________________
૨૪
सामादित्रितयासाध्ये त्वनन्यगतिको नृपः । युद्धे प्रवृतिकामः स्याद्यदा तत्कृत्यमुच्यते ॥ २१ ॥ पूर्वं संप्रेष्यते दूतश्चतुर्मुख उदारधीः । विपक्षव्यूहधीभावगमागमपरीक्षणे ।। २२ ।। सोपि गत्वाथ मधुरैः पूर्वं वाक्यैर्निवेदयेत् । तदसिद्धौ पुनर्बयादाम्लं तिकं तथा कटु ॥ २३ ॥ सिद्धासिद्धौ तदाकारै र्भाषणेनेंगितेन च । तदीयचित्ताभिप्रायं बलशक्तिं च सर्वथा ॥ २४ ॥ बुद्धिशक्तिं कलाशक्तिं निर्गमं गमनं तथा । सम्यक् ज्ञात्वा त्वरावृत्य यथावत् स्वामिनं वदेत् ॥२५।। दूतद्वारेण यत्ज्ञातं परो योद्धं समीहते । तदा मंत्रिवरैः सार्द्ध मंत्रयित्वा भृशं नृपः ॥ २६ ॥ तथा कुर्याद्यथा न स्याद्विग्रहो बहुनाशकृत् । केनापि नीतिमार्गेण संतोष्यः परभूपतिः ॥ २७ ॥ यदि केनाप्युपायेन परस्त्यजति नो रणम् । तदा वीक्ष्य मिथः साम्यं युद्धायैवोद्यतो भवेत् ॥ २८॥ बलिष्टेन न योद्धव्यं बलिष्टाश्रयणं विना । ताद्धैन जयः प्रायः क्षयश्चानुशयः सदा ।। २९ ।। हीनेनापि न योद्धव्यं स्वयं गत्वा च सन्मुखम् । तजये तु यशो न स्यात् किंतु हानिः पराजये ।।३०।।
સામ, દામ અને ભેદથી સાધ્યકાર્યમાં યુદ્ધ ન કરવું, બીજે કરવું એમ બતાવતાં નીચે પ્રમાણે કહે છે :
સામ, દામ અથવા ભેદથી શત્રુઓને જીતી શકાય એમ હોય તો રાજાએ કદી યુદ્ધ કરવું નહિ. લડાઈમાં જય મેળવવો એ નિશ્ચિત નથી, પણ મનુષ્યોનો ક્ષય થશે એ તો નિશ્ચિત છે. તેથી બીજા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org