________________
પરિશિષ્ટ-૧ ૨ ૩૮૭ अनन्तधर्माध्यासितत्वाद्वस्तुनः, असिः छिनत्यसिना छिनत्तीति दर्शनादिति । 'एएहि पएहिं तस्स उवगतं'ति (२६९-३), तस्य ब्राह्मणस्यैतैः पूर्वोक्तपदैरुपगतं-परिणतमिदं, यदुत-सर्व्वभाववेत्ताऽसौ ततो युक्तं देवैः पूजनमस्येति । 'वेयावत्तं' (२७३-१) चैत्यमिति, कोऽर्थ इत्याह-'अव्यक्त'मिति जीर्णं पतितप्रायमनिर्धारितदेवताविशेषाश्रयभूतमित्यर्थः । उपसर्गविवरणं समाप्तमिति। 'दश द्वे च सङ्ख्यया द्वादशे'ति (२७५-५), अत्र वारा इति शेषो द्रष्टव्य इति । 'क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेणे'ति (२७५-१७), क्षीरादिश्चासौ द्रवाहारश्च तस्य भोजनकालः तत्र लभ्यंप्राप्तं गृहीतं यत्पानकं तद्व्यतिरेकेण नान्यदा पानकभोगं कृतवानित्यर्थः, यदा लेपकृदाहारसंसृष्टं करादिकमभूत्तदा पानकं जग्राह नान्यदेतिभावः, अन्ये त्वाहु:-क्षीरादिद्रवाहारश्चासौ भोजनकाललभ्यश्च तव्यतिरेकेणेति, इदमुक्तं भवति-छद्मस्थकाले यदि परं द्रवाहार एव क्षीरादिक: पानकस्थाने अभून्नान्यत्पानकं गृहीतवान्, तत्त्वं बहुश्रुता विदन्तीति । 'वक्ष्यमाणवैनयिकधर्ममूल'मिति (२९४१), वक्ष्यमाणो-योऽस्यामेव पर्षदि मया वक्ष्यते वैनयिको-विनयमूलो धर्मस्तस्य मूलं-कारणं, मयि हि विनयं कुर्व्वति मदुक्तं विनयमूलं धर्म लोकोऽपि प्रतिपत्स्यत इति भावः । 'अन्ये त्वेकगाथयैवानये'त्यादि (२९४-११), प्रकृतं "केवइयत्ति" द्वारं, तस्य च किल ते कियतो भूभागादपूर्वे समवसरणे अदृष्टपूर्वे वा साधुना आगन्तव्यमित्यमुम) व्याचक्षते, न पुनः कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्यादिकमिति, ततश्च 'सव्वं च देसविरई'इत्यादिगाथानां समवसरणद्वारेऽन्तर्भावं कृत्वा प्रकृत केवइय'त्तिद्वितीयद्वाराभिधायकत्वेन प्रस्तुतगाथामेव व्याचक्षते, व्युत्पन्ना चेयं व्याख्या, 'केवइय'त्ति शब्दस्य प्रस्तुतार्थध्वनकत्वादित्यादिकारणादिति । 'अपिशब्दादुपशमेऽपी'ति (२९७-७), उपशमः प्रकृतीनां यद्यपि तस्य न सम्भवति तथापि कर्मणां तीव्रोदयनिरोधमात्रमुपशमत्वेन विवक्ष्यत इति । 'अकालहरण'मिति (२९९-१०), श्रोतुः पृच्छाकालस्यानतिपातो, बहूनां कथने हि तत्कालातिपात एव स्यादिति । 'साधारणासपनाया'मिति (३०१-२) ग्राहकगिरो विशेषणं । इति समवसरणवक्तव्यता ।
इदानीं गणधरवक्तव्यता-'अन्नोऽवि जाणइ मए ठियम्मी' (अह एइ अहम्माणी अमरिसिओ इन्दभूइत्ति (वृ०) अत्र तु ज्ञायते अन्नोऽवि जाणइ मए ठियंमि सो इन्दभूइत्ती) त्यादिगाथादलं; मय्यप्यत्र स्थितेऽन्योऽपि कश्चित्किञ्चिज्जानातीति कुतस्त्यमेतत् ?, न सम्भवतीत्यर्थः । 'सत्सम्प्रयोगे'इत्यादि (३१६-७), सता-विद्यमानेन घटादिना सम्प्रयोगेसम्बन्धे केषाम् ? इन्द्रियाणां पुरुषस्यजीवस्य यद्बुद्धिजन्म भवति तत्प्रत्यक्षमिति । 'न च वाच्यं घटसत्तायामपि नवते'त्यादि (३१९-३) अयमत्रं भावार्थः-चार्वाक: किलाह-ननु घटे विद्यमानेऽपि नवता निवर्त्तते पुराणावस्थायाम्, अथ च तथापि नवता घटस्य धर्मो भवति, एवं यद्यपि शरीर सद्भावे चैतन्यं निवर्त्तते तथापि घटनवतावद्भूतधर्मातैव चैतन्यस्येति, तदेतन्न वक्तव्यं, कुत इत्याह-'घटस्य द्रव्यपर्याये'त्यादि (३१९-४), सुगमं 'प्रदीपे'त्यादि (३२१-४) प्रदीपेन बहिर्भागरूपप्रदेशेनोद्योतितो न सर्वात्मना