________________
પરિશિષ્ટ-૧
399
पद्मप्रभतीर्थकृद्विषये त्रीण्यष्टोत्तरशतानि साधूनां निर्वृतानीत्यवगन्तव्यं, त्रिगुणाष्टोत्तरशतमित्यर्थः, त्रीणि शतानि चतुर्विंशत्यधिकानीतियावत्, ननूक्तं तीर्थकृतामन्तक्रियावसरे भक्तपरित्यागस्थानपरिवारस्वरूपम्, एतत्तु नोक्तं कस्तीर्थकरः कस्यां वेलायां सिद्धिवधूसङ्गमुपलेभे को वा किमवस्थः सिद्ध इत्यादि, तदेतदाशङ्क्याह—अन्तक्रियासम्बन्धकालादिस्वरूपं यन्मयेह नोक्तं तत्प्रथमानुयोगाद्द्द्वादशाङ्गान्तर्गताच्छास्त्रविशेषाद्विज्ञेयमिति गाथाचतुष्टयगूढपदार्थः ॥ साम्प्रतं सर्व्वतीर्थकरवक्तव्यताया बहुत्वमालोक्य तद्भणने च प्रकृतग्रन्थगौरवं निश्चित्य ग्रन्थान्तरेऽतिदेशं दित्सुरुपसंहरन्नाह - 'इच्चेवमाई सव्वं' गाहा (५८-५) व्याख्या -' इति : ' उपप्रदर्शने, एवंशब्दः प्रकारार्थे ततश्च 'संबोहणपरिच्चाए ' इत्यादिग्रन्थसंदर्भेण यन्मया तीर्थकृतां सम्बोधनपरित्यागादिकमुक्तमित्येवंप्रकारमादौ कृत्वाऽपरमपि पूर्व्वभववक्तव्यतादिकं सविस्तरं सर्व्वं जिनानां सम्बन्धि प्रथमानुयोगाद् - उक्तस्वरूपाद्विज्ञेयमिति । ननु यद्येवं सर्व्वमपि प्रथमानुयोगादेव ज्ञास्यते त्वया किञ्चिदपि किमित्युक्तमित्याशङ्क्याह— स्थांनाशून्यार्थं पुनर्भणितं किञ्चिदिति गम्यत इति न दोषः । इतः किमित्याह - 'पगयं अओ वुच्छं' ति (५८-६), प्रकृतं - प्रस्तुतं वस्तु अतोऽनन्तरं वक्ष्येऽभिधास्य इति गाथार्थः । ननु प्रकृतं वक्ष्ये इत्युक्तं, किञ्च तदिह पकृतमिति नाद्यापि सम्यग्विश्चिनुम इत्याह- 'उसभजिण' गाहा (५८-७), व्याख्याकथमसौ सम्यक्त्वमवाप कदा वा तीर्थकरनामकर्मबन्धः कुतो वाऽऽगत्य इहोत्पन्नः कदा वा दीक्षां जग्राह इत्यादिलक्षणं ऋषभजिनसंमुत्थानमत्र प्रकृतं तद्वक्ष्ये इति पूर्व्वगाथावयवेन संटङ्कः, ननु कथमत्र ऋषभजिनसमुत्थानं प्रकृतमित्याह - 'उद्वाणं जं तओ मरीइस्स 'त्ति (५८-७), यद्-यस्मात्कारणात् ऋषभजिनादुत्थानम् - उत्पत्तिर्मरीचेः, इदमुक्तं भवति - मरीचेरिहोत्पत्तिरानेतव्या न चासौं ऋषभदेवसमुत्थानेऽवर्णितेऽभिहितापि सम्यगवधार्यत इति ऋषभजिनसमुत्थानमिह प्रकृतं, ननु स्यादेवं यदि मरीचेरप्युत्पत्त्या किञ्चिदिह प्रयोजनं स्यात् तच्च नास्ति, असम्बद्धत्वात्तस्या इत्याह- 'सामाइयस्स एसो' इत्यादि (५८-८), 'यद्' यस्मात्कारणादेष सर्वोऽपि पूर्वं षड्विधनिर्गमस्वरूपप्रतिपादनादारभ्य सामायिकस्य कुंतः पुरुषद्रव्यादिदं निर्गतं सोऽपि च पुरुषः कथं मिथ्यात्वादिभ्यो निर्गत इत्येवंरूपो निर्गमोऽधिकृतः, तेन मरीच्युत्पत्तिः प्रयोजनवती, यदि नाम सामायिकस्य निर्गमोऽधिकृतस्तर्हि मरीच्युत्पत्तेः किमायातं ?, सत्यम्, एतदुक्तं भवति - सामायिकाध्ययनं ह्येतत्, ततस्तस्य द्रव्यनिर्गमे विचार्ये कुतो द्रव्यादिदं निर्गतमिति जिज्ञासिते महावीरद्रव्यादिति वक्तव्यं, महावीरोऽपि कथं मिथ्यात्वादिभ्यो निर्गत इति बुभुत्सिते महावीरोत्पत्तिर्वक्तव्या, न चासौ मरीच्युत्थानकथनमन्तरेणाविकला कथिता स्यादिति मरीच्युत्थानं वक्तव्यं तदपि न ऋषभसमुत्थानकथनमन्तरेण सम्यक्कथयितुं शक्यमिति ऋषभज़िनसमुत्थानस्य प्रकृतता, तच्च किञ्चिदुक्तं किञ्चित्तु 'चित्तबहुलट्ठमीए' (५८१०) इत्यादिनाऽनन्तरमेव वक्ष्यत इति गाथार्थः ॥ 'चतुर्मुष्टिकं च लोचं कृत्वे 'ति (५९-२), पञ्चमुष्टियोग्यान् किल केशान् भगवतः कनकावदाते शरीरेऽञ्जनरेखा इव राजमानानुपलभ्य शक्रेण प्रणिपत्य विज्ञप्तं - भगवन् ! मय्यनुग्रहं विधाय ध्रियन्तामित्थमेवामी, भगवताऽपि तदुपरोधात्तथैव