________________
આ પ્રમાણે બાકીના પદાર્થોની પણ અનિત્યતાને કહે છે. बलरूवरिद्धिजोव्वणपहुत्तणं सुभगया अरोयत्तं । इटेहिँ य संजोगो असासयं जीवियव्वं च ॥ २४ ॥ बलरूपऋद्धियौवनप्रभुत्वं सुभगताऽरोगत्वम् । इष्टैश्च संयोगोऽशाश्वतं जीवितव्यं च ॥ २४ ॥ __ भूगाथार्थ: ५५-३५-r-योवन-प्रभुत्व-सुमाता-मारोय-5ष्टनी सानो સંયોગ અને જીવિતવ્ય સર્વ અનિત્ય છે. ૨૪ 'उत्तानार्थव ॥ तदेवं व्यापकेऽनित्यत्वे स्थिते यत् कृत्यं तदुपसंहारपूर्वकमुपदर्शयन्नाह
તેથી આ પ્રમાણે અનિયત્વ સર્વત્ર છે એમ સિદ્ધ થયે છતે જે કરવા જેવું છે તેને ઉપસંહાર કરવાપૂર્વક બતાવતા કહે છે - इय जं जं संसारे रमणिज्जं जाणिऊण तमणिच्चं । निच्चम्मि उज्जमेसु धम्मेच्चिय बलिनरिंदोव्व ॥ २५॥ इति यद् यद् संसारे रमणीयं ज्ञायते तदनित्यम् । नित्ये उद्यच्छेः धर्मे चैव बलिनरेन्द्र इव ॥ २५॥ મૂળ ગાથાર્થ આ પ્રમાણે સંસારમાં જે જે રમણીય છે કે તે અનિત્ય છે એમ જાણીને બલરાજાની જેમ નિત્ય એવા ધર્મમાં જ ઉદ્યમ કરો. ૨૫ इति उक्तप्रकारेण यद् यद् बलरूपसमृद्धियौवनयुवतिप्रभुत्वादिकं संसारे रमणीयं वस्त्ववलोक्यते तत्तत् सर्वमनित्यं ज्ञात्वा नित्यस्वरूपे धर्म एव बलिनरेन्द्रवत् सदैवोद्यच्छेः - उद्यमं कुर्याः त्वं, नान्यत्र ॥ अत्राहननु पुण्यप्रकृतिप्रतानरूपो धर्म उच्यते, ततस्तस्यापि स्वस्थितिक्षयेण पापव्यापारपूरप्रतिहत्याकाण्ड एव प्रतिपातसम्भवेन वाऽनित्यताघ्रातत्वात् कथं नित्यत्वम् ?, अपरं च--यदि राज्यरमणीयरूपयौवनग्रामनगरसमृद्धयाद्यभीष्टवस्तुसम्प्रयोगाणामनित्यता तर्हि धर्माचरणे किमायातं ?, न हि तेनापि विधीयमानेन शरीरसमृद्धयादीनां असौ समापतन्ती निवारयितुं पार्यते, श्रूयते यत्कृष्टधर्मकर्तृणां बहूनामपि सनत्कुमारादीनां शरीरादिविनाशः, तत् किमर्थक्षयदेहक्लेशविधायिना एतद्विधानेनेति?, अत्रोच्यते यत्तावदुक्तं धर्मोऽप्यनित्य इति, तत्र सिद्धसाध्यता, एकान्तनित्यत्वस्य जैनानां नित्यव्योमादिष्वप्यसिद्धेः, तर्हि "निच्चम्मि उज्जमेजसु धम्मे च्चिय" इत्येतदसंबद्धमिति चेन्न, अभिप्रायापरिज्ञानात्, धर्मो हि सुदेवत्वसुमानुषत्वाद्यवाप्तिक्रमेण परम्परया मोक्षलक्षणं नित्यं कार्यमुपकल्पयतीत्यसौ नित्योऽत्र विवक्षितः, कार्यगतधर्मस्य कारणेऽप्युपचारात्, मोक्षेऽपि जैनानामेकान्तनित्यत्वमसिद्ध, कथंचिन्नित्यता तु तरुभवनधनादिष्वप्यस्तीति न किंचिदनित्यं स्यादिति चेत्, नैवं अर्पितानर्पितसिद्धेः, यत्र हि यः पर्यायः कुतोऽपि कारणादप्ति उत्कटो विवक्ष्यते तत्र तेनैव व्यपदेशः प्रवर्त्तते, नेतरेण, मोक्षे चानन्त. सुखात्मकत्वानन्तज्ञानदर्शनमयत्वसिद्धत्वादिलक्षणो नित्यपर्याय एवोत्कटो विवक्षितोऽतस्तेनैव व्यपदेशो, मोक्षसाधकानुष्ठाने मुमुक्षुप्रवृत्त्यभावप्रसङ्गाद, अतो न तेनेह व्यपदेशः, यदि हि मोक्षोऽप्यनित्य इति कथ्यत तदा तत्राप्यानाश्वासात् तत्साधक कष्टानुष्ठानेषु मुमुक्षवो न प्रवर्तेरन, तस्मात् मोक्षलक्षणनित्यकार्यसाधकत्वान्नित्यो धर्मः । यदप्युक्तं 'न हि तेनापि विधीयमानेन शरीरे' त्यादि, तदप्ययुक्तं, नहि वयं ब्रमो यदुत कृतमात्र एव धर्मः शरीरसमृद्ध्यादीनां विनाशं सद्य एव निरुणद्धि, किं तर्हि ?, क्रमेण यथा हि सद्भेषजमुपयुज्यमानं क्रमशो व्याधिप्रबन्धानुच्छेदयति एवं धर्मोऽपि जातिजरामरणाद्युपद्रवानिति, सद्भेषजं क्वचित् सद्य एव रोगनिवृत्तिं कुर्वदुपलभ्यते इति चेत्तदेतद्धर्मे ऽपि समानं,
194