________________
મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨)
भावप्रधानत्वान्निर्द्देशस्य छद्मस्थत्वस्य छद्मस्थत्वे वा कालश्छद्मस्थकालः छद्मस्थानां वा कालः छद्मस्थकालस्तं, किमित्याह - 'एत्तो सोहेउं 'ति एतस्मात्स्थानद्वयोक्तदीक्षाकालाच्छोधयित्वा शेषकस्तूद्धरितो जिनकालो विज्ञेय इति गम्यते, यद्यपि चेह क्षीणोपशान्तमोहच्छद्मस्थोऽपि जिन उच्यते तथाऽप्यत्र जिनशब्देन केवली विवक्षितो, जिनत्वस्य जिनानां वा कालो जिनकाल:, केवलिकाल इत्यर्थः, इदमुक्तं भवति - 'वाससहस्सं बारसे' त्यादिना यश्छद्मस्थकाल उक्तः स दीक्षाकालाद् 'उसभस्स पुव्वलक्ख' मित्यादिना अभिहिताच्छोध्यते, ततः शेषः केवलिकालो भवति, तद्यथा-ऋषभदेवस्य वर्षसहस्रलक्षण: छद्मस्थकालो यदा पूर्व्वलक्षस्वरूपाद् दीक्षाकालादुद्धिते तदा वर्षसहस्रन्यूनं पूर्व्वलक्षं केवलिकालो भवति, एवमन्यत्रापि भावनीयमिति । तदेवं सर्व्वतीर्थकृतां समस्तानपि कुमारवासादिपर्यायान् भेदतोऽभिधाय साम्प्रतं सर्व्वेषां सामान्येन सर्व्वायुष्कप्रतिपिपादयिषया उपक्रमते—'सव्वाउय'मित्यादि, सर्वायुष्कमपि ऋषभादीनामत ऊर्ध्वं मम कथयतो निशामयत यूयमिति गाथार्थः । यथाप्रतिज्ञातमेवाह - 'चउरासीइ' गाहा (५६ - १२), व्याख्या - इह गाथापर्यन्ते पूर्व्वाणामित्युक्तं गाथाप्रथमार्द्धपर्यन्ते च लक्षाणीत्युक्तं, ततश्चेत्थं सम्बन्धो द्रष्टव्यः - पूर्वाणां लक्षाणि चतुरशीतिः प्रथमतीर्थकरस्य सर्व्वायुष्कमिति १ द्विसप्ततिः पूर्व्वलक्षाणि २ षष्टिः पूर्व्वलक्षाणि ३ पञ्चाशत्पूर्व्व लक्षाणि ४ चत्वारिंशत्पूर्वलक्षाणि ५ त्रिंशत्पूर्वलक्षाणि ६ विंशतिः पूर्वलक्षाणि ७ दश पूर्वलक्षाणि ८ द्वे पूर्वलक्षे ९ एकं पूर्वलक्षं १० । 'चउरासीइ' गाहा (५६ - १४), व्याख्या - इहापि गाथापर्यन्ते शतसहस्राणीत्युक्तं, प्रथमार्द्धपर्यन्ते तु वर्षाणामिति, ततश्चतुरशीतिर्वर्षाणां शतसहस्राणि लक्षाणीतियावत् एकादशस्य सर्व्वायुष्कमिति दृश्यं ११ द्विसप्ततिर्वर्षलक्षाणि १२ षष्टिर्वर्षलक्षाणि १३ त्रिंशद्वर्षलक्षाणि १४ दश वर्षलक्षाणि १५ एकं वर्षलक्षं १६ 'पंचाणउड' गाहा (५७ - १), पञ्चनवतिः सहस्राणि वर्षाणामितीहापि सम्बध्यते १७ चतुरशीतिर्वर्षसहस्राणीति गम्यते १८ पञ्चपञ्चाशद्वर्षसहस्राणि १९ त्रिंशद्वर्षसहस्त्राणि २० दश वर्षसहस्राणि २१ एकं वर्षसहस्रं २२ शतं वर्षाणां २३ द्विसप्ततिर्वर्षाणि २४ इति गाथात्रयार्थः । सर्व्वायुष्कं प्रतिपाद्य क्रमप्राप्तमन्तक्रियाद्वारमाह - 'निव्वाण' गाहा ( ५७६), व्याख्या -अन्तक्रिया किमुच्यते इत्याह-निर्व्वाणं मोक्षगमनमितियावत् सा चान्तक्रिया चतुर्द्दशभक्तेन षड्भिरुपवासैरित्यर्थः, प्रथमनाथस्य - ऋषभदेवस्याभूत्, शेषाणां त्वजितादीनां मासोपवासेन, किं सर्व्वेषामित्याह-वीरजिनेन्द्रस्य षष्ठेन, द्वाभ्यामुपवासाभ्यामिति गाथार्थः । केषु पुनः स्थानेषु तेषामन्तक्रियाऽभूदित्याह- ' अट्ठावय' गाहा (५७-८), अष्टापदादिषु स्थानेषु ऋषभादनः सिद्धि गता इति यथासङ्ख्यं सम्बन्धः, तद्यथा - अष्टापदपर्व्वते ऋषभः सिद्धिमुपाययौ, चम्पायां वासुपूज्यः, उज्जयन्ते नगे नेमिः, अपापानगर्यां महावीरः, शेषास्तु उक्तव्यतिरिक्ता विंशतिः सम्मेतशैलशिखरे सिद्धिं गता इति गाथार्थः । तत्र च कः कियत्परिवार: सिद्ध इत्याह- 'एक्को' गाहा 'पंचहिँ' गाहा 'सत्त' गाहा 'दसहिं' गाहा ( प० - ५७), एताश्चतस्रोऽपि पाठसिद्धा एव, नवरं 'असणं धम्मो 'त्ति अष्टोत्तरशतेन साधूनां परिवृत्तो धर्म्मः सिद्ध इत्यर्थः, 'पउमाभे तिन्नि अट्ठसंय'त्ति
૩૭૬