________________
૧૫૦
ભવ ભાવના પ્રકરણ ભાગ-૨
शेषास्तु स्वल्पं जीवित्वा तत एव म्रियन्ते । तथा उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते । एतदुक्तं भवतिकस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्त्तमध्ये उत्कृष्टो नवभिः पुरुषशतैः सह संगो भवति तदा तद्बीजे यः पुत्रो जायते स नवानां पितृशतानां पुत्रो भवति ।। गर्भादपि केचिज्जीवा नरकं गच्छन्ति, केचित् पुनर्देवलोकमिति दर्शयति-गतार्था, नवरं पूर्वभविकक्रियलब्धिसम्पन्नः कोऽपि राजपत्न्यादिगर्भे समुत्पन्नः प्रौढतां च प्राप्तः परचक्रमागतं श्रुत्वा गर्भ एव व्यवस्थितो बहिर्जीवप्रदेशान्निष्कास्य वैक्रियकरितुरगरथपदातीन विधाय संग्रामं कृत्वा रौद्राध्यवसायसम्पन्नो गर्भादपि मृत्वा नरकं याति । कश्चित् पुनर्मातुर्मुनिसमीपे धर्मश्रवणं कुर्वत्याः तद्गर्भे स्थितो धर्मं श्रुत्वा शुभाध्यवसायसम्पन्न एव मृत्वा देवलोकं गच्छतीति ।। नन्वेकस्याः स्त्रिया गर्भ उत्कृष्टतो ये नव लक्षा जीवानामुत्पद्यते तेषु कियन्तो निष्पद्यन्ते कियन्तश्च तत्रैव म्रियन्त इत्याह-व्याख्यातार्थव ।। कथं पुनर्गर्भे जीवस्तिष्ठतीत्याहप्रकटार्थाः । कियहुःखं पुनर्गर्भ भवतीत्याह-वृद्धपुरुषस्याग्निवर्णतप्तायः सूचिभिनिरन्तरं भिद्यमानस्य यादृशं दुःखमुत्पद्यते तस्मात् गर्भस्थितजीवस्याष्टगुणं भवति, व्यवहारदेशना चेयं, निश्चयतस्तु ततोऽधिकमूनं वा भवतीति ।। गर्भदुःखान्येवाधिकृत्यात्मानुशास्तिमाह [इत : प्राक् "गब्भाओ नीहरंतस्स, जोणिजंतनिपीलणए । सयसाहस्सियं दुक्खं, कोडाकोडिगुणंपि वा ।।१।।" इत्याधिका गाथा क्वचित मूले सुखावसेया ।। एवं दुःखित कियन्तं कालं गर्भ वसति ? इत्याह-इत्येवं दुःखितः कोऽपि पापकारी जीवो वातपित्तादिदूषिते देवादिस्तंभिते वा गर्भ द्वादश संवत्सराणि निरन्तरं तिष्ठति । कथंभते गर्भ? इत्याह-शक्रशोणितादिभ्योऽशचिद्रव्येभ्यः प्रभव:उत्पतिर्यस्य स तथा तस्मिन्निति । अशुचिस्वरूपे च शुक्रशोणिताशुचिमूत्रजंबालाविले इत्यर्थः । भवस्थितिश्चैषा, कायस्थितिं त्वाश्रित्य कोऽपि द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशादत्रैव गर्भस्थितकलेवरे समुत्पद्य पुनर्वादश वर्षाणि जीवतीत्येवं चतुर्विंशतिं वर्षाण्युत्कृष्टतो गर्भे जन्तुस्तिष्ठति । एतत्तु सूत्रगाथायामनुक्तमपि स्वयमपि द्रष्टव्यमिति । गर्भाश्च योनिमुखेन निर्गमस्य सम्यक्स्वरूपस्य इतरस्य च स्वरूपमाह - ततो गर्भाद्योनिमुखेन पादाभ्यां शीर्षण वा तस्य-गर्भजीवस्य सम्यग् निर्गमो भवति । अथ कथमपि तिर्यगव्यस्थितो निर्गच्छति तदा जननी गर्भश्च द्वावपि विनिपातं-विनाशं प्राप्नुतः ।। अथ गर्भदुःखानां भवनिर्वेदहेतुतां दिदर्शयिषुरुदाहरणमाह-अक्षरार्थः प्रकट एव । भावार्थस्तु कथानकेनोच्यते, तछेदम् -
अर्थ : मनुष्यो २ना छ - (१) भभूमिमा उत्पन्न थये। मने (२) मभूमिमा उत्पन्न થયેલા. કર્મભૂમિમાં ઉત્પન્ન થયેલા પાંચ ભરત, પાંચ ઐરવત, અને પાંચ મહાવિદેહના ભેદથી પંદર પ્રકારના છે. ફરી પણ આર્ય અને અનાર્યના ભેદથી બે પ્રકારના જાણવા. અકર્મભૂમિમાં ઉત્પન્ન થયેલા મનુષ્ય પાંચ હૈમવત, પાંચ હરિવર્ષ, પાંચ રમ્યફ, પાંચ હરણ્યવતું, પાંચ દેવકુરુ અને પાંચ ઉત્તરકુરુના ભેદથી ત્રીસ પ્રકારના છે. અંતરદ્વીપના મનુષ્યોના છપ્પન ભેદો છે. એ પ્રમાણે સંમૂર્છાિમ ગર્ભજ પર્યાપ્ત અને અપર્યાપ્ત વગેરે શાસ્ત્રોમાં કહેવાયેલા ભેદો પણ જાણવા. એ પ્રમાણે મનુષ્યોના અનેકભેદો થાય છે. તેઓને પણ જો પરમાર્થથી કંઈપણ સુખ હોય તો સમ્યફ સ્વરૂપથી વિચાર કર. કયા વિષયમાં આના સ્વરૂપની વિચારણા કરવી ? ચર્મચક્ષુથી દેખાતા મનુષ્યના સ્વરૂપની વિચારણા પ્રસિદ્ધ છે. ગર્ભાવસ્થાની વિચારણા ગ્રંથકાર સ્વયં વિસ્તારથી કરે છે.
'मोहे त्यादि मोड मेले मोउनीय भ भने ते ४ २० अर्थात मोड ३५ २00-मो8२४1. मातो. 6५८१ए। છે અર્થાત્ વાર્થ છે પણ આનાથી લક્ષ્યાર્થ નામાદિકર્મોનું ગ્રહણ કરવું. તે મોહરાજાવડે નિબિડ બંધાયેલો અર્થાત્ રાગદ્વેષ રૂપી ચીકાશપૂર્વકના મનુષ્યગતિ, મનુષ્યાનુપૂર્વી વગેરે બંધનોથી બંધાયેલા જીવ નરક તિર્યંચાદિ કોઈપણ ગતિમાંથી ખેંચાઈને પરવશ કારાગૃહમાં ચોરની જેમ અશુચિ સ્વરૂપ ગર્ભમાં નંખાય છે.