________________
परिशिष्ट-६ • श्री चिरंतनाचार्यकृतटीप्पणकम् .
३३४ खलु धर्माधर्मयोरवर्तमानत्वाज्जीवाऽजीवानां गतिः स्थितिश्च न भवितुं शक्नोत्यतो वक्रगतिव्यवहारः॥
(अ. - २, सू. - २६) (पृ. - १४८) १४. (चतुर्थ्यः) - केचिदाचार्याः पञ्चसमयान्यावद्वक्रां मन्यन्ते। यदाह संग्रहण्यां श्रीचन्द्रः - "उजुगइइग
समया वक्कं चउपंचसमयंता।” इति, तच्च मतान्तरम् । (अ. - २, सू. - २९) (पृ. - १६२) १५. (अण्डजा-नाम्) - अण्डजाः खलु गर्भमध्यशः समुत्पद्य येनिमार्गाद्विनिर्गता इह गृह्यन्ते, न च
संज्ञि पञ्चेन्द्रियेभ्यो भिन्नजीवानां योनिर्भवति । योनिर्भगश्च्युतिर्वराङ्गः स्त्रीचिह्नमित्यनर्थान्तरम् । ततश्च यूकामत्कुण-कीटिकादीनामण्डजत्वं न स्यात्, ते हि जीवा बहिःस्थितस्वेदपिण्डादौ सम्मूर्छन्ति विवृतयोनित्वात् । संमूर्च्छन त्वनेकविधं रसस्वेदोद्भेदादिप्रकारैः । श्रूयते त्रसानामप्यष्टविधयोनिकत्वम् । “अण्डजाः पक्षिसर्पाद्याः, पोनजाः कुञ्जरादयः। रसजा मद्यकीटाद्या, नृ-गवाद्या जरायुजाः॥१॥ यूकाद्याः स्वेदजा मत्स्यादयः सम्मूर्छनोद्भवाः। खञ्जनास्तूद्भिदोऽथोपपादुका देवनारकाः॥२॥ त्रसयोनय इत्यष्टा" इति हैमकोषः। “अंडया पोयया जराउया रसया संसेइमा सम्मुच्छिमा उब्भिया उववाइया" (दशवैकालिक अध्याय-४, त्रसाधिकारः) इत्यागमश्च। तथा - "कुरण्टाद्या अग्रबीजा, मूलजास्तूत्पलादयः। पर्वयोनय इक्ष्वाद्याः, स्कन्धजाः सल्लकीमुखाः॥१॥ शाल्योदयो बीजरुहाः, संमूर्छजास्तृणादयः। स्युर्वनस्पतिकायस्य, षडेता मूलजातयः॥२॥"
इति हैमः। "अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा, सम्मूर्छिमा" (दशवैकालिक अध्याय - ४,
साधिकारः) इत्यागमश्चापि।। (अ. - २, सू. - ३४) (पृ. - १९९) १६. (सूक्ष्म) - सूक्ष्मतापरिणतं सूक्ष्ममित्यर्थः। “शब्द-बन्ध-सौम्य-स्थौल्य-संस्थान-भेद
तमश्छायातपोद्योतवन्तश्च" इति अग्रे वक्ष्यति । कोऽर्थः, य एव परमाणवः स्कन्धतां प्राप्ताः स्थौल्यभाजो भवन्ति त एव च सौम्यभाजोऽपि भवितुं शक्नुवन्ति तथाविधच्छ ग्रस्थजनागोचराऽनन्तानन्तशक्तित्वात्तेषाम् । ततश्च विचारणीयं यावन्तः पुद्गला एकमात्रवैक्रियशरीरत्वापरिणता ये स्युस्तावन्तस्ते यदि औदारिकशरीरत्वपरिणामिनो जायन्ते तदा तद्वैक्रि यपरिमाणावगाहनयाऽसङ्ख्ये यान्यौदारिकाणि जायन्त इति। मा च कश्चित्संशयार्णवे पततु, यतस्ते पुद्गलास्तुल्याकाशप्रदेशेष्वत्यर्थाऽत्यर्थं कथं मान्तीति। श्रूयतां भोः आकाशप्रदेशो हि परमाणुद्रव्याऽवगाहनापरिमाणो भण्यते तस्मिन्नैव चैकत्र नभःप्रदेशे स्वयंसिद्धतावत्प्रमाणाऽवगाहनाभाजोऽनन्तानन्ताः परमाणुपुद्गला मा तास्तिष्ठंतीत्येवमाकाशद्रव्यस्य पृथक्पृथक्प्रतीताऽवगाहदानशक्त्यानन्त्यं तथाविधज्ञानिगम्यम्॥
(अ. - २, सू. - ३८) (पृ. - २१३) १७. (अनन्तगुणे) - सूक्ष्मैकनिगोदजीवस्यापि तैजसं शरीरं यद्यौदारिकत्वपरिणतं स्यात्तदाऽसत्कल्प
नयाऽनन्तयोजनव्याप्तं तद्वपुर्भवत्यतः।। (अ. - २, सू. - ४०) (पृ. - २१९)