________________
પાલન, દેશ આબાદી તથા પૈસાનો જમાવ નીતિથી કરવો, કદી પણ તેણે ન્યાયમાર્ગનું ઉલ્લંઘન કરવું નહિ. અન્યાય કરનાર રાજા આ લોક તથા પરલોકમાં દુઃખ ભોગવે છે. કહ્યું છે કે :- અપરાધિને દંડ, સપુરૂષને સત્કાર, ન્યાયમાર્ગથી ભંડારનો વધારો, અપક્ષપાત તથા શત્રુઓથી દેશનું રક્ષણ એ પાંચ રાજાઓના યજ્ઞ કહ્યા છે. अंगरक्षान्सौविदलान् मंत्रिणो दंडनायकान् । सूपकारान् द्वारपालान् कुर्याद्वंशक्रमागतान् ॥ ४५ ॥ वर्जयेत्मृगयां द्यूतं वेश्यां दासी परस्त्रियः । सुरां वचनपारुष्यं तथा चैवार्थदूषणम् ॥ ४६ ॥ वृथार्थदंडपारुष्यं वाद्यं गीतं तथाधिकम् । नृत्यावलोकनं भूयो दिवा निद्रा च संततम् ॥ ४७ ।। परोक्षनिंदा व्यसनान्येतानि परिवर्जयेः । न्यायान्यायपरामर्शे नीरक्षीरविवेचने ।। ४८ ॥ न पक्षपातो नोद्वेगस्त्वया कार्यः कदाचन । स्त्रीणां श्रीणां विपक्षाणां नीचानां रसितागसां ॥ ४९ ॥ मूर्खाणां चैव लुब्धानां मा विश्वासं कृथाः क्वचित् । देवगुराधने च स्वप्रजानां च पालने ॥ ५० ॥ पोष्यपोषणकार्ये च मा कुर्यात्प्रतिहस्तकान् । कार्यः संपदि नोत्सेको धैर्यछेदो न चापदि ।। ५१ ।। एतदद्वयं निगदितं बुधैरुत्तमलक्षणम् । . शास्त्रैर्दानैः प्रपाभोज्यैः प्रासादैश्च जलाशयैः ।। ५२।। यशस्करै रमामिश्च पूरयेत्सकलामिलां । घातयेत्शत्रुवंश्यांश्च पोषयेत्सुहृदन्वयं ।। ५३ ॥ शक्तित्रिकमुपायानां चतुष्कं चागसप्तकं । वर्गत्रयं सदैतानि रक्षणीयानि यत्नतः ॥ ५४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org