________________
૩૮૨ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) तस्मादपि च षोडशकगणमध्यात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात्पञ्च भूतान्युत्पद्यन्ते, तद्यथारूपतन्मात्रात्तेजो रसतन्मात्रादापो गन्धतन्मात्रात्पृथ्वी स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रान्नभः, इत्येवं चतुर्विंशतिस्तत्त्वानि, पञ्चविंशतितमो जीव इति पञ्चविंशतिसंख्यानि तत्त्वानीत्यार्यार्थः ॥ 'राया गमेति'त्ति (१३५-४) राजा देवीमनुनयतीत्यर्थः, "किं मे रज्जेणे'त्यादि, किं मम राज्येन किं वा त्वया इत्यर्थः । द्वितीयवरवरिका समाप्ता ॥ ___साम्प्रतमुपसर्गेषु विषमपदानि विव्रियन्ते–'पाणीसु भोत्तव्वं'ति (१७८-४), आह-ननु तीर्थकृतां सर्वदैव पाणिभोजित्वात्किमनेनाभिग्रहेण साध्यते ?, सत्यं, किंतु यथा सवस्त्रधर्मख्यापनार्थं शक्रन्यस्तं वस्त्रं प्रतीच्छति तथैव सपात्रधर्मख्यापनार्थं प्रथमपारणकं पात्र एव करोति तत ऊर्ध्वं पाणिभोजीति केचित् मन्यन्त इत्यावश्यकचूणिः । 'कुंटलविंटलेहिं' (१८७-३), . . मन्त्रवादिनिमित्तादिभिर्जीवतीत्यर्थः, 'बहुसंमोइय'त्ति (१८७-३), बहुभिजनैमिलितैः संमोदतेसंहृष्यतीति बहुसंमोदितः, व्यन्तरत्वात्क्रीडाप्रियत्वात् नैकाकिनस्तस्य रतिरितिभावः । इत्यासन्नं कञ्चन पुरुषं गच्छन्तं शब्दयित्वा भणतीत्यादि सुगमं । 'महिसिंदुरुक्खस्स'त्ति (१९०-९), खजूंरीवृक्षस्येत्यर्थः, । 'केई वरं सिस्साण वत्थपत्त'मित्यादि (१९३-२), यदि किल शोभने स्निग्धप्रदेशे पतितं भवति तदा शिष्याणां वस्त्रादिलाभं सूचयति, विपर्यये तु विपर्यय इति । 'सो कुहाडो से उड्डोटिओ'त्ति (१९५-६ अभिमुहो वृ०), पततस्तस्य कुठार 'उड्डोठ्ठिउ'त्ति उर्ध्वमुखीभूतः शिरस्याश्लिष्ट इति भावः । 'कूइगादि'त्ति (१९९-८), कूचिका नाम दघ्न उपरि द्रवस्वरूपो माथुशब्दतया ख्यातो वस्तुविशेषः, स च किल जीरकादिभिः संस्कृतोऽतीव स्वादुर्भवतीति । 'वाउलाणि'त्ति (२००-२), बहुप्रयोजनतयः व्याकुलानीत्यर्थः, भण्डीरमणो यक्षः, भण्डी तु गन्त्रीति । 'महुसित्थचिखल्लं' इति (२०२-१४), चिक्खल्लो हि समयपरिभाषया त्रिधा भवति-मधुसित्थुक: पिण्डकः चिक्खल्ल एव च, तत्र मण्डनार्थं चरणेषु यावति स्थाने योषितोऽलक्तकं ददति तावन्तं देशं यत्र चरणावनुलिप्यते स मधुसिक्थुकः, अर्द्धशुष्कः पिण्डिकाबन्धयोग्यः पिण्डकः, यत्र त्वतिबहुचरणा निमज्जन्ति स चिक्खल्ल एवाभिधीयते, तदुक्तम्-'तिविहो उ होइ उल्लो, महुसित्थो पिंडओ य चिक्खल्लो । लत्त पहलित्तिउंडुय खुप्पिज्जइ जत्थ चिक्खल्लो ॥१॥' इह तु मधुसित्थुकेनाधिकारः, तत्र निमग्नपदगतलक्षणान्युपलभ्य पुष्पः चिन्तयतीत्यादि सुगमं । 'एएहि लक्खणेहिं जुत्तं ण एएण समणेण होउत्ति (२०३-३), इत्थमिह सम्बन्धः-एतैर्लक्षणैर्विद्यमानैर्नानेन श्रमणेन भवितुं युक्तम्, अथ चासौ श्रमणो द्दश्यते राज्योचितोऽपीतिभावः । 'मंखो'त्ति (२०४-१), केदारपट्टिक: 'भंडीसुणएणे'त्यादि (२०५-१०), यथा कन्दुकश्वाऽभिलषन्नपि मण्डकादिकं न किञ्चिल्लभते, तथा तेनापि न किञ्चिल्लब्धमितिभावः । 'धीयाराणं दातु'मित्यादि, (२०६-५), निजकोपकरणं धिग्जातीयेभ्यो-ब्राह्मणेभ्यो दत्त्वा, 'सउत्तरोढुं मुण्ड'न्ति (२०६-५) मुण्डं मुण्डनमुच्यते, . ततश्च समुखं शिरश्च मुण्डयित्वा गतः स्वाम्यन्वेषणायेति भावार्थः । 'जेण जं कभल्लं (करुल्लं वृ०)