SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ કે ૩૫૯ पूर्वमेव व्याख्यातं, ननु पूर्वं न क्वचिद्व्याख्यातमेतत् ? इति चेत्सत्यं, साक्षान्न व्याख्यातम्, 'अन्ये त्वाचार्या अवधिरित्येतत्पद'मित्यादिना सामर्थ्याद्विवृत्तिर्व्याख्यातैव, कथम्?, अवधिर्वा नामादिभेदभिन्नो वक्तव्यः अवधेर्वा क्षेत्रपरिमाणादीनि द्वाराणि वक्तव्यानीति, प्रथममतमेवाश्रित्य तावदाह-'तथा क्षेत्रे 'त्यादि (८५२), नन्वाद्यमते तावदवधिरित्येका प्रतिपत्तिः, क्षेत्रपरिमाणं तु द्वितीया, संस्थानमिति तृतीया, द्वितीयमते तु यदाऽवधिशब्दोऽर्थवशात्प्रथमान्तोऽपि षष्ठ्यन्तः शेषद्वारैः सह सम्बध्यते तदा संस्थानमिति कतिथी प्रतिपत्तिर्भवति? इत्याह-'अथवा अर्थाद्विभक्ती'त्यादि (८५-३), पातनिकयैव व्याख्यातं. केवलं द्वितीयैवेय संस्थानलक्षणा प्रतिपत्तिरिति सामर्थ्याद्गम्यते, 'एमेया पडिवत्तिओ'-इति द्वितीयश्लोकान्तेऽभिधास्यमानत्वात्. कथं पुन: संस्थानं द्वितीया प्रतिपंत्तिर्भवति ? इत्याह-'ततश्चावधेर्जघन्ये'त्यादि (८५-३), अन्ये तु द्वितीयैवेयं विभक्तिरित्यादिकं किञ्चिद्व्याख्यानयन्ति तत्तु यदि परंत एव विदन्ति, सकर्मकक्रियाया एव सूत्रेऽ श्रवणादित्यलं प्रसङ्गेनेति । 'चतुर्णा द्रव्यादीनां वृद्धि रित्यादि (९६-४), ननु काले वर्द्धमाने पारिशेष्यात् त्रयाणामेव द्रव्यक्षेत्रभावानां वृद्धिर्भवतीत्येतावदेव वक्तुमुचितं कथमुच्यते-काले वर्द्धमाने चतुर्णां वृद्धिर्भवति ?. इत्याशक्याह-'सामान्याभिधानादि'ति, प्रथमं वर्द्धमानतया विशेषतः कालं निर्धार्य ततो वृद्धिसाम्याच्चतुर्णामपि सामान्येनाभिधानादिति भावः, अस्ति चायं न्यायः-एकस्मिन् रसनेन्द्रिये जिते पञ्चापि जितानि भवन्तीति, तथाऽन्धेन भोक्तुमाकारितेन जनद्वयमागच्छतीत्यादिवचनप्रवृत्तिदर्शनादिति । 'कालस्तु भक्तव्यो-विकल्पयितव्य'इत्यादि (९६-५), यदि हि क्षेत्रस्य प्रतिप्रदेशवृद्धौ कालः समयवृद्ध्या वर्द्धते तदाऽङ्गुलासङ्ख्येयभागमात्रक्षेत्रवृद्धावपि कालतोऽसङ्ख्येया उत्सर्पिण्यवसप्पिण्यो वर्द्धरन्, न चैतदिष्यते, अत: क्षेत्रवृद्धावपि स्थूलत्वात्कालः स्याद्वर्द्धते स्यान्नेति । 'ए होइ अयारंते'इत्यादि (९६-८) गाथाव्याख्याद्वितीयाबहुवचनान्तेऽकारान्ते पदे पुंल्लिङ्गेऽभिधेयेऽन्तस्यैकारो भवति, यथा-'नमिऊण जिणवरिंदे' इत्यादि, तथा तृतीयादिष्वादिशब्दाच्चतुर्थीपरिग्रहस्ततश्च ‘एगंमि'त्ति एकत्वे वर्तमानानां तृतीयाचतुर्थीषष्ठीसप्तमीनां स्थाने महिलत्थेत्ति-स्त्रीलिङ्गेऽभिधेये एकारो भवति, तत्र तृतीयायां यथा-'सुंदरबुद्धीए कय'मित्यादि, चतुर्थ्यां यथा-'गावीए पुण दिण्णं तणंपि खीरत्तणमुवेइ'इत्यादि, षष्ठ्याः स्थाने यथा-'तीए पुण विसुद्धीए कारणं होंति पडिमाओ' इत्यादि, सप्तम्याः स्थाने यथाऽत्रैव, ननु तृतीयादिष्वित्यत्रादिशब्दात् किमिति न पञ्चमीपरिग्रह: ?, नैवं, तत्स्थाने ओकारस्य दर्शनात्, तद्यथा-'इत्थीओ आवि संकण'मित्यादि, अत एव १ पूर्वगाथातो वक्ष्ये इत्यस्यानुवृत्तेलाभात्, क्रियापदं त्वत्रापि अध्याहार्यमेव, ततश्च विभक्तिपरिणामात 'खित्तपरिमाणे संठाणे' इत्यादौ द्वितीया वाच्या, ततश्च क्षेत्रपरिमाणं वक्तव्यमिति ब्रूधातुना सम्बन्धयति. एवमेताः प्रतिपत्तीर्वक्ष्ये इति पर्यन्ते तत्त्वतः सम्बन्धः, संस्थानप्रतिपत्तेः संख्यानं त्वनुपयोग्येवेति स्यात्तन्मतं । आदौ विषयसप्तम्या व्याख्यानेऽवधेर्मुख्यताऽभूत्, परिणामे तु तस्यैव क्षेत्रपरिमाणादेर्मुख्यतेति अवधेरित्यादिग्रन्थसंगतिः, द्वितीया प्रतिपत्तिरिति तु अन्ये त्वाचार्या इत्यादिना लब्धमेव, द्विरावर्त्यते इत्यपि प्राग्व्याख्यात एव सिद्धं, यतः प्रथम तावदवधिशब्दो नामादिभेदभिन्नेऽवधौ व्याख्यातः, द्वितीयोऽवधिशब्दश्चाग्रे योज्यते क्षेत्रपरिमाणविषयोऽवधिरित्यादौ ततो युक्ता आवृत्तिः, तथा च न व्याख्यानद्वयस्यावृत्तिशब्दवाच्यता, स्थानमपि च नैतदस्येति तदभिप्रायः ।
SR No.005753
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy