________________
गाथ!:१८२....
अध्यात्ममतपरीक्षा........... * 'दव्वे अभावे अ' - मही सभी विमति पंथभी विमस्तिना अर्थमन छे.
.....४५
Ast:- यः खलु गच्छे वसन्नुपचरिताऽसद्भूतव्यवहाराद् द्रव्यतोऽनेकः स एव गुर्वाधुपदेशपरिकर्मितमतिप्रसूतैकत्वभावनापावनान्तःकरणतया भावतोऽप्येकाकित्वं भजते। अन्यस्तूच्छृङ्खलतया तद्विपरीतामेव भावनां भावयन् द्रव्यत एकाक्यपि भावतोऽनेक एव स्याद् । न खल्वगीतार्थस्य गुर्वादिपारतन्त्र्यं विना गुणलेशसम्भावनापि, प्रत्युत महाऽनर्थसम्पात एव, स्वच्छंदगतिमतिप्रचारेणेच्छाकारादिनियन्त्रितसामाचारीविप्लवात्, कार्याकार्यविवेकवैकल्यात् सदालम्बनसम्यग्दर्शनशुद्धिहेतुसूत्रार्थप्रश्नचोदनाद्यसम्भवात्, विनयवैयावृत्त्यादिजनितनिर्जराफलेन वञ्चनात्, मरणांते भक्तप्रत्याख्यानादिरूपाराधनाऽसम्भवात्, निर्भयतयैषणाद्युल्लङ्घनाद्, एकाकितया निरन्तरं साध्वसप्रतिपन्थिस्त्रीजनभयप्रसङ्गात्, गुर्वादिलज्जाधीनाऽकार्यचिकिर्षोपरमाऽसम्भवात्, मूर्छादिना विह्वलतया संयमविराधनाप्रसङ्गात्, शुभाशुभपरिणामानां झटिति परावर्त्तमानतया क्लिष्टाध्यवसायेऽनिवारितकदालम्बनग्रहणेन भ्रंशप्रसङ्गात् । भगवनिषिद्धैकाकित्वचरणेनाज्ञाविराधनात् । स्वायुक्तस्यापि साहाय्यविरहेणाचिरेण तपःसंयमभङ्गप्रसङ्गाच्च ॥ तदुक्तं - [ उप. माला १५६-१६१] १ इक्कस्स कओ धम्मो सच्छंदगइमइपयारस्स । किं वा करेउ इक्को परिहरउ कहमकज्जं वा ॥ २ कत्तो सुत्तत्थागमपडिपुच्छणचोयणा व एगस्स । विणओ वेयावच्चं आराहणया वि मरणंते ।। पिल्लिज्जेसणमिक्को पइन्नपमयाजणाउ निच्चभयं । काउमणोवि अकज्जं न तरइ काऊण बहु मज्झे ।। "उच्चारपासवणवंतपित्तमुच्छाइमोहिओ इक्को । सद्दवभाणविहत्थो णिक्खिविउं [णिक्खिवइ व] कुणइ उड्डाहं ।। 'एगदिवसेण बहुआ सुहा असुहा य जीवपरिणामा । इक्को असुहपरिणओ चइज्ज आलंबणं लद्धं ॥ सव्वजिणपडिकुटुं अणवत्था थेरकप्पभेओ य । इक्को सुआउत्तो वि हणइ तवसंजमं अइरा ॥ त्ति ।
..यस्तु गीतार्थः सोऽपि प्रायो गच्छे वसन् द्रव्यतोऽनेक एव भावत एकः, गच्छगतादिपदवृद्ध्यैव गुणवृद्ध्युपदेशात्, उक्तं च - गच्छगओ अणुओगी गुरुसेवी अणिययवासि आउत्तो । संजोएण पयाणं संजमआराहणा भणिया ॥ [उप. माला. ३८८] त्ति ।
Tooॐ3;
एकस्य कुतो धर्मः ? स्वच्छन्दगतिमतिप्रचारस्य । किं वा करोति एकः? परिहरतु कथमकार्य वा ? ॥१॥ कुत: सूत्रार्थागमः ? प्रतिप्रच्छनचोदना चैकस्य । विनयो वैयावृत्त्यमाराधनता या मरणान्ते ॥२॥ प्रेरयेदेषणामेकः प्रकीर्णप्रमदाजनतो नित्यभयम् । कर्तुमना अप्यकार्यं न तरति कर्तुं बहुमध्ये ॥३॥ उच्चारप्रश्रवणन्तिपित्तमूर्छादिमोहित एकः । सद्रवभाजनविहस्तः निक्षिपति वा करोत्युडाहम् ॥४॥ एकदिवसेन बहवः शुभाश्चाशुभाश्च जीवपरिणामाः । एकोऽशुभपरिणतस्त्यजेदालंबनं लब्ध्वा ।।५।। सर्वजिनप्रतिकुष्टमनवस्था स्थविरकल्पभेदश्च । एकश्च स्वायुक्तोऽपि हन्ति तपःसंयममचिरात् ॥६।। गच्छगतोऽनुयोगी गुरुसेवी अनियतवास्यायुक्तः । संयोगेन पदानां संयमाराधना भणिता ॥
६.