________________
४४६......
अध्यात्ममतपरीक्षा..............॥था : १८२ अपि च जातकल्पस्यापि पञ्चकादपि हीनतायामसमाप्तकल्पत्वाभिधानाद् । उक्तं च - “जाओ अ अजाओ अ दुविहकप्पो अ होइ णायव्वो । इक्किक्को वि य दुविहो समत्तकप्पो य असमत्तो । [पंचवस्तु १३२८] गीअत्थो जायकप्पो अगीओ पुण भवे अजाओ अ । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥ त्ति [पंचवस्तु १३२९]
यदात्वसौ स्वोचितं सहायं न लभते, तदा तदलाभे तदधीनगुणलाभविरहादनिपुणसहायप्रयुक्तस्य प्रत्युत दोषस्यैव सम्भवात् सङ्ग(पाप)परित्यागेन ज्ञानमहिम्ना कामेष्वसजनेकाक्यपि विहरेत, यदागम:१°ण या लभिज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा । इक्कोवि पावाइ विवज्जयंतो विहरेज्ज कामेसु असज्जमाणो ॥ त्ति [दशवै.द्वि.चू.१०]
एवं विहरतश्चास्यैव द्रव्यभावाभ्यामेकत्वं समुज्जीवति ।
नन्वत्र सूत्रे विशिष्यानभिधानात्कथं गीतार्थस्यैव शृङ्गग्राहिकयोपादानमिति चेत् ? पापविवजनकामासङ्गाभ्यामेकाकिविहरणानुज्ञानेनाक्षेपाद्गीतार्थस्यैवाधिकारित्वेन लाभात्, अगीतार्थस्य तदसम्भवात्। नागीतार्थो गीतार्थाऽपारतन्त्र्येण विहरन् पापं वर्जयितुं शक्तः, ज्ञानं विना सम्यक्स्वरूपाऽविवेकेन तद्वर्जनाऽसम्भवात् । उक्तंच-"१९अन्नाणी किं काही किंवा नाहीइ छेयपावगं।" ति ।अत एव न तस्य कामानभिष्वङ्गोऽपि सम्भवति, ज्ञानसाहाय्यविरहेण तद्दोषावारणात्, केवलागीतार्थविहारनिषेधाच्चास्य सूत्रस्य गीतार्थविषयत्वम् । उक्तं च - १२गीअत्थो अ विहारो, बीओ गीअत्थमीसओ भणिओ। एत्तो तइअ विहारो, नाणुनाओ जिणवरेहिं । ति [ओघनि. १२२] ___अपि चाऽगीतार्थस्य गुरुपारतन्त्र्येणैव ज्ञानसिद्धि, तस्य पारमार्थिकज्ञानाभावात् । एवं च तस्य स्वोचितसहायाऽलाभो नास्त्येवेति तमुल्लद्ध्यैकाकिविहारस्य निष्कारणत्वेन स्वच्छन्दविहारत्वप्रसङ्गः । तथा च गीतार्थ एवात्राधिकारीति व्यवस्थितम् । उक्तं च - १२ता गीयंमि इमं खलु तयन्नलाभंतरायविसयं ति । सुत्तं अवगंतव्वं निउणेहिं तंत जुत्तीहिं । ति [पंचाशक ५२७] ॥१८२॥
८. जातश्चाऽजातश्च द्विविधकल्पश्च भवति ज्ञातव्यः । एकैकोऽपि च द्विविधः समाप्तकल्पश्चासमाप्तः ॥
गीतार्थो जातकल्पोऽगीतः पुनर्भवेदजातश्च । पञ्चकं समाप्तकल्पस्तदूनको भवत्यसमाप्तः ॥ १०. न यदि लभेत निपुणं सहायं गुणाधिकं वा गुणतो समं वा । एकोऽपि पापानि विवर्जयन् विहरेत् कामेष्वसज्यमानः । ११. श्री दशवैका० ४-१०, अस्य पूर्वार्ध: - पढमं नाणं तओ दया एवं चिट्ठइ सव्वसंजए।
प्रथमं ज्ञानं ततो दयैवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकपापकम् ?| १२. गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः । अतस्तृतीयो विहारो नानुज्ञातश्च जिनवरैः ॥ १३. तस्माद् गीत इदं खलु तदन्यलाभान्तरायविषयमिति । सूत्रमवगन्तव्यं निपुणैस्तंत्रयुक्तिभिः ॥