________________
પરિશિષ્ટ-૧ ( ૩૭૩ १५ षट्शताधिकान्येकषष्टिः सहस्राणि १६ षट्शताधिकानि षष्टिः सहस्राणि १७ ‘सट्ठि'त्ति षष्टिः सहस्राणि १८ ‘पणपन्न'त्ति पञ्चपञ्चाशत्सहस्राणि १९ ‘पन्न'त्ति पञ्चाशत्सहस्राणि २० 'एगचत्त'त्ति एकचत्वारिंशत्सहस्राणि २१ ‘चत्त'त्ति चत्वारिंशत्सहस्राणि २२ अष्टत्रिंशत्सहस्राणि २३ षट्त्रिंशत्सहस्राणि २४ । एष उक्तस्वरूपश्चतुर्विंशतेरपि तीर्थकृतां यथाक्रममार्यिकाणां सङ्ग्रहो विज्ञेयः । अत्र च सर्वतीर्थकरसाध्वीसङ्ख्यायामागतं चतुश्चत्वारिंशल्लक्षाणि षट्चत्वारिंशत्सहस्राणि चत्वारि शतानि षट् चायिकाः, तथा चाह- "चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा । छच्चव अज्जिआणं संगहो होइ एसोत्ति ॥१॥” इति गाथाचतुष्टयार्थः । एषा च साधुसाध्वीनां स्वहस्तक्षतानां सङ्ख्या द्रष्टव्या, न गणधरादिदीक्षितानामिति गुरवः, श्रावक-श्राविकापूर्वधरादिसङ्ख्या त प्रथमानुयोगतो ज्ञेया, अनुयोगपटेष्वपि दृश्यते. परं मया न लिखिता, तेषामपि परस्परं विसंवादित्वादिति । 'कल्पात्तत्र कृतसमवसरणापेक्षये'ति (५०-१२), कल्पोऽवश्यं तीर्थकृतां प्रथमसमवसरणं भवत्येव, अतो जन्तूनामनवबोधं पश्यताऽपि कल्पाद्-अवश्यंकर्त्तव्याद्भगवता तत्र समवसरणमकारि, तदपेक्षया मध्यमासत्कं द्वितीयमिति भावः । गणसङ्ख्याप्रतिपादनावसरे 'चुलसी'त्यादिगाथात्रयमेताश्च तिस्रोऽपि गाथा निगदसिद्धा अप्यङ्कतो विभज्यन्ते – चुलसीति १ पंचणउती २ बिउत्तरं ३ सोलसुत्तर, षोडशोत्तरं शतमिति गम्यते ४ सयं च ५ । सत्तहिअं ६ पणणउती ७ तिणउती ८ अठ्ठसीती य ९ ॥१॥ एक्कासीइ १० छावत्तरी अबावत्तरी वृ०) ११ छावठि १२ सत्तवना य १३ । पन्ना १४ तेयालीसा १५ छत्तीसा चेव १६ पणतीसा १७ ॥२॥ तित्तीस १८ अठ्ठवीसा १९ अठ्ठारस २० तहय चेव (चेव तहय वृ०) सत्तरस २१ । एक्कारस २२ दस २३ नवगं २४ गणाण माणं जिणिदाणं ॥३॥
___ गणानां-एकवाचनाचारक्रियास्थयतिसमुदायानां मानमुक्तरूपं वृषभादिजिनेन्द्राणां यथाक्रम विज्ञेयमिति, न कुलसमुदाय इति, 'तत्थ कुलं विनेयं एगायरियस्स संतती जा य । दोण्ह मिहो • 'णेगाण व साविक्खाणं गणो भणिओ ॥१॥' इति वचनाद्योऽयमन्यत्र कुलसमुदायरूपो गणोऽभिहितः स इह न गृह्यते, किन्तूक्तस्वरूप एवेति भावः । तत्र श्रीमन्महावीरगणधरद्वयस्य यथाप्रवृत्त्यैव कथञ्चित्सूत्रविरचने एकैव वाचना, सामाचार्यप्येकैवाभूदिति गणधरद्वयेनापि गण एक एवाभूद्, एवमपरस्यापि गणधरद्वयस्यैवमेव वाच्यम्, एवं च भगवतो महावीरस्यैकादशभिरपि गणधरैर्गणा नवैवाभूवन्निति, शेषतीर्थकृतां तु यावन्तो गणधरा गणा अपि तावन्त एवेति, एतदेवाह –'एक्कारस उ गणहरा' गाहा ( ५१-१२), उक्तार्थेवेति । 'धर्मोपायस्य देशका' (५१-१५ ), इत्येतस्मिन् द्वारे धर्म:-क्षान्त्यादिको दशप्रकारः, स चेह शैलेश्यावस्थाप्राप्तस्य सम्बन्धी प्रकर्षप्राप्तो गृह्यते, तस्य चोपायों-येनासौ प्राप्यते स वक्तव्यः, तस्य चोपायस्य देशका वक्तव्याः, एतद्भयमप्याह'धम्मोवातो पवयण' गाहा (५२-१), व्याख्या-धर्मास्योपायः, क इत्याह-'प्रवचनं' द्वादशाङ्गीस्वरूपं चरमाणान्तर्वर्तीनि वा पूर्वाणि उक्तस्वरूपधर्मस्य प्राप्त्युपायः, एतदुक्तानुष्ठानादेव तदवातेरिति ।