SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ શાક ૩૬૧ वाऊ वोमं जहासंखं॥१॥"निश्चयस्तु मन्यते-नायमेकान्तोऽधोगमनस्वभावं गुर्वेव भवतीति, लघुनाऽप्यधोगतिपरिणतेनाणुना व्यभिचारात्, नाप्यूर्ध्वगतिस्वभावं लघ्वेव, फलमुक्तोर्ध्वगतिपरिणतगुरुस्वभावैरण्डमिञ्जया व्यभिचारात्, तस्मादेकान्तगुर्वेकान्तलघु च द्रव्यं नास्ति, किन्तु यद्बादरपरिणाम तद्गुरुलघु, यत्तु सूक्ष्तदगुरुलध्विति निश्चयस्य परिभाषेति, आह च- "निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । बायरमिह गुरुलहुअं अगुरुलहुँ सेसयं दव्वं ॥१॥" तस्मादिह निश्चयनयमाश्रित्यौदारिकादीनि तैजसान्तानि बादरपरिणामत्वादुरुलघुत्वेनोक्तानि, कार्मणद्रव्यादीनि तु सूक्ष्मपरिणामत्वादगुरुलघुत्वेनेति, एतन्मनस्याधायाह वृत्तिकृत्निश्चयनयापेक्षये'ति (१०६-८) 'इहापि सामर्थ्यप्रापितत्वाद्रव्योपनिबन्धनस्ये'त्यादि (१०७-१३), सङ्ख्येलोकपल्योपमभागदर्शिनोऽपि हि किल तावत्कर्मद्रव्याणि विषयतयाऽभिहितान्यतोऽस्याधिकक्षेत्रकालदर्शिनः सामर्थ्याद्रव्यमपि कर्मद्रव्याण्यतिक्रम्य किमप्यधिकमेव दृश्यमिति, 'काले चउण्ह वुड्डी' इति पूर्वमेवोक्तत्वादिति भावः, ननु च परमावधेई व्यतः सर्वं रूपिद्रव्यं क्षेत्रतोऽलोके लोकप्रमाणासङ्ख्येयाकाशखण्डप्रमाणं क्षेत्रं कालतोऽसख्येया उत्सप्पिण्यवसप्पिण्यो विषय उक्तः, स चेह द्रव्याद्युपनिबन्धावसरेऽनुक्तवात्कथमवसेयः ? इत्याह-'अत एवे'त्यादि, अत एव च–सामर्थ्यादेव च तदुपर्यपि कर्मद्रव्योपर्यपि ध्रुववर्गणादिकं सर्वमपि परमाणुपर्यवसानं द्रव्यं पश्यतः क्षेत्रकालवृद्धिः क्रमेण ज्ञेया यावत्परमावधिविषय इति, कर्मद्रव्यातिक्रममात्रेऽपि हि क्षेत्रतो लोकप्रमाणोऽवधिरुक्तः यस्तु सर्वमपि ध्रुववर्गणादिद्रव्यं पश्यति तस्यातिविशुद्धत्वात् सामर्थ्यादेव परमाबधेः सम्भवोऽनुमीयत इति भावः । स च पल्योपमासङ्ख्येयभागसमुदायमान' इति (१०९-९), पल्योपमासङ्ख्येयभागरूपो यः समुदाय: स एव मानं यस्य स तथा पल्योपमासङ्ख्येयभाग इति यावत्, न पुनः समुदायशब्दमधिकमालोक्यार्थान्तरं कल्पनीयमिति । 'सामान्यं न्यायमङ्गीकृत्येत्थमेवे'त्यादि (१२७-४), इदमुक्तं भवति-क्षेत्रस्यासंख्येयप्रदेशात्मकत्वाद् यदि द्रव्यमपि तदवगाढत्वादसङ्ख्येयभागैः परिकल्प्य क्षेत्रस्य प्राधान्यात्तदनुवृत्त्या वृद्धि नीयते तदा क्षेत्रवद्र्व्यस्यापि चतुर्विधैव वृद्धि: स्यात्, यदा तु क्षेत्रनिरपेक्षमेवावधिज्ञानविषयतया स्वतन्त्रं द्रव्यं चिन्त्यते तदा तस्य द्विविधैव वृद्धिः, ननु तथाऽपि पर्यायवद्र्व्यस्यापि षड्विधा वृद्धिः कस्मान्न भवति? आनन्त्यस्योभयत्रापि समानत्वात्, अत्रोच्यते, पर्यायाणां ह्यपरक्षेत्रादिवृद्ध्यभावेऽप्यवस्थित एव क्षेत्रादावसङ्ख्येयभागादिवृद्धिः संभाव्यते, द्रव्यस्य त्ववस्थितक्षेत्रेऽनन्तभागलक्षणैव वृद्धिर्लभ्यते, यदा त्वधिक विशुद्ध्यमानको भवति तदा क्षेत्रमपि वर्द्धते, तस्मिंश्च वर्द्धमाने शेषवृद्धिस्थानान्युल्लच्यानन्तगुणैव द्रव्यवृद्धिर्भवतीत्येवं तावत्संभाव्यते, तत्त्वं तु केवलिनो विदन्तीति, 'पुद्गलानुवृत्त्या च तत्पर्याया'इति, (१२७-५) अयमत्रार्थ:-पुद्गलास्तिकायस्य विद्यत एवेदं स्वरूपं, यदुत द्रव्यस्यानन्तभागादिवृद्धौ पर्यायाणामपि तावत्येवासौ भवति, पर्यायानन्तस्य सर्वद्रव्येषु समानत्वात् किन्तु यदाऽवधेविषयतया पर्यायाश्चिन्त्यन्ते तदाऽवध्यावरणक्षयोपशमापेक्षैव तद्वृद्धिर्न द्रव्यवृद्ध्यपेक्षेति, अतो अस्य क्षेत्रादेर्यथैव चातुर्विध्यादिक्रमेणं वृद्धि निर्वा प्रोक्ता तस्य तथैव युक्ता, कुतः? इत्याह–'प्रतिनियतविषयत्वादिति' (१२८-१), प्रतिनियतो ह्यवधिविषयतया चिन्त्यमानयोः क्षेत्रादिवृद्धिहान्योविषयः, तद्यथा-'वुड्डी वा हाणी वा चउव्विहे'त्यादि.
SR No.005753
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy