SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भावना प्र२श भाग - २ ૪૯ અગ્નિથી તપીને લાલચોળ થયેલી સોય શરીરમાં ભોંકવામાં આવે તેનાથી આઠગણી વેદના ગર્ભમાં थाय छे. (२७८) પિત્ત-ચરબી-માંસ-લોહી-શુક્ર-હાડકાં અને મળ-મૂત્રની અશુચિમાં કૃમિની જેમ હે જીવ ! તું નરક સમાન ગર્ભમાં વસ્યો છે અથવા ગર્ભમાંથી નીકળતો યોનિરૂપી યંત્રના કોલુમા* લાખ કે કોટાકોટિ सुं दु:ख अनुभवे छे. (२७८) અહીં પાપ કરનારો કોઈ જીવ અશુચિથી ઉત્પન્ન થયેલ અશુચિવાળા ગર્ભમાં ઉત્કૃષ્ટથી બાર" વરસ સુધી ૨હે છે. પછી જન્મ થતી વખતે બે પગ કે માથાથી નીકળે તો ઉચિત છે જો આડો નીકળે तो भरा पाये छे. (२७०-२७१) ગર્ભના દુઃખોને જોઈને જાતિસ્મરણથી જણાયો છે દેવ ભવ જેના વડે એવા શ્રી તિલક વણિકનો ગર્ભમાં રહેલો પુત્ર અભિગ્રહને લે છે. (૨૭૨) मनुष्या द्विविधाः - कर्मभूमिजा अकर्मभूमिजाश्च । कर्मभूमिजा भरतपंचकैरवतपंचकमहाविदेहपंचकभेदात् पंचदशविधाः, पुनर प्यार्यानार्यादिभेदतो द्विविधादिका द्रष्टव्याः । अकर्मभूमिजा अपि हैमवतपंचकहरिवर्षपंचकरम्यकपंचक हैरण्यवतपंचकदेवकुरूत्तरकुरूपंचकभेदात् त्रिंशद्विधाः, षट्पंचाशदन्तरनाच । एवं संमूर्च्छजगर्भजपर्याप्तापर्याप्तादयोऽपि समयोक्ता भेदा द्रष्टव्याः, इत्येवं तावदनेकविधा मनुष्या भवन्ति तेषामपि चिंतय सम्यक् स्वरूपं यदि परमार्थतः किमपि सौख्यमस्तीति ।। क्व विषये पुनरमीषां स्वरूपं चिन्तनीयमित्याह - पाठसिद्धा ।। तत्र गर्भावस्थास्वरूपं विस्तरतः स्वयमेवाह-'मोहे' त्यादि, मोहो-मोहनीयं कर्म्म स एव नृपो - राजा मोहनृपः, उपलक्षणं चैतन्नामादिकर्मणः तेन मोहनृपेण निबिडं यथा भवत्येवं रागद्वेषस्नेहमनुष्यगतिमनुष्यानुपूर्व्यादिबन्धनैर्बद्धो नियंत्रितः, कुतोऽपि नरकतिर्यगादिगतिभ्यः समाकृष्यानात्मवशश्चौर इव चारकगृहेऽशुचिस्वरूपे गर्भे क्षिप्यते जीव इति ।। गर्भोत्पन्नः किमाहारयतीत्याह - 'सुक्के'त्यादि, तच तदुभयं च तदुभयं-शुक्रशोणितलक्षणं संसृष्टं मिलितं तत्र गर्भे उत्पन्नो जन्तुरभ्यवहरति । कयेत्याह तच तत् प्रथमं च तत्प्रथमं तद्भावस्तत्ता तया तत्प्रथमतया, प्रथममुत्पन्न इत्यर्थः ।। ततः केन क्रमेण शरीरं निष्पद्यत इत्याह- 'सत्ते' त्यादि, सप्ताहोरात्राणि यावत् कललं शुक्रशोणितसमुदायमात्रं भवति । ततः सप्ताहोरात्राण्यर्बुदं भवति, ते एव शुक्रशोणिते किंचित्स्त्यानीभूतत्वं प्रतिपद्येते इत्यर्थः । ततोऽपि चार्बुदात् पेसी-मांसपिण्डिकारूपा भवति, तस्याश्चानन्तरं घनं समचतुरस्त्रं मांसखण्डं भवति । इह च तत् शुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे मगधादेशप्रसिद्धं पलं कर्षोनं भवति, त्रयः कर्षा भवन्तीत्यर्थः । द्वितीये मासे मांसपेसी घना घनस्वरूपा भवति, समचतुरस्त्रं मांसख़ण्डं जायत इत्यर्थः । तृतीये तु मासे मातुः दोहदं जनयति । शेषं सुगमं, यावन्नवनवतिलक्षाणि रोमकूपानां भवन्ति श्मश्रुकेशैर्विना, तैस्तु सह सार्द्धास्तिस्त्रः कोट्यो रोमकूपानां जायन्ते । अष्टमे तु मासे शरीरमाश्रित्य निष्पन्नप्रायो जीवो भवति । शुक्रशोणितसमुदाय ओज उच्यते, तस्योजस आहारः ओज आहारः, आदिशब्दाल्लोमाहारादिपरिग्रहः, तैः सर्वैरप्याहारैः समग्रमपि शरीरं करोति । गर्भगतश्च जीवः सार्द्धसप्तसप्तत्यधिके वे अहोरात्रशते वसति, सार्द्धसप्तदिनाधिकान्नव मासान् यावद् वसतीत्यर्थः ।। कियन्तः पुनर्जीवाः एकस्याः स्त्रिया गर्भे जघन्यतः एको द्वौ त्रयो वा उत्कृष्टतस्तु नव लक्षाणि जीवानामुत्पद्यन्ते, निष्पत्तिं प्राय एको द्वौ वा गच्छतः, * કોલુ એટલે શેરડીના રસ કાઢવાનો સંચો, અર્થાત્ ચિંચોડો. ** કોઈ જીવના પાપોદયથી ગર્ભમાં રહેલું શરીર વાત-કફાદિ દોષથી દૂષિત હોય તો તે વધારેમાં વધારે ૧૨ વર્ષ ગર્ભમા રહે અથવા દેવ વડે ગર્ભ સ્થંભિત કરાયું હોય તો વધારેમાં વધારે ૧૨વર્ષ ગર્ભમાં રહે. [જુઓ પાનું ૧૫૨]
SR No.005722
Book TitleBhavbhavna Prakaran Part 02
Original Sutra AuthorN/A
AuthorSumtishekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy