________________
३६०
મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૧)
चात्र 'तइयाइसु छट्ठीसत्तमीण' इति व्यस्तनिर्देश:, अन्यथा ह्यादिशब्देन चतुर्थ्यादीनां सर्वासामपि विभक्तीनामनुरोधः स्यादेवेति गाथार्थः । ननु वस्तूनां नवपुराणादयः पर्यायाः कालक्रमेणैव भवन्त्यतस्ते चेदुत्तरोत्तरकालक्रमवृद्धिभाजो वर्त्तन्ते तदा तद्वृद्धौ सिद्धैव कालवृद्धिरतः पर्यायवृद्धौ कालो भजनीय इति यदुक्तं तदसङ्गतम् ? इत्याशङ्क्याह - ' अक्रमवर्त्तिनामपि वृद्धिसम्भवादित्यादि (९७ - १ ), इदमुक्त भवति-यद्युत्तरोत्तरकालक्रमवृद्धिभाजो नवपुराणादय एव वस्तूनां पर्याया: स्युस्तदा युज्येत भवद्वचः, तच्च नास्ति, रूपरसगन्धस्पर्शतारतम्यादिपर्यायाणां मन्दक्षयोपशमावस्थानुपलब्धानां विशिष्टक्षयोपशमे सति कालक्रमवृद्ध्यभावेऽपि बहूनां युगपदेव वृद्धिसम्भवादिति भावनीयम् । 'परं परं सूक्ष्म (तत्त्वा० अ० २ सू० ३८) मित्यादि (१०३-३), औदारिकशरीराद्वैक्रियं सूक्ष् स्वल्पाकाशप्रदेशावगाहीतियावत्, ततोऽप्याहारकतैजसकार्म्मणानि क्रमशः सूक्ष्माणि तदनेनापि किल तत्त्वार्थसूत्रेण क्षेत्रतो मव्याख्यातव क्रम उक्तो भवति, अनेन हि किल परम्परसूक्ष्मत्वप्रतिपादनेन कार्म्मणवर्गणाः स्वल्पाकाशप्रदेशावगाहिन्यस्ततोऽपि तैजसादीनां क्रमशो बहुप्रदेशावगाहिन्य इति सामर्थ्यादुक्तं भवति, 'प्रदेशतोऽसङ्ख्येयगुण 'मित्यत्र (त० अ० २ सू० ३९) प्राक्तैजसादिति विशेषो दृश्य : . यावद्भिः पुद्गलैरौदारिक निष्पद्यते ततोऽसङ्ख्येयगुणैर्वैक्रियं ततोऽप्यसङ्ख्येयगुणैराहारकं, तैजसकार्मणे तु क्रमशोऽनन्तगुणप्रदेशनिष्पन्ने 'अनन्तगुणे परे' इति (त० अ० २ सू० ४०) वचनादिति । 'भेदाभेदपरिणामाभ्यामित्यादि (१०४ ७), यावद्भिः किल पुद्गलैस्तनुवर्गणास्कन्धा निष्पद्यन्ते तेभ्यो यदा केचित् पुढला विभिद्य पृथग् भवन्ति अन्ये त्वागन्तुकाः समागत्याभेदेन परिणमन्तीति आभ्यां भेदाभेदपरिणामाभ्यामेतास्तनुवर्गणा औदारिकादियोग्यबादरपरिणामाभिमुखा भवन्तीत्यर्थः । 'अयमेव सर्वोत्कृष्टप्रदेश' इत्यादि (१०५ ३), अयमेवाचित्तमहास्कन्ध उत्कृष्टपुद्गलसङ्ख्यानिर्वृत्तो, नान्ये सन्तीति केचित्, एतच्चायुक्तं, कथम् ? इत्याह‘यस्मादि’त्यादि, ननु चाचित्तमहास्कन्धा अपि कालभेदेन बहवो भवन्ति, तेषां च स्थित्यवगाहनादिभिः परस्परं वैषम्याद् यदिदं प्रज्ञापनायां स्थित्यवगाह - नादिभिश्चतुः स्थानपतितत्वादि वैषम्यमुक्तं तदचित्तमहास्कन्धाश्रयेणाप्युपपत्स्यते तत्कुत एतद्व्यतिरेकेणापरोत्कृष्टप्रदेशंकस्कन्धसत्ता ? इत्याशङ्क्याह— 'अयं पुनस्तुल्य एवे 'ति (१०५ -८), अयमित्येत - ज्जातवेकवचनं, ततश्चायमर्थः - अमी पुनरचित्तस्कन्धाः कालभेदेन बहवोऽपि जायमानास्तुल्या एवेति एतदुक्तं भवति - यद्यप्यचित्तमहास्कन्धाः कालभेदेन बहवो भवन्ति तथाऽपि स्थितिरष्टसामयिकी अवगाहना च लोकव्याप्तिलक्षणैव सर्वेषामपि तुल्यैवेति कथं तदाश्रयेण प्रज्ञापनोक्तं स्थित्यादिवैषम्यं युज्यते ?, किं च - असौ प्रज्ञापनायामुत्कृष्टप्रदेशिकः स्कन्धोऽष्टस्पर्शः पठ्यते. अयं त्वचित्तमहास्कन्ध उत्कृष्टप्रदेशिकोऽपि सन् सूक्ष्मपरिणामत्वाच्चतुःस्पर्शे एव तस्मात्प्रज्ञापनोक्तस्थित्यादिवैषम्यभाजोऽष्टस्पर्शाश्चान्येऽप्युत्कृष्टप्रदेशिकाः स्कन्धाः सन्तीति स्थितम् । गुरुलघ्वादिद्रव्यविचारे 'ओरालिय' गाहा (१०६-५), अत्र भावार्थ उच्यते-इह व्यवहारश्चतुर्द्धा द्रव्यमिच्छति, तद्यथाअधोगमनस्वभावं गुरुकं लेष्ट्वादिवद् ऊर्ध्वगतिस्वभावं लघुकं प्रदीपशिखावत् तिरश्चीनगतिशीलं गुरुलघु वाय्वादिवत् निश्चलस्वभावं त्वगुरुलघु व्योमादिवत्, आह च - "गुरुअं लहुअं उभयं नोभयमिति वावहारियनयस्स । दव्वं लिट्टू दीवो