________________
परिशिष्ट- ६
•
श्री चिरंतनाचार्य कृतटीप्पणकम्
लोकोपचारविरुद्धा विख्यातिर्भवति । मैवं यथा कश्चिद्भटविशेषः प्रतिज्ञां करोति-शतरूप्यकधनतः परं द्रविणमात्रमेव मया लोकस्य लुण्टनीयमित्येवं च तस्य तिष्टतः कदाचिद् द्वौ पथिकौ मिलितौ, एकस्य पार्श्वे धनलक्षं, द्वितीयस्य तु धनशतकमेव, ततोऽसौ भटः प्रथमं शतरूप्यकधनावशेषं कृत्वा पर्यहरत्, द्वितीयस्तु यथास्थितधन एव त्यक्तः, नायं लुण्ठित इत्युच्यते । न चापि विवक्षातोऽलुण्टित इति, शतरूप्यकातिरिक्त-वस्तुरक्षणासामर्थ्यकीर्त्यलाभात् । मत्वर्थीयप्रत्ययस्तु प्राधान्यमपेक्षते, तद्यथा - निश्चीयते धनलक्षापहरणाऽवशेषितशतरूप्यकधनिकपुरुषाच्चिन्ताशोकविषाद दैन्यसमुद्रपतितात् स्ववशभुज्यमानरूप्यशतकपुरुषो महाभागः पुण्यवानिति । ततश्च कार्यान्तरे तुल्यधनादपि पूर्वस्मादसौ सभ्याधिकारस्फूर्तिमधिरोहतीति । अत एव “सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम्” इति वाचकमुख्योऽग्रे वक्ष्यति । किञ्चान्यत्, शोधितसुन्दरस्यापि हरितालस्य कुपथ्यं निकामसेवने यथा मूलाऽशोधितहरितालत्वमेव प्रादुर्भवति कुष्ठमहारोगादिबीजभूतत्वात् । एवं शङ्कितकांक्षिताद्यपथ्यभावितः शोधितमोहोऽपि मूलप्रकृतिमोहत्वमेव लभते, जिनवचनविराधना विपाकत्वात्। कोऽर्थः । यथातथानुभूयमानोऽयं नैवोपकाराय स्यात्किन्तु विवेकपरिक्षितसेवित एव तथाविधसद्गुरुवत्। यथा नाम सर्वेषामपि सद्गुरुर्मित्रमित्यभिधीयते, विराधिताशातितश्चासौ विचारकरणे महाशत्रुरिति देवगुरुधर्माणामेव तत्त्वभूतानां विराधनयाऽनन्तसंसारपाश बन्धाज्जीवानामिति ।
(अ. - २, सू.. १) (पृ. - ४) २. ( पारिणामिक : ) - अत्र घुणाक्षरन्यायात्पारिणामिकभावः । न खलु घुणाख्यजन्तु वेधितशुष्क काष्ठसूक्ष्मचूर्णकणसमुदायाऽधःपतनस्वयंपरिणताक्षरस्य कश्चिल्लेखको वर्तत इति । रूपान्तरपरिणमनं ह्युदयः, स च परमार्थतः पुद्गलेष्वेव, उपचारात्तु जीवेष्वपीति, यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणतो भूत्वा द्विगुणकृष्णिमपरिणतः स्यात् । एकगुणत्वाद्विगुणत्वं रूपान्तरमेव, इत्येवमन्यत्रापि । परिणामः षड्द्रव्येऽपि । (अ. - २, सू. - १ ) (पृ. - १० ) ३. ( कर्तृत्वं भोक्तृत्वं अनादिकर्मसन्तानबद्धत्वं ) - कर्तृत्वभोक्तृत्वानादिकर्मसन्तानबद्धत्वमिति त्रयं जीवेष्वेव । ( अ. - २, सू. - ७) (पृ. ४५) ४. ( असर्वगतत्वं ) - आकाशव्यतिरिक्तेष्वेव । (अ. -
२, सू. - ७) (पृ. - ४५)
३३२
-
५. ( प्रदेशवत्त्वं ) - परमाणुव्यतिरिक्तेष्वेव। (अ.
२, सू. - ७) (पृ. - ४५ )
६. (अरुपत्वं) - पुद्गलव्यतिरिक्तेष्वेव । (अ. - २, सू. - ७) (पृ. - ४५)
७. (तेजोवायू) - इह तेजोवायुग्रहणं यद्वनस्पतिपश्चात्कृतं तत्कथञ्चिद्द्द्वीन्द्रियादीनां त्रसत्वसाधर्म्यात्। किं चान्यत्, दारिद्र्यसाधर्म्यादप्येवमुचितं, यतस्तेजोवायुभ्यो द्वीन्द्रियादिभ्यस्त्रिभ्यश्च निर्गता न चैव सिद्ध्यन्तीति । (अ. - २, सू. - १४ ) (पृ. - ८९ )
-
-
८. (निर्वृत्त्युपकरणे)
इह निर्वृत्तिः कर्णपर्पटिकादिरूपा । उपकरणं च द्वेधा। तत्र बाह्योपकरणं निर्वृत्तिरेव । अभ्यन्तरोपकरणं तु कर्मजनिता शब्दादिग्रहणशक्तिः । सा च कदम्बपुष्पाद्याकारा वेदितव्या।