________________
३३१
परिशिष्ट
श्री चिरन्तनाचार्यकृतटीप्पणकम्
१. ( औपशमिक क्षायिकौ मिश्रश्च ) - औपशमिक क्षायिकयोर्यथाक्रमं सर्वशः कर्मणामुपशमक्षौ भवतः । प्रदेशतो विपाकतश्चेत्यर्थ ॥ तद्यथा जलपटलैरभिषिच्याभिषिच्य द्रुघणभृशकुट्टितरजःपुञ्जोपमानि कर्माणि उपशमे जायन्ते। यथा भस्मसात्तु क्षायिकभावे भवन्ति । क्षायोपशमिको मिश्र इत्यनर्थान्तरम्। तत्र तु मारकपुरुष क्षयावलोकनभीतनिर्गच्छज्जिघांसुजनतावत्कर्मप्रयासः । कोऽर्थः, क्षयोपशमे सति पूर्वबद्धयथावद्विपाकशक्तेरुपशमः स्यात्प्रदेशतस्तूदयः स्यात्ततो विभक्तिभेदः ॥
-
-
-
-
परिशिष्ट- ६
६
इह केचिद्वक्ष्यन्ति ननु सम्यक्त्वमोहनीयमप्यौदयिकभावे गृह्यतां, कर्मप्रकृतित्वात् । कर्मप्रकृतिश्च पुद्गलनिचिता, पुद्गलानां च वर्णगन्धरसस्पर्शगुणैरनादितन्मयत्वात् वर्णादयश्च परमार्थतो जीवस्याऽस्वकीया एव भवन्ति। चेतनालक्षणो जीव इति, चेतना ह्यरूपवती, ततः कथं मिथ्यादर्शनाख्यमोह एव औदयिक इति । अत्रोच्यते - देवानुप्रिय ! श्रूयतां दर्शनमोहो यद्यपि त्रिधा प्ररूपितः, तथापि बन्धापेक्षया मिथ्यादर्शनस्यैवैकस्य बन्धो भवति, न च त्रयाणां तेषां, मिश्रसम्यक्त्वमोहयोर्विपाकै काऽधिकारित्वात्, मिथ्यात्वपुद्गला एव परिणामविशुद्धिशोधिता वाच्यान्तरं भजन्ते हितार्थहेतवश्च भवन्ति हरितालप्रयोगवत् यथा हि तथाविधवैद्यजनतया सदुपायैरशोधितं तावद्धारि ( वद्धरि) तालं लोकस्य तद्भक्षणनिरतस्य कुष्ठादिमहारोगविकारोत्पत्तिकारणं भवति, भृशपरीक्षितशोधितं च तदेव निखिल व्याधिमूलविनाशविधिदुर्निवारव्यसनं भवति । एवं महामोहोऽत्र मिथ्यात्वस्वरूपः, स च लेशतोऽपि सेविनोऽनन्तभवदुःखसन्ततये जायते स एव कदाचित् परमभावविशुद्धिनिर्विषीकृतः प्रत्युत केवलिश्रुतसंघादिवर्णवादहेतुस्वभावो मुक्तिपदपदवीचरणगुणाय जाघटीति, ततश्च तस्य सम्यग्मोह इत्यभिधां प्राप्तस्याऽध्यक्षविचाराद् नहि चतुर्विधोऽपि बन्धो वक्तुं पार्यते । विपाकस्तु चेष्टत एव, परं शोधितहरितालनिर्विषत्वमनुवर्तनीयम् । कोऽर्थः सर्वथाऽपि मोहो बध्यमानः सन् महागरलबन्ध एव स्यात्, न च हरितालस्य रोगापहारिगुणरूपत्वेन सह मूलोत्पत्तिः । यश्च गुणनिबन्धनं योगस्तस्य स तु औपाधिकः पश्चादेव परप्रकाशित इत्यर्थः । उपाधावपि च तत्कथंचिच्छब्दान्तरं नाद्रियते, किन्तु विनिर्मलहरितालमित्येव । तथाऽसावपि सम्यक्त्वसाहाय्यदानात्सम्यक्त्वमोह इत्येव वाच्यः स्यात् न चैकान्तनामान्तरेण । ननु कथमेतदिति चेत् ब्रूमः → मोहशब्दसाहचर्यमद्याप्यस्तीति । अत्र तावानेव विपाकोऽनुभूयते यः खलु क्षायोपशमिकत्वं न व्यभिचरतीति शोधितयथाऽवस्थितविपाक इत्यर्थः । अत्यन्तविपाकस्तु बन्धं विना नागच्छतीति ।
अत्र कोऽपि प्राह क्षयोपशमसम्यक्त्वें यथा मिथ्यात्वमोहस्य क्षयोपशमस्तथा सम्यक्त्वमोहस्य, यथा च सम्यक्त्वमोहस्य तथा मिथ्यात्वमोहस्य, तत्कथं कथनयोग्यतैकत्वेऽपि सम्यग्मोहो विपाकशब्देन कृत्वा भण्यते, व्यर्थं पुनः सम्यग्मोहस्य कर्मप्रकृतित्वं क्षयोपशमरूपत्वादेव तस्य । न च क्षयोपशमतयापि कर्मप्रकृतिर्वक्तुं योग्या । नो चेदवधिज्ञानिनामपि अवधिज्ञानावरणीयवन्तोऽमी इति