________________
પરિશિષ્ટ-૧
द्विचत्वारिंशद्वर्षाणि २४ । एष दीक्षाकालो जिनेन्द्राणामृषभादीनां यथाक्रमं विज्ञेय इति गाथापञ्चकार्थः॥ एवं दीक्षापर्यायं प्रतिपाद्य साम्प्रतं पर्यायसाम्यादेव कुमारवासादिपर्यायं दर्शयन्नाह - 'उसभस्स कुमारत्त 'मित्यादि (५३-६), गाथास्त्रयोविंशतिरेताः पाठसिद्धा एव, नवरमाद्यासु नवसु गाथासु ऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां कुमारत्वपर्यायो राज्यपर्यायश्चेत्येतदेव द्वयं द्वयं उक्तं न दीक्षापर्यायस्तस्यानन्तरमेवोक्तत्वात् पुनरपि च 'उसभस्स पुव्वलक्ख' मित्यादिना वक्षमाणत्वाच्चेति । वासुपूज्यमल्ल्यरिष्ठनेमिपार्श्ववर्द्धमान-लक्षणानां तु तीर्थकृतां कुमारत्वपर्यायो व्रतपर्यायश्चेत्येतदेव द्वयं चतसृभिः गाथाभिरुक्तं, न राज्यपर्यायः, अनङ्गीकृतराज्यत्वेन प्रतिपादितत्त्वात्तेषां तदसंभवादिति, शान्तिकुन्थ्वरलक्षणस्य तु तीर्थकरत्रयस्य तिसृभिर्गाथाभिः कुमारमाण्डलिकचक्रवर्त्तिदीक्षापर्यायलक्षणं चतुष्टयं २ उक्तं, चक्रवर्त्तित्वात्तेषां तत्र माण्डलिकोऽनवाप्तचक्ररत्नादिचक्रवर्त्तिलक्ष्मीकः सामान्यो राजा उच्यते, शेषाणां तु सप्तानां तीर्थकृतां सप्तभिर्गाथाभिः कुमारराज्यदीक्षापर्यायलक्षणं त्रयं २ प्रतिपादितं, अङ्गीकृत-राज्यत्वात्तेषामचक्रवर्त्तित्वाच्चेति । अपरं चेह - ' अड्डाइज्जा लक्खा कुमारवासो ससिप्पहे होई | अद्धं छच्चिय रज्जे 'त्ति क्वचिदेवं पाठः, क्वचित्तु 'अद्भुट्ठावि अ लक्खा कुमारवासो ससिप्पहे होई । अद्धच्छट्ठायरज्जे'त्येवं, क्वचित्तु 'अड्ढाइज्जा लक्खा कुमारवासो समिप्प होई । अद्धच्छट्ठ य रज्जे'त्येवं दृश्यते ३, इति पाठत्रयं तत्र चरमपाठोऽशुद्ध एव सव्र्वायुष्केण मह विसंवादित्वात्, तथाहि-- 'चउरासीतिबिसत्तरी 'त्यादि - गाथायामनन्तरमेवास्य दश पूर्व्वलक्षाण्यायुः प्रतिपादयिष्यते, अस्मिँस्तु पाठे दीक्षापर्यायसत्के चतुर्विंशतिभिः पूर्व्वाङ्गैर्न्यने पूर्व्वलक्षे क्षिप्तेऽपि वैव पूर्वलक्षाण्यागच्छन्तीति, अन्यत्र तु पाठद्वये दीक्षापर्यायसङ्ख्याक्षेपे दशपूर्व्वलक्षाण्यागच्छन्त्येव, केवलमाद्यपाठ एव सङ्गतिमानिति वृद्धवादः, तत्त्वं तु केवलिनो विदन्तीति । एवमन्यत्रापि यत्र विसंवादबुद्धिरुत्पद्यते तत्र कुमारवासादिपर्यायसङ्ख्यां मीलयित्वा सर्वायुष्केण सह संवादो मृग्य इति त्रयोविंशतिगाथातात्पर्यार्थः ॥ ननु ऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां किमिति कुमारराज्यंपर्यायलक्षणं द्वयमेवोक्तं, न तु दीक्षापर्याय इति ?, पूर्वोक्तत्वात्पुनर्भणने पौनरुक्त्यप्रसङ्गादिति चेत्तर्हि शीतलप्रभृतीनामपि पूर्व्वमसावुक्त एव किमिति पुनरप्युक्त इत्याशङ्क्याद्यानां नवानां तीर्थकृतां दीक्षापर्याय-प्रतिपादनायाह— 'उसभस्स पुव्वलक्ख' गाहा (प०-५२), प्राक्प्रत्येकं दीक्षाप्रतिपादनावसरे व्याख्यातैवेयमिति । नन्वनया गाथया नवानामभिहितो दीक्षापर्यायः, शेषाणां तु कथमित्याह‘सेसाणं परिया' गाहा (५६-८), व्याख्या - शेषाणां शीतलप्रभृतीनां दीक्षापर्याय: कुमारवासादिपर्यायेण सहैवोक्त इति नेहोच्यत इति भावः । नन्विदमेव प्रथमं भवद्भिर्दीक्षापर्याय उच्यते उत प्रागप्युक्तोऽसावित्याह—'पत्तेअंपि य पुव्वं'ति, प्रत्येकं कुमारवासादि- पर्यायैर्वियुतोऽपिशब्दस्य व्यवहितसम्बन्धत्वात्पूर्व्वमपि भणितोऽसाविति शेषः । यद्येवं - स्थानद्वयेऽस्य भणनं किमर्थमित्याहतथाविधस्मृतिपाटववियुक्तशिष्यजनानुग्रहार्थमिति गाथार्थः ॥ ननूक्तस्तीर्थकृतां कुमारवासादिपर्यायः केवलिपर्यायस्तु नाद्याप्युक्तः स कथमवसेय इत्याह- 'छउमत्थकाल' गाहा (५६-१०), व्याख्या
૩૭૫