________________
तुलनात्मकटीप्पणी
परिशिष्ट-५
आगारेहिं हेतूहिं उवमाहिं दिट्ठतेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समयं जाणति तं समयं पासइ जं समयं पासइ तं समयं जाणइ ? गोयमा ! नो इणट्ठे समट्ठे से केणट्ठेणं भंते ! एवच्चति केवली णं इमं रयणप्पभं पुढवीं आगारेहिं जं समयं जाणति नो तं समयं पासति जं समयं पासइ नो तं समयं जाणइ ? गोयमा ! सागारे से नाणे भवति अणागारे से दंसणे भवति, से तेणट्ठेणं जाव णो तं समयं जाणति एवं जाव अहे सत्तमे " इति प्रज्ञापनात्रिंशत्तमपश्यताख्यपदगतसूत्रपाठदर्शनात् केवलिभगवतामेकास्मिन् समये केवलज्ञानकेवलदर्शनान्यतरोपयोग एव, न तु युगत्केवलज्ञानोपयोगकेवलदर्शनोपयोगद्वयम् । (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरणपृ.२८८-२८९) (पृ.२६६ }
34. उस्सग्गओ नेव सुतं पमाणं च वाऽपमाणं कुसला वयंति। अंधो य पंगुं वहते स चावि, कहेति दोह पि हिताय पंथं । । ३६३० ।। ' उत्सर्गतः ' सामान्येन 'श्रुतं' सूत्रं नैव प्रमाणं न वा अप्रमाणम्, किन्तु पूर्वापराविरुद्धवृद्धसम्प्रदायागतेनार्थेन युक्तं प्रमाणम्, अन्यथा पुनरप्रमाणम्, क इत्येवं 'कुशलाः' तीर्थकरगणधरा वदन्ति। तथाहि- यथा किल कश्चिदन्धो देशान्तरं गन्तुमनाः स्वयं मार्गपश्यन् पङ्गं गन्तुमशक्तं चक्षुष्मत्तया स्कन्धे विन्यस्य वहति, ' स चापि' पङ्गुः 'द्वयोरपि' आत्मनस्तस्य च ' हिताय' गर्त्ताप्रपाताद्युपद्रवरक्षणाय ‘पन्थानं' मार्गं कथयति । एवमर्थेनाप्रबोधितं सद् अन्धस्थानीयं सूत्रम्, तद् यदा पगुस्थानीयमर्थमात्मन उपरिकृतं वहति तदा सोऽप्यर्थः सूत्रनिश्रया गच्छन् सम्यग्विषयविभागदर्शितया निष्प्रत्यपायं मुक्तिमार्गमुपदिशतीति, अतोऽर्थसव्यपेक्षमेव सूत्रं प्रमाणमिति स्थितम् ।। बृहत्कल्पभाष्य३६३० ।। {पृ.२६८} 35. मतत्रयनययोजना चास्मत्कृतज्ञानबिन्दोः ।
नन्वर्हच्छास्त्रग्रन्थिस्थाननगभेदिवज्रोपममतिवैभवमहनीयमहत्तमाचार्यत्रयसत्कपक्षत्रयान्यतमस्यैकस्यैव पक्षस्य
२९
वस्तुगत्या प्रामाणिकत्वेन तद्भिन्नपक्षद्वयस्यार्हच्छास्त्रबाधितत्वात्तत्तत्पक्षाभ्युपगन्तृणामर्हच्छास्त्राविपरीतश्रद्धाशालित्वान्मिथ्यात्वप्रसङ्गः इति न चात्र शास्त्रतत्त्वज्ञैराशङ्कनीयम्, प्रत्यात्मप्रदेशानुस्यूताविच्छिन्नार्हच्छासनानुरागशुभोपायवतामविच्छिन्नगुरुपरम्पराऽऽयातसूत्रतात्पर्यमपक्षपातेनं तन्वतां विदुषां मिथ्याभिनिवेशाऽभावात्। तथाहि - स्वाग्रहाऽग्रहिलस्वान्तास्त्रयोऽपि सूरयः स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसन्धायाऽपि पक्षपातेन न प्रतिपन्नवतन्तः किन्त्वविच्छिन्नस्वस्वगुरुपरम्पराऽऽयातभिन्नाभिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वे प्रतिसन्धायेति न ते मिथ्याभिनिवेशिनः, वीतरागप्रभुप्रणीतशास्त्रतात्पर्यवाधप्रतिसन्धानपूर्वकाऽन्यथा श्रद्धानाऽभावात्, किञ्चानेकनयसमूहात्मके भगवत्प्रवचने- “नत्थि नएहिं विहूणं सुत्तं अत्थो अ जिणमए किंचि” इति सिद्धान्तवचनादनेन नयेनेदं सूत्रं प्रवृत्तम्, अनेन नयेन चेदमिति सम्भविततत्तन्नयसमालोचनां विनां नैव तत्सूत्राणि याथार्थ्येन ज्ञायन्ते इत्यत्र स्वस्वगुरुसम्प्रदायाऽविच्छिन्नतत्तन्नयगर्भवाचनाप्रवाहाऽऽयातास्त्रयोऽपि सूरिपक्षाः प्रमाणकोटिप्रविष्टाः । अत एव “ प्रावचनिकानां जिनभद्रसिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरमिति न केषामपि प्रावचनिकत्वक्षतिः, तत्त्नायाभिप्रायेण प्रवृत्तत्वात्” इति नयोपदेशवृत्तौ व्याख्यातमिति तेषां सूरीणां