________________
३३५
श्री चिरंतनाचार्यकृतटीप्पणकम्
परिशिष्ट- ६ १८. ( अनादिसं बंधे ) न आदिर्यस्य सम्बन्धस्य सोऽनादिसम्बन्ध इति । किमुक्तं भवति । न च कदाचिच्चिन्त्यं तैजसकार्मणाभ्यां प्रथमावस्थो जीवो जीवाद्वा प्रथमाऽवस्थे तैजसकार्मणे, किं त्रयमप्येतत्सहोत्थितं यथा नाम खानिविशेषे सुवर्णरजसी इति । (अ. २, सू. ४२) (पृ. २२३) १९. ( तैजसं ) - केन लक्षणेन कृत्वा तैजसं लक्ष्यमिति । अत्रोच्यते आहारपचनं हि तैजसस्यैवोपकारः । यानि च जीवतामौदारिकपिण्डे रुधिरमांसादीनि वह्नितापितघृतवदऽस्त्यानभाञ्जि भवन्ति तत्किल तैजसस्य सामर्थ्यम्। ततश्च जीवस्य तैजसकार्मणाभ्यां साकं भवान्तरे गतस्य पृष्टाऽविशेषितौदारिकं मांसाद्यपेक्षया प्रायः स्त्यानीभूतं भवति लोकाश्च बादरदृष्टयो विमृश्य संशेरते रुधिरमेव नु जीव इत्यादि । (अ. - २, सू. - ४३) (पृ. - २२७ ) २०. (आहारकं चतुर्दशपूर्वधरस्यैव ) - आहियते गृह्यते सूक्ष्मातिसूक्ष्मविचारप्रत्युत्तरं परमेश्वरप्रदत्त मनेन शरीरेण कृत्वा पूर्वधरैरिति आहारकम् । तच्च शुक्लपाक्षिक भव्यानामेव भवति तेष्वपि चतुर्दशपूर्वधरैरेव तत्प्राप्तुं शक्यते
-
-
चत्तारि य वाराओ, चउद्दसपुव्वी करेइ आहारं । संसारंमि वसंतो, एगभवे दुन्नि वाराओ॥ १॥ प्राप्तचतुर्थाहारकदेहा नियतं तद्भवमुक्तिगामिन इत्यर्थः ॥ (अ. - २, सू. - ४९ ) (पृ. - २५२ ) २१. (द्रव्योपचितं ) - आहारकशरीररूपं तीर्थंकरगणधरशरीरेभ्यो ऽनन्तगुणहीनं पञ्चमानुत्तरविमानवासिदेवाच्चानन्तगुणाधिकं भवत्यतः । (अ. - २, सू. - ४९) (पृ. - २५३ ) २२. (औदारिकं) - अत एव उदराद्भवमौदारिकमिति लौकिक एवार्थः । अन्यथा औदारिकस्य सम्मूर्च्छनं न स्यात्, न च सन्मूर्च्छितजीवा उदराज्जायन्त इति वक्तुं शक्यमतः ।
(37. २, सू. - ४९) (पृ. - २६२ ) २३. (छेद्यं भेद्यं दाह्यं ) - यद्यपि नारकाः परमाधार्मिकै श्छेद्यन्ते भेद्यन्ते दाह्यन्ते च तथापि न हि तेषां तद्देहं मूलतश्छेत्तुं भेत्तुं दग्धुं शक्यते केनापि पारद इव शीत्वा शीत्वाऽपि ते नारका नातिवेलाऽतिक्रमेण मिलन्त्येव ततः ॥ (अ. - २, सू. - ४९ ) (पृ. - २६५ ) २४. (हार्यं) - हार्यमिति च वैक्रियं न स्यात् । कोऽर्थः, वैक्रि यशरीरवान् नहि केनचित्स्वच्छन्दं सुखस्य दुःखस्य वा स्थाने पातयितुं शक्यते, किमुक्तं भवति । तुष्टैरपि प्राग्जन्मस्नेहादिना देवैः खलु नैरयिका यथा स्वर्गभूमौ नहि वास्या भवन्ति बलभद्रेणेव पञ्चमस्वर्गस्थितिमता कृष्णादय इव । एवं रुष्टैरपीन्द्रादिभिर्देवा नरकभूमौ न च निवास्या जायंते तेषां जन्मतोऽपीष्टफलदेहत्वात्ततः ।
(अ. - २, सू. - ४९ ) (पृ. - २६५ ) २५. (औदारिकं वैक्रियं ) - आगमे च “उरालियं वेउव्वियं आहारगं" इत्यादि । तत्र च उरलं विरलप्रदेशं तदेवौरालिकमित्यप्यर्थः । विकुव्व इति सिद्धान्तप्रसिद्धो धातुः । विकुर्वणं विकुर्वस्तद्भवं वैकुर्विकमित्यप्यर्थः ॥ (अ. - २, सू. - ४९) (पृ. - २६७ ) २६. (भवति) यद्यपि यदृच्छया विनिर्मितबहुस्वरूपो वैक्रियशरीरी खण्डश इव जातो विलोक्यते,
-