________________
૩૭૮ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) कृतमिति, अत एवेदानीमपि स्कन्धोपरि वल्लरिकाः क्रियन्त इति भावः। 'सेज्जंसो से सयंपभादेवी पुव्वभवनिन्नामिय–'त्ति (६७-८), स श्रेयांसजीवो ललिताङ्गदेवस्य स्वयंप्रभादेवी आसीत्, साऽपि पूर्वभवे किमासीदित्याह-'निर्नामिकेति, अथ केयं निर्नामिकेति ?, तदुत्पत्तिः संक्षेपादुच्यतेधातकीखण्डद्वीपे पूर्वविदेहे मङ्गलावतीविजये नन्दिग्रामे अतीव दारिद्र्यविद्रुतनाइलाभिधानगृहपतेर्नागश्रीनाम्न्यास्तद्भार्यायाः षण्णां दुहितृणामुपरि सप्तमी पुत्रिका समभूद् दुहित्रुद्विजितैश्च मातापितृभिर्न तस्या नाम चक्रे, ततो लोके निर्नामिकेति ख्यातिं गता, अन्यदा च कस्मिंश्चिदुत्सवे समृद्धजनडिम्भरूपाणि नानाविधखाद्यपेयादिवस्तुव्यग्रहस्तान्युद्यानादिषु गच्छन्ति दृष्ट्वा निर्नामिकाऽपि मोदकादिवस्तूनि मातरं याचितवती, मात्राऽप्यतीवानिष्टत्वादुक्ताऽसौ, गच्छाम्बरतिलकं पळतं ततः पातं कृत्वा म्रियस्व वा फलानि वा भक्षय, इतस्तावदपसर, ततोऽसावतीव दु:खिता रुदती गृहान्निर्गत्याम्बरतिलकं पर्वतं ययौ, तत्र च पूर्वसमवसृतयुगन्धराचार्यसमीपे धर्ममाकर्ण्य प्रतिपद्य श्रावकधर्मं गत्वा नन्दिग्रामं कृत्वा विविधं तपःकर्म दौर्भाग्यादिदोषात् केनचिदपरिणीतैव परिणतवयाः स्वीकृत्यानशनं अग्रेतनच्युतदेवीकेन ललिताङ्गदेवेन प्रार्थिता विधाय निदानं संप्राप्येशानकल्पं तस्यैव भाऱ्या स्वयंप्रभा नाम देवी समभूदिति पूर्वभवनिर्नामिकेयमिति । 'धम्मचक्कं चिंधं कारित'मित्यादि (७१-५), अत्र भगवदवस्थानस्य चिह्नमिदं भवत्वितिकृत्वा सर्व्वरत्नमयपञ्च-योजनोच्छ्रितदण्डस्योपरि रत्नमयं योजनायामविष्कम्भं वृत्ताकारं धर्मचक्राख्यं चक्रं कारितवान्, चूर्णौ तु चक्रस्यैतदेव मानं दण्डश्च योजनोच्छ्राय एवोक्त इति । 'उज्जाणत्थाणं पुरिमताल'मिति (७१-७), अत्यासन्नत्वाद्विनीताया उद्यानस्थानीयं पुरिमतालं नगरं संप्राप्त इति । 'सिंधुदेवी ओयवेइ'त्ति (७८-४), सिन्धुनद्या अधिष्ठात्री देवतां 'ओयवेइ'त्ति पूर्वोक्तक्रमेण साधयतीत्यर्थः, केवलमिह नद्या मध्ये न प्रविशति नापि शरं मुञ्चति, किन्तु अष्टमभक्तान्ते स्वत एव चलितासना असौ रत्नमयभद्रासनद्वयादि प्राभृतं गृहीत्वोपतिष्ठति, ततः सिन्धुदेवीवदेव वैताढ्याधिष्ठातारं देवं, ततोऽपि तिमिश्रागुहावासिनं देवं साधयति, ततश्चक्रवर्ती तत्रैव तिष्ठति यावत्सुषेणाभिधः सेनापतिश्चर्मरत्नेन सिन्धुनदीमवतीर्य तत्परकूलवर्ति खण्डं साधयित्वा समागच्छति, ततश्चक्रवर्त्यादेशात् सेनापतिविशिष्टपूजापुरस्सरं दण्डरत्नेन तिमिश्रागुहाकपाटोद्घाटनं करोति, यस्तु द्वादश योजनानि तुरगारूढः सेनापतिः शीघ्रमपसरतीत्यादिप्रवादः सोऽनागमिक इव लक्ष्यते, क्वचिदप्यनु-पलभ्यमानत्वादिति, ततश्चक्रवर्ती करिस्कन्धारूढस्तस्यैव करिणो दक्षिणकुम्भविन्यस्तमणिरत्नेनोद्योतं कुर्वस्तिमिश्रगुहां प्रविशति, तत्रात्मनः तावन्मणिरत्नोद्योतेनैव मार्गादिप्रकटनं भवति, शेषजननिमित्तं तु काकिणीरत्नेन उक्तप्रमाणानि वृत्तहिरण्यरेखारूपाणि मण्डलानि करोति, तत्र तिमिश्रगुहा आयामेन पञ्चाशद्योजनानि, वैताढ्यस्य मूले तावद्विस्तरत्वात्, विष्कम्भेन तु द्वादश योजनानि, तत्र प्रविशंश्चक्रवर्ती गोमूत्रिकान्यायेन एकस्यां भित्तौ पञ्चविंशतिः परस्यां तु चतुर्विंशतिरित्येकोनपञ्चाशन्मण्डलानि करोति, एतानि च किलैकाङ्गेन द्वादश योजनानि प्रकाशयन्ति