________________
परिशिष्ट-५
तुलनात्मकटीप्पणी भगवत्यष्टमशतकद्वितीयोद्देशकसूत्रेण सह विरोधस्स्यात्, यतस्तत्र मतिश्रुतज्ञानद्वयस्य नियतसहभावत्वेनोक्तत्वात् केवलज्ञानमेवैकमुक्तं, न तु मतिज्ञानमिति । अत्र तु मत्यादीनां पञ्चानां ज्ञानानामेकं मतिज्ञानं सम्भवतीत्युक्तमिति चेत्, मैवम्, आचार्यकृतविवक्षाभेदमात्रस्यैवात्र प्रयोजकत्वात्, अत एव तत्त्वार्थश्लोकवार्त्तिके त्रिंशत्तमसूत्रटीकायां- “प्राच्यमेकं मतिज्ञानं, श्रुतभेदानपेक्षया। प्रधानं केवलं वा स्यादे कत्र युगपन्नरि ।।२ ।।” इत्युक्तमपि सङ्गच्छते। ननु जीवो मिथ्यात्वं परित्यजन् यदैव सम्यग्दर्शनमुत्पादयति तदैव तन्माहात्म्यात् सम्यग्ज्ञानरूपे मतिश्रुते युगपत्समुत्पद्येते, यदि च मतिज्ञानभावेऽपि श्रुतज्ञानं नाभ्युपगम्येत तदा- “जत्थ आभिणिबोहियनाणं तत्थ सुअनाणं, जत्थ सुअनाणं तत्थ आभिणिबोहियनाणं, दोवि एयाइं अण्णमणअणमणुगयाइं” इति नन्दीसूत्रोक्तविरोधस्स्यात्, तत्र तयोर्नियतसाहचर्यभावस्यैव प्रतिपादनादिति चेत्, नैष दोषः, यतः सम्यक्त्वोत्पत्तिकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्येते, न तूपयोगम्, उपयोगस्य तथा जीवस्याभाव्यतः क्रमेणैव सम्भवात् । उक्तञ्च- “इह लद्धिमइसुयाई समकालाई न तूवओगो सिं" इति। अत्र तु तातपादश्रीगुरुभगवच्चरणकमलनिरन्तरोपासनैकतत्परस्य निस्सीमानुपकृतकृपाभरव्याप्ताऽन्तःकरणश्रीगुरुमुखाच्छास्त्रमधीत्य शाब्दप्रमाविशेषरूपं यदागमातिगहनार्थज्ञानं जायते तस्यैव लब्धिकार्यरूपस्य विवक्षणात्, तस्य च विशिष्टश्रुतज्ञानस्य निसर्गसम्यग्दर्शनकालेऽभावान्नोक्तदोषः, एतच्च प्रागेव भावितम् । एतदभिप्रायेण द्रव्यलोकप्रकाशेऽपि- “प्राप्तं निसर्गसम्यक्त्वं येन स्यात्तस्य केवलम् । मतिज्ञानमनवाप्त, -श्रुतस्यापि शरीरिणः ।।६१ ।। अत एव मतिर्यत्र, श्रुतं तत्र न निश्चितम् । श्रुतं यत्र मितज्ञानं, तत्र निश्चितमेव हि ।।६२ ।।" इत्युक्तं सङ्गच्छते इत्याशयेनाह- येन निसर्गसम्यग्दर्शनं प्राप्तमद्यापि सामायिकश्रुतं
नाधीतमित्यादि। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.२८१-२८२) (पृ.२५३} 32B. उक्तञ्च चूर्णावपि- “तेसुऽवि य मइपुव्वयं सुयंति किच्चा पुव्वं मइनाणं कयं, तस्स पिट्ठओ सुयं”
इति। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.२८३) {पृ.२५३} 33. सव्वस्स केवल्लिस्सा(स्स) जुगवं दो नत्थि उवओगा इति । अत्र “नाणम्मि दंसणम्मि य, एत्तो
एगयरम्मि उवउत्तो” इति पूर्वार्द्ध ज्ञेयम् । मतत्रयनययोजनेति- अत्र क्रमोपयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानां युगपदुपयोगद्वयवादिनां च तातपादश्रीमल्लवादिप्रभृतीनां यदेव केवलज्ञानं तदेव केवलदर्शनमित्यभेदवादिनाञ्च महावादि पूज्य श्रीसिद्धसेनदिवाकराणां केवलज्ञानकेवलदर्शने एकात्मनि युगपदुत्पद्येते न वा, केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनोत्पत्तिक्षणोत्पत्तिकं न वेत्यर्थपर्यसायिनी प्रथमा विप्रतिपत्तिः, केवलज्ञानके वलदर्शने क्रमेणैकात्मनि समुत्पद्यते न वा, केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनोत्पत्तिक्षणाव्यवहितपूर्वक्षणोत्पत्तिकं न वेत्यनुगतार्था च द्वितीया, इत्याद्याः साधारण्यो विप्रतिपत्तयः। आधविप्रतिपत्तौ विधिपक्षः पूज्यपादश्रीमल्लवादिसिद्धसेनदिवाकराणां, तत्रापि केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनसमानकालीनमपि केवलदर्शनाद्भिन्नमेवेति तातपादश्रीमल्लवादिनः, वादिमुख्यश्रीसिद्धसेनदिवाकरास्तु केवलदर्शनादभिन्नमेवेति प्राहुः, निषेधपक्षो भगवच्छ्रीजिनभद्रगणिक्षमाश्रमणानामिति । द्वितीयविप्रतिपत्तौ चोक्तवैपरीत्येन विध्यंशे निषेधांशे च ज्ञेयम् । तत्र विश्वविश्वााचार्यश्रीजिनभद्रगणिक्षमास्रमणानामेवं मतम- “केवली णं भंते ! इमं रयणप्पभं पुढवीं