________________
३८४
મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨)
निरपत्यायाः संज्ञेति । 'उल्लपडसाडउ' त्ति (२३०-८), लौकिकी रूढिरियं काचिद् यदुत व्यन्तराद्याराधनं सार्द्रवस्त्रैर्विधेयं इत्थमेव तत्परितुष्टिसिद्धेरिति सार्द्रवस्त्रोऽसाविति । 'जहा बंभचेरेसु' इत्यादि (२३३४), आचाराङ्गप्रथमश्रुतस्कन्धस्य नवाप्यध्ययनानि सामान्यतो ब्रह्मचर्याध्ययनानीत्युच्यन्ते तेषु मध्ये उपधानश्रुताख्येऽध्ययने यथा महावीरस्योपसर्गा वर्ण्यन्ते तथाऽत्र द्रष्टव्या इति भाव:, सूत्रोक्तमेव श्लोकावयवमाह–'छुच्छुक्करंती' त्यादि (२३३ - ४ ), तेऽनार्या आत्मीयान् शुनः छूत्कृत्वा भगवन्तमुद्दिश्य मुञ्चन्ति इदं चाहु: - कुक्कुराः श्वानः श्रमणमेनं दशन्त्वित्यादि । 'सो अलेहडो आसित्ति (२३३५), स वर्षाकालश्चतुर्विधाहाररहित आसीदिति भावः, अपरं च मासद्वयं तत्रैव निरशनो विहृत इति षाण्मासिकं च क्षपणमिहाभूदिति । 'पुप्फा य पच्चायाय'त्ति (२३४ - ६), ते च सप्तापि तिलपुष्पजीवा मृत्वा तस्यैव तिलस्य शिङ्गायां सप्त बीजान्युत्पन्ना इति भावः । 'नामनिग्गय'त्ति (२३५-७), प्रसिद्धेत्यर्थः । 'सीयलिया तेयलेसा निसरति, सा जंबुद्दीवं बाहिरओ वेढेति'' (२३७-८), भगवान् शीतलेश्यां निसृजति सा च शीतलेश्या वैश्यायनसत्कतेजोलेश्यां परतः प्रक्षिप्यात्मना सर्व्वं जम्बूद्वीपं बहिस्ताद्वेष्टयति, एतदुक्तं भवति - भगवतः सम्बन्धिनी शीतंलेश्याऽन्तःस्थिता जम्बूद्वीपं वेष्टयति, तेजोलेश्या तु तत्परिक्षिप्ता बहिः स्थिता तं वेष्टयतीति, एतदेवाह - 'भगवतो सीयलीया तेजोलेसा अब्भितरओ वेढेइ, इयरावि तं परियंचइ 'त्ति, पाठान्तराण्यप्येतदनुसारतो ज्ञेयानीति । ‘पारणए सणहाए कुम्मासे' त्यादि ( २३८-५), अङ्गुलीचतुष्टयनखाकान्तहस्ते यका मुष्टिध् सा सनखा कुलमाषपिण्डिके त्युच्यते 'एगेणं वियडासंएणं' इत्यादि (२३८-५), एकेनोष्णोदकचुलुकेनेत्यर्थः । 'संखित्तविउलतेअलेस्से' त्ति (२३८-६), कार्यमन्तरेणामोचनात्संक्षिप्ताअन्तर्व्यवस्थापिता सत्तायां कृता विपुला तेजोलेश्या येन स तथा । 'कूवतडे दासीए' इत्यादि (२३९४), कूपतटे गतः कयाचिद्दास्याऽनिष्टं किञ्चिदुक्तस्तस्यै कुपितः तेजोलेश्यां मुक्त्वा तां दग्धवान् अतो निश्चितं मम तेजोलेश्या समुत्पन्नेति, पार्श्वनाथशिष्याश्च तस्य षट् दिक्चरा मिलिताः, तैश्चाष्टाङ्गनिमित्तं गोशालस्योद्दिष्टमतस्तेन निमित्तालोकमात्रेणाजिनोऽपि केवल्यपि केवली अहमित्येवं प्रलपन्विचरतीति भावार्थ: । 'दूएक्काइ' त्ति ( २४० - ३), बेक्किक्कायां शरीरचिन्तायामितियावत्, ‘नावाकडएणं’ति (२४०-३), नावारूढ इत्यर्थः । 'पढमियाए चउरो' त्ति (२४२-१), भद्राख्यायां प्रथमप्रतिमायां चत्वारश्चतुष्ककाः यामानां भवन्तीत्यर्थः, एतदेव भावयति - "पुव्वाए दिसाए चत्तारि जामा" इत्यादि पूर्वस्यां दिशि चत्वारो यामा इत्येवं चतसृष्वपि दिक्षु चत्वारश्चतुष्कका यामानां भवन्तीति । 'बीयाए अट्ठत्ति (२४२ - २), महाभद्राख्यायां द्वितीयप्रतिमायां अष्टचतुष्कका यामानां भवन्तीति, एतदेव स्पष्टयति- 'पुव्वाए बिचतुरो' त्ति (२४२ - २) पूर्व्वस्यां दिशि द्वौ चतुष्ककौ यामानां भवतः, एतावन्तं कालं पूर्व्वाभिमुखः कायोत्सर्गेण तिष्ठतीत्यर्थः, एवं शेषविपि वाच्यमिति, उपसंहारमाह–'एते अट्ठ'त्ति (२४२-३), एते पूर्व्वप्रतिज्ञाता श्चतसृष्वपि क्षु चतुष्कका यामानां भवन्तीति, चतुर्दिनमानत्वादस्या इति भावः । 'तइयाए वीसं 'ति (२४२-३),