________________
ભાના પ્રકરણ ભાગ- ૨
૨૧૩
महानदीनामुभयतटवर्तिनीं मृत्तिकां जलानि च गृह्णन्ति, गङ्गासिंधुरक्तारक्तवतीसरिन्मृत्तिकाजलग्रहणानन्तरं च शाकहिमवच्छिखरिपर्वतप्रमुखेषु कुलगिरीन्द्रषु गत्वा सर्वाणि माल्यानि-कुसुमानि सर्वान् गन्धद्रव्यविशेषरूपान् पन्धान सिद्धार्थान्-सर्षपान् तथा सर्वा औषधीः-सुगन्धिम' हलयाग्रन्थिपर्णकादिरूपाः तथा सर्वाण्यपि तुवराणिमीरस्निग्धत्वापनोदाय सुगन्धिकषायद्रव्याणि गृह्णन्ति इत्युत्तरगाथायां सम्बन्धः, एवं चतुषु वृत्तवैताट्यशैलशिखरेष्वपि गत्वा तुवरादीनि गृह्णन्ति, तथा महाविदेहपंचकविजयेषु यानि मागधादितीर्थानि तेषु सलिलं मृत्तिकां च गृह्णन्ति, तथा विजयान्तरवर्तिनदीनां सलिलमुपनयन्ति ततो वक्षस्कारगिरिषु भद्रशालवने च तुवरादीनि गृह्णन्ति, ततो नन्दनवनसौमनसपण्डकवनेषु क्रमेण तुवरादीनि सरसं गोशीर्ष श्रीखण्डं च गृह्णन्ति, सौमनसे विशेषतः सरससुरभिकुसुमदामग्रहणं कुर्वन्ति, पण्डकवने तु सुरभिगन्धान्वितानि गन्धद्रव्याणि गृहीत्वा तुवरादिभिः सह मिश्रयन्तीति सूत्रसंक्षेपार्थः । इह च सूचकत्वात् सूत्रस्यायमभिषेकाहजलादिवस्तुक्रमो दृष्टः, तद्यथास्वभाविकवैक्रियमणिरत्नसुवर्णादिमयकलश,गारान् गृहीत्वा आभियोगिकदेवाः क्षीरोदधौ गत्वा जलं पद्मजातिविशेषांश्च सर्वान् गृह्णन्ति, एवं पुष्करोदसमुद्रेऽपि, ततः समयक्षेत्रे भरतैरवतेषु गत्वा मागधादितीर्थजलानि मृत्तिकां च गृहन्ति, ततो गंगासिन्धुरक्तारक्तवतीसरितामुभयतटमृत्तिकां सलिलं च गृह्णन्ति, ततो हिमवच्छिखरिपर्वतेषु सर्वाण्यपि स्वरद्रव्याणि गन्धद्रव्याणि माल्यानि सर्वोषधीः सिद्धार्थांश्च गृह्णन्ति, ततः पद्महूदपौण्डरीकहदेषु जलानि पद्मजातिविशेषान् च गृहन्ति, ततो हैमवतैरण्यवतेषु रोहितारोहितांशासुवर्णकूलारूप्यकूलासरितां जलानि मृत्तिकां च गृह्णन्ति, ततः शब्दापातिनि माल्यवति, वृत्तवैताढ्ये तुवरादिनी, ततो महाहिमवद्रुक्मिपर्वतेषु अपि तुवरादीनि, ततो महापामहापौण्डरीकहूदेषु पद्मजातिसहितादीनि जलानि, ततो हरिवर्षरम्यकेषु हरिद्धरिकान्तानरकान्तानारीकान्तानदीनां सलिलं मृत्तिकां च, ततो विकटापातिनि गंधापातिनि च वृत्तवैताठ्ये तुवरादीनि, ततो निषधनीलवत्पर्वतेषु बरादीनि, ततस्तिगिच्छिकेशरिहूदेषु पद्माजात्यन्वितजलानि, पूर्वविदेहापरविदेहेषु तुवरादीनि, ततस्तिगिच्छिकेशरिहूदेषु पचजात्यन्वितजलानि, पूर्वविदेहापरविदेहेषु शीताशीतोदामहानदीनां सलिलं मृत्तिकां च, ततो विजयाश्रितमागधादितीर्थानामन्तरसरितां च जलं मृत्तिकां च, ततः सर्ववक्षस्कारपर्वतेषु मेरौ च भद्रशालवने तुवरादीनि, नन्दनवने तुवरादीनि सरसगोशीर्ष श्री खण्डं च, सौमनसवने तु तुवरादीनि गोशीर्ष श्रीखण्डं दिव्यं कुसुमदाम च, पण्डकवनेऽप्येतदेव गृह्णन्ति, तथा अतीव सुरभिगन्धद्रव्याणि गृहीत्वा तुवरादिभिः सह मिश्रयंति, तीर्थकरजन्माभिषेक ऽप्ययमेवाअभिषेकार्हजलादिवस्तु ग्रहण क्रमो द्रष्टव्यः । तत एतत् सर्वं गृहीत्वा किं कुर्वन्ति ? इत्याह ३१८ - ટીકાર્થ : ગાથાઓ પાઠ સિદ્ધ છે પરંતુ અઢી દ્વીપમાં પાંચ ભરત અને પાંચ ઐરવતમાં જઈને માગધવરદામ-પ્રભાસ તીર્થોના પાણી અને માટીને ગ્રહણ કરે છે. પછી પાંચ ભરતમાં ગંગા સિંધુ નદીઓના આદિ શબ્દથી પાંચ ઐરવતમાં રક્તા અને રક્તાવતી નદીઓના તથા બીજી સર્વ હૈમવત અને હૈરણ્યવત આદિ ક્ષેત્રમાં આવેલી રોહિતાશા-સુવર્ણ અને રુપ્યફૂલા વગેરે મહાનદીઓના બંને કાંઠે રહેલી માટીઓને અને પાણીને ગ્રહણ કરે છે અને ગંગા સિંધુ-રક્તા અને રક્તાવતી નદીના માટી અને જળ ગ્રહણ કર્યા પછી લઘુ હિમવત અને શિખરી પર્વતો વગેરે કુલપર્વતો પર જઈને સર્વમાલ્ય અને કુસુમોને (ગંધદ્રવ્ય વિશેષોને) તથા સર્ષપોને તથા સુગંધી મોટી લતા, ગાંઠ, પાંદડાં આદિ સર્વ ઔષધીઓને તથા સર્વ પણ તુવરોને (શરીરનું નિધત્વ દૂર કરવા માટે સુગંધી કષાય દ્રવ્ય) ગ્રહણ કરે છે એમ પછીની ગાથા સાથે ક્રિયાપદનો સંબંધ છે.
એ પ્રમાણે ચાર કે પાંચ વૃત્ત વૈતાઢ્ય પર્વતના શિખરો ઉપર જઈને તુવરાદિને ગ્રહણ કરે છે તથા પાંચ
१. हलकय-वा० ।।