावेभ्यः व्योमव्यणुकादिभ्योऽनणुत्वेन व्यावृत्तौ
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy