SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ૩૭૪ ૪ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨). धर्मोपायमुपदर्श्य तस्य देशकानाह-देशकास्तस्य-धर्मोपायस्य, के इत्याह-सङ्घ जिनानामृषभादीनां गणधराः-ऋषभसेनेन्द्रभूत्यादयो, ये च यस्य तीर्थकृतश्चतुर्दशपूर्वविदो यावन्तस्ते धर्मोपायस्य देशका नान्ये, तेषामेव यथोक्तधर्मस्वरूपवेत्तृत्वादिति गाथार्थः । प्रकारान्तरेण धर्मोपायमुपदर्शयन्नाह'सामाइयाइया वा' गाहा (५२-३), व्याख्या-सामायिकमादिर्यासां ताः सामायिकादयः, सामायिकपूविका इत्यर्थः, व्रतानि-प्राणातिपातविरमणादीनि जीवनिकायाः-पृथिव्यादयः भावना:'इरिआसमिए सयाजए'इत्यादि-ग्रन्थप्रतिपादिताः पञ्चव्रतसम्बन्धिन्यः पञ्चविंशतिः अनित्यत्वादिविषया वा द्वादश, एषां द्वन्द्वे व्रतजीवनिकायभावनाः, सामायिकाङ्गीकारपूविकाः सत्यो व्रतजीवनिकायभावना इत्येष धर्मोपायो जिनैः सर्वैनिर्दिष्ट इति सण्टङ्कः । कदा निर्दिष्ट इत्याह-'प्रथम'मिति आद्यसमवसरणप्रवर्त्तनावसर एवेत्यर्थः । यदिवा प्रथममोघतस्तावदाद्यदीक्षाप्रतिपत्तिसमये एष धर्मोपाय:, उत्तरकालं तु जिनकल्पपरिहारविशुद्धिकभिक्षुप्रतिमाऽभिग्रहादिभेदभिन्नोऽनेकविधो द्रष्टव्य इति भावः, ' ननु सामायिकादीनां धर्मोपायत्वमस्तु, जीवनिकायानां तु कथं ?, केषाञ्चित् क्लिष्टसत्त्वानां वधपरिणतिहेतुत्वेन प्रत्युताधर्मोपायत्वात्तेषामिति, हन्त यद्येवं सामायिकादीन्यपि केषाञ्चित् क्षुद्रसत्त्वानामसदध्यवसायजनकत्वेन किं नाधर्मोपायतया प्रेर्यन्ते ?, अथ विवेकिनां महासत्त्वानां शुभाध्यवसायहेतुत्वेन धर्मोपायभूतान्येवामूनि, यद्येवमुक्तविशेषणविशिष्टानां दयापरिणतिजनकत्वेन जीवनिकायेष्वपि समानमिदं पश्याम इत्यलं प्रसङ्गेनेति गाथार्थः ॥ साम्प्रतं पर्यायद्वारं प्रकृतं, तत्र कस्य तीर्थकरस्य कियान् दीक्षाकाल इति प्रतिपादयन्नाह–'उसभस्स पुव्वलक्खं' गाहा ‘पणवीसं' गाहा 'चउप्पन्नं' गाहा 'तेवीसं च' गाहा 'अट्ठमा' (प०-५२), व्याख्या-इह पूर्वाङ्गं चतुरशीतिवर्षलक्षप्रमाणं पूर्वाङ्गेणैव गुण्यते तत एकं पूर्वं भवति, तत्त्विदं-७०५६००००००००००, तदुक्तं- "पुवस्स य परिमाणं सयरिं खलु होंति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥१॥" तत्राद्यतीर्थकृत ऋषभस्वामिन उक्तस्वरूपाणां पूर्वाणामेकं लक्षं दीक्षाकालो विज्ञेयः १, तदेव पूर्वलक्षं पूर्वाङ्गेन-चतुरशीतिवर्षलक्षप्रमाणेन न्यूनमजितस्य द्वितीयतीर्थकृतो दीक्षाकालः २ इत ऊर्ध्वं चतुभिः पूर्वाङ्गैः पुनः २ न्यूनं पूर्वलक्षं तावन्नेयं यावत्सुविधिर्नवमस्तीर्थकरः, तद्यथा-चतुर्भिः पूर्वाङ्गैयूँनं पूर्वलक्षं ३ अष्टभिः पूर्वाङ्गैऱ्यानं पूर्वलक्षं ४ द्वादशभिः पूर्वाङ्गै न्यून पूर्वलक्षं ५ षोडशभिः पूर्वाङ्गैन्यूँनं पूर्वलक्षं ६ विंशतिभिः पूर्वाङ्गैन्यूँनं पूर्वलक्षं ७ चतुर्विंशतिभिः पूर्वाङ्गैथूनं पूर्वलक्षं ८ अष्टाविंशतिभिः पूर्वाङ्गैथूनं पूर्वलक्षं ९ एवं सुविधि यावदतिदेशेनाभिधाय शीतलप्रभृतीनां प्रत्येकमभिधित्सुराह-शीतलस्य पुनः पञ्चविंशतिः पूर्वसहस्राणि पर्यायः १० श्रेयांसस्यैकविंशतिवर्षलक्षाणि ११ चतुःपञ्चाशद्वर्षलक्षाणि १२ पञ्चदशवर्षलक्षाणि १३ ततः सार्द्धसप्तवर्षलक्षाणि १४ ततः सार्द्धवर्षलक्षद्वयं १५ पञ्चविंशतिवर्षसहस्राणि १६ त्रयोविंशतिवर्षसहस्राणि सार्द्धसप्तशताधिकानि भवन्ति १७ एकविंशतिर्वर्षसहस्राणि १८ वर्षशतन्यूनानि पञ्चपञ्चाशत् वर्षसहस्राणि १९ सार्द्धसप्त वर्षसहस्राणि २० सार्द्धं वर्षसहस्रद्वयं २१ सप्तवर्षशतानि २२ सप्ततिवर्षाणि २३
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy