________________
॥अष्टमः पाठः॥
संहतिः कार्यसाधिका। पुरा किल मासीदेको वृद्धः। मृत्युकालेपि तस्य प्राणा न गच्छन्ति । तदा तस्य पुत्रास्तमकथयन् । रेतात, तव का इच्छा
-
अद्याप्यपरिपूर्णा येन तब प्राणाः सुखेन न प्रयान्ति । इति । तदा वृद्धेनोक्तम् । अस्त्येक उपदेशो यमदत्त्वा न परलोकं गन्तुं मया शक्यम् । तदा पुत्रा अवदन् । कः स उपदेशः। इति। तदा वृद्धोऽवदत् । आनयतैकं यष्टिभारम् । इति। ते पुत्रा सत्वरं तथा कृत. धन्तः । मनन्तरं तेन वृद्धेन कथितम् । रे पुत्राः युष्माकमेकैको यष्टिमारमेतं भक्तुं प्रयतताम् । इति । सर्वैस्तदा तथा प्रयतितम् । परन्तु नैकोपि तं भक्तुं समथाऽभवत् । ततो वृद्धोऽवदत् । मधुना यष्टीरिमाः पृथक्कृत्य एकैकां तां भङ्गतुं प्रयतध्वम् । इति । एवं कृते तु सर्वास्ता अल्पेनवायासेन भताः । ततो वृद्धेनोक्तम् । रे पुत्राः, मनेन दृष्टान्तेन शायताम् 'असंहता नश्यन्ति संहताश्च न नश्यन्तीति । इति । पुत्रैः सादरं स्वीकृते तदुपदेशे स वृद्धः सुखेन प्राणानत्यजत् ॥