________________
परिशिष्ट-५६ • श्री चिरंतनाचार्यकृतटीप्पणकम् .
३३६ तथापि तज्जीवस्यैकत्वात् खण्डविचारोऽपार्थः किमुक्तं भवति। मर्त्यलोकान्तभागवदर्हज्जन्मादिषु स्वर्गादिस्थानतोऽमरेन्द्रादयः स्वभवधारणीयकायं स्वात्मप्रदेशव्याप्तमेव तत्र विमुच्येह समागच्छन्ति। तदा भवधारणीयदेहस्थानादारभ्य समवसरणादिभूमिपर्यन्तं जीवप्रदेशव्याप्तिः स्यान्न च ते जीवप्रदेशाश्छद्मस्थगोचरा इति ततः। अन्यथा परमार्थादपि द्रव्यत्वं पर्यायवदनित्यं घटेतेति।
(अ. - २, सू. - ४९) (पृ. - २६८) २७. (विषयः) - विषयो ह्यौदारिकस्य तिर्यग्विद्याधरानाश्रित्य नन्दीश्वरद्वीपपर्यन्तं, जङ्घाचारणांस्तु
प्रति रुचकगिरेः वैक्रियस्याऽसंख्येया द्वीपसमुद्रा इत्यादि। (अ. - २, सू. - ४९) (पृ. - २७५) २८. (स्वामित्वं) - स्वामित्वं त्वौदारिकस्य नृतिर्यक्ष्वेव वैक्रियस्य चतसृष्वपि गतिषु इत्यादि।
(अ. - २, सू. - ४९) (पृ. - २७५) २९. (अवगाहना) - अवगाहना औदारिकस्य सातिरेकयोजनसहस्रं वैक्रियस्य तु साधिकलक्षयोजनानि
स्यादुत्कर्षत इत्यादि।। (अ. २, सू. ४९) (पृ. - २७५) ३०. (स्थितिः) - स्थितिः औदारिकस्य पल्यत्रयं वैक्रियस्य तु त्रयस्त्रिंशत्सागराणीत्यादि।
(अ. - २, सू. - ४९) (पृ. - २७७) ३१. (अल्पबहुत्वं) - अल्पबहुत्वं तु यथा सर्वस्तोकमाहारकम्, ततो वैक्रियौदारिके क्रमशोऽसंख्येये,
ततस्तैजसकामणे तुल्ये इति अनन्तगुणे। (अ. - २, सू. - ४९) (पृ. - २७७) ३२. (औपपातिक) - उपपाते भवा औपपातिका उपपादुका इत्यनर्थान्तरम् । ते हि देवनारका एव
भवन्ति । उत्पत्तिसमयादन्तर्मुहूर्तेणापि तारुण्यलाभात्तेषां जघन्यतो दशवर्षसहस्राण्यप्यायुःस्थितिममी
लभन्ते ततोऽसंख्येयवर्षायुभ्योऽतिरिच्यन्ते । (अ. - २, सू. - ५२) (पृ. - २९७) ३३. (अर्धचक्रवर्तिनः) - इह राम-कृष्ण-प्रतिकृष्णा अर्द्धचक्रवर्तिन इत्युच्यन्ते ।
(अ. - २, सू. - ५२) (पृ. - २९८) ३४. (सोपक्रमा) - चरमदेहानां तीर्थंकरपरमेश्वरवर्जितानां सोपक्रमत्वं शिष्योपचाराय ज्ञापितमस्ति ।
कोऽर्थः - स्कन्दकाचार्यान्तेवासिनामिव यन्त्रपीलनाद्युपसर्गप्राप्तिर्भवत्यपि तद्भवमुक्तिगामिनाम् । भण्यते च गजसुकुमालमहर्षिः सोमिलब्राह्मणविरचिताऽग्न्युपसर्गकष्टसहननिश्चलध्यानो मुक्तिमवापदिति। परमार्थतस्तु निरुपक्रमत्वमेवेह। यदाह -
"उत्तम चरमसरीरा सुरनेरइया असंखनरतिरिया।
हुंति निरुवक्कमाऊ, दुहावसेसा मुणेयव्वा ।। १॥” इति । अत्यन्तगाढाभिप्रायेण बद्धस्य कर्मणो निकाचितत्वं स्यान्निकाचितं चाऽवश्यक्रमवेद्यफलमिति।
(अ. - २, सू. - ५२) (पृ. - ३०३) ॥ द्वितीयोऽध्यायसमाप्तम्॥