________________
सद्वाण्या प्रतिबोधकं च भविनां, सद्बोधि रत्नप्रदम्, मिथ्याज्ञान तमोवितान हरणे, स्फूर्जत् प्रदीपोपम् । संसारांबुधि शोषणाय तरणिं, श्रेयस्करी यत्क्रीया, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ ७ ॥ कुर्वन्तं निज सरि विक्रम गुरो, भक्तिं शिवायात्मनः, जानंन्तं त्रिजगत्स्वभावमनिशं, यन्नाम समंगलम् । निघ्नन्तं जन पाप ताप निचयं, सद्बोध शीतांशुना, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ ८ ॥ कर्मारि हननेच्छया सुमनसा, नित्यं बुधैः स्मर्यते, भव्य भक्तिवशेन भव्य वचसा, यो भूरि संस्तूयते । श्री पंन्यास पदं ददे स्वगुरुभि र्योग्यं च दृष्ट्वा वरम्, तस्येदं रचितं हि "कल्पयशसा", स्तोत्रं मया भक्तितः ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org