________________
૩૮૫
પરિશિષ્ટ-૧ सर्व्वतोभद्राख्यायां तृतीयप्रतिमायां विंशतिश्चतुष्कका यामानां भवन्तीति एतदेव दर्शयति - 'पुव्वाए दिसाए बेचउक्का' इत्यादि (२४२-३), पूर्व्वस्यां दिशि द्वौ चतुष्कौ यामानां भवतः, एवं दशसु दिक्षु विंशतिश्चतुष्कका यामानां भवन्ति, एतदेवाह - 'वीसं ति' एवमेव उक्तक्रमेण विंशतिश्चतुष्कका यामानां भवन्ति, दशदिनमानत्वादस्या इति भावः । अत्र च विमलाख्यामूर्ध्वदिशमधिकृत्य यदा कायोत्सर्गं कुरुते तदा ऊर्ध्वलोकव्यवस्थितान्येव कानिचिद्विमानादीनि द्रव्याणि ध्यायति अधोदिशि तु तमाख्यायां व्यत्ययो वाच्य इति । 'जहासंभवं सेसाणिवी 'त्यादि (२४३-२), अन्यान्यपि ‘अहीणपणिहिंअंगेहिं सव्विदिएहिं गुत्तेहिं' इत्यादीनि शास्त्रान्तरोक्तान्येकरात्रिकीप्रतिमासंभवीनि विशेषणानि वाच्यानीति । 'ईसिं पब्भारगओ' (२४३-३), एतद्व्याचष्टे - 'इसिं ओणयकाओ 'ति । 'ततो सूयंति' (२४७-३), ततः - त्रिशलादेवी - रूपादनन्तरं सूपकारं - रसवतीकारं विकुर्व्वतीत्यर्थः । 'किह सो'त्ति, कथमसौ विकुर्व्वत इति प्रश्ने उत्तरमाह - ' ततो खंधावार' मित्यादि (२४७-४), ततस्त्रिशलादेवीरूपादनन्तरमेव स्कन्धावारं विकुर्वति स च स्कन्धावारो भगवतः समीपे आवासं गृह्णाति, तत्र च सूपकारः किल चुल्लीविरचनाय पाषाणानलभमानो भगवतश्चरणद्वयान्तरे वह्नि प्रज्ज्वाल्य 'उक्खं 'ति उखां स्थालीमुपरि पादयोर्व्यवस्थाप्य पचति भक्तमिति । 'पक्कणं 'ति (२४७-६), चण्डालं विकुर्वति, स च तीक्ष्णतुण्डशकुनिभृतपञ्जराणि भगवतः कर्णबाहुमूलादिप्रदेशेष्ववलम्बते, ते च पक्षिणः पञ्जरच्छिद्रैर्मुखानि निःसार्य भगवच्छरीरं भक्षयन्तीति भावार्थ: । 'सांगारियं कसाइयंति (२५०-७), त्वचमपकृष्य विकृतं लिङ्गं करोतीत्यर्थः । 'अन्ने भांति - पंचालदेवं जहा ' इत्यादि (२५१-१), अन्ये त्वभिदघतिलोकप्रसिद्धपञ्चालाभिधानदेवताविशेषसदृशं रूपं सङ्गमकः करोति, तच्च कीदृशमिति न ज्ञायते, विशिष्टसम्प्रदायाभावादिति । 'संधिमग्गं सोहेइ, पडिलेइ य'त्ति (२५२-८)) दिवा लोकस्य पश्यतः खात्रखननमार्गं शोधयति - कण्टकादि ततोऽपनयति, निर्गमप्रवेशस्थानानि च प्रत्युपेक्षते, खात्रखननोपकरणानि च भगवत्समीपे मुञ्चतीति । एगे भणंति-जहा तद्दिवसं खीर' मित्यादि (२५५-५), एके प्रतिपादयन्ति - न दोसीणेण - पर्युषितेन क्षीरान्नेन तया भगवान् प्रतिलाभितः, किन्तु तस्याः स्वकीयगृहक्षीरं नास्ति याचितमेव भवति, न चोत्सवदिने याचितमपि तत्तया लब्धं, लोकस्य स्वत एव तस्मिन्दिने तत्प्रयोजनत्वाद्, अतो द्वितीयदिने 'ऊहारिऊणं'ति (२५५- ६ ) लोकात्पयो याचित्वा परमान्नमात्मार्थमुपस्कृतं तेन प्रतिलाभित इति भावः । 'असंभस्सो' (२५५-९), असंभाष्योऽनालपनीय इत्यर्थः । 'सेसा देवा इंदेण वारिय'त्ति (२५६-३), सङ्गमकेन सह तदीया देव्यो मुत्कलिताः, शेषास्तु तत्परिवारभूता देवा निषिद्धाःनानेन सह मेरौ गन्तव्यमिति निवारिता इति भावः । स च सामानिकत्वाद्विसागरोपमायुः, तत्र चसमये एकं सागरोपममतिक्रान्तमेकं तु शेषमासीदित्याह - 'तस्सं य' इत्यादि (२५६-४) । 'एलुगं विक्खंभित्ता' इत्यादि (२६० - १), एलुगं नाम गृहदेहली तां विष्कम्भ्य- एकं पादं तस्या अर्वाग्भागे एकं च परभागे कृत्वा यदि दास्यति तदा ग्रहीष्यामीतिभाव इति । 'जग्गहो घोसितो' त्ति (२६२