________________
પરિશિષ્ટ-૧ શિક ૩૮૩ आसाइय'मित्यादि-(२०७-२), तेषां मध्ये येन गोपेन यत्कर्परं प्राप्तं स तत्रैव जेमित इति । 'तवेण सुत्तेणे'त्यादि (२११-१) श्लोकव्याख्या-जिनकल्पं प्रतिपित्सुश्चतुर्थादिषण्मासान्ततपोऽभ्यासेनात्मानं भावयति, यद्येतावत्तपः कुर्वाणः प्रथममेव न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति भावः, सूत्रं च नवपूर्वादिलक्षणं जिनकल्पोचितं तथाऽभ्यस्यति यथा पश्चानुपूर्व्यादिक्रमेणापि परावर्तयितुं शक्नोति, सत्त्वं-परीषहाद्यक्षोभ्यत्वं चैतसिकोऽवष्टम्भः, तच्च ‘पढमा उवस्सयंमी'त्याद्यनन्तरवक्ष्यमाणगाथोक्तस्थानेषु कायोत्सर्गप्रदानतः प्रथममेव परीक्षणीयमिति सत्त्वभावना, एकत्वभावना त्वेकाक्येव पर्यटन् यदि विश्रोतसिकादिभिर्न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति, बलभावना तु एकाङ्गष्ठाद्यवष्टम्भेन चिरस्थायित्वादिरूपः शरीरावष्टम्भस्तत्परीक्षणरूपा, एषा पञ्चधा तुलना जिनकल्पं प्रतिपित्सोः प्रथममेव भवतीति श्लोकार्थः। 'अज्ज अम्ह अंतरं ति (२११-७). अद्यास्माकमुपवासो वर्तत इत्यर्थः । 'चारियत्ति काऊण ओड उड्डे)वालगे'त्यादि (२१३-९), चारिका हेरिका एत इतिकत्वाऽध:शिरसोऽवटे-कपे प्रक्षिप्यन्त इति तात्पर्यार्थः. तत्र गोशालक: प्रथममेव क्षिप्तो, भगवाँस्तु नाद्यापीत्यत्रान्तरे मोचिता इति । ‘से सोणिय रुंचिऊणं (सुसोधितं रंधिऊण वृ०)'ति (२१६-६), यस्तव गर्भो मृतः समुत्पद्यते स शोणित एव 'रुचिऊणं'ति श्लक्ष्णं चूर्णयित्वा पायसमध्ये प्रक्षिप्य सुतपस्विने देय इति भावार्थः, क्वचित्तु 'सुशोधितंति पाठस्तत्र सुसंस्कृतमिति व्याचक्षते, 'आहाडीयो' (२१७-२), गतागतानि करोति, द्वारं गृहस्य परावर्तितमिति नोपलक्ष्यते । 'खुंखुणका' (२१८-४) नाम घुघुरुकास्ते धावतां पततां भज्यन्ते। 'निउडुक्कडियाए'त्ति (२१९-९), अवनत उन्नतश्च भूत्वा निरीक्षते प्रस्तावोऽत्र याञ्चाया न वेति । 'अत्थारियादिद्रुतं हियए करेइ'त्ति (२२१-२), अत्थारिका नाम ह्लासिकास्तेषां दृष्टान्तः, स चायं-इह यथा कस्मिन् ग्रामे कश्चित्कृषीवलो व्रीह्याद्यन्यतरधान्यं लवनकालोचितं प्रभूतं दृष्ट्वा चिन्तयति-यद्येतदहमात्मनैव लविष्यामि तदा प्रभूतेनापि कालेन निष्ठां न यास्यति, ततः सर्व्वमपि ग्रामवासिनं लोकमभ्यर्थ्य प्रभूतदिनलव्यमपि धान्यं बहुभि सिकैः समन्वितोऽल्पेनैव कालेन लुनाति, तथा भगवानपि चिन्तयति-तत्र गतेन मया प्रभूतकालवेद्यमप्यशुभं कर्म तन्निवास्यनार्यजनसाहाय्यात्स्वल्पेनापि कालेन वेदनीयमित्येवंरूपमत्थारिया दृष्टान्तं चेतसि निधाय प्रविष्टोऽनार्येष्विति । 'बहिफोडो'त्ति (२२२-५) बहुभक्षकः, ततो महद्भाजनं कूरस्य भृत्वा तैर्दत्तं 'न नित्थरति'त्ति (२२२-६) न शक्नोति भोक्तुमतिबहुत्वात्, तत उद्धरितभक्तं कृषीवलैः कोपात्तस्यैव मस्तके क्षिप्तं, ततश्च केलीकिलत्वात् 'उक्किलंतो'त्ति (२२२-६) वल्गन् गच्छति । 'छिन्नट्ठाण'मिति (२२४-६), यत्रातिभीषणत्वात्पथिकादयो न संचरन्ति तच्छिन्नस्थानमिति । 'छम्मासपडिलग्गतो'त्ति (२२५-६), षण्मासं यावद्रोगी भूत्वा आरोग्य: सन्नुपकरणानि गृहीत्वा तत्रागत इति । 'मुहे तस्स सागारियं दाउंति (२२८-६), सागारिकं नाम मेहनं लिङ्गमितियावत्। 'जाणुकोप्परमाय'त्ति (२३०-२), जानुनी च कूपरे च जानूकूपरं तस्यैव यदि परं माता, अपरस्यापत्यस्याभावादिति, सामयिकी चेयं