________________
चारित्र धर्मे खलु दत्त चित्तः, सर्वाश्रवान् यो हि निरोद्धमीशः । मोक्षैकलक्षो हृदि सौम्य भावः, सद्धर्मदोऽस्तु प्रभु लब्धि सूरिः ॥ ८ ॥ ज्ञानादि रत्नत्रयदर्शकं वै, रेखात्रयं भाति ललाट मध्ये । अन्यानि चिह्नानि विभान्ति देहे, श्री लब्धि सूरिः स पुनातु शिघ्रम् ॥ ९॥ जैनागमे यस्य निशान्त बुद्धिः, काव्यादि शास्त्रे निपुणा मनीषा । न्याये कदापि स्खलिता न मेधा, सोऽयं भवाद् रक्षतु लब्धि सूरिः ॥ १० ॥ स्याद्वाद युक्तानि वचांसि यस्य, श्रुत्वा हि भव्यो भवपारमेति । गीर्वाण वाण्यां वदितुं समर्थः, श्री लब्धि सूरिः स करोतु रक्षाम् ॥ ११ ॥ ग्रन्था अपूर्वा विविधा मनोज्ञा, भव्यस्य लोकस्य हिताय भव्याः । येन प्रयत्नै रचिताः सुभावै श्चिते, स मे तिष्ठतु लब्धि सूरिः ॥ १२ ॥ सर्वाणि कर्माणि निहन्तुमिष्टाम्, शिक्षां जिनोक्तां चतुरः प्रदाने । तस्मात् पवित्र चरणं शरण्यम्, श्री लब्धिसूरिः स तनोतु सौख्यम् ॥ १३ ॥ नश्यन्ति यस्य स्मरणात् स्मरेण, ह्युद्भाविताः संसृति भोग वांछाः । त्यागे च वीर्याणि समुद्भवन्ति, चिते सदाऽऽस्तां स तु लब्धि सूरिः ॥ १४ ॥ प्रेयः सदा यस्य जिनेन्द्र गानम्, यच्छत्रु मित्रेषु समान दृष्टिः । आनंद कंदो गुण कल्पवल्लिः , श्री लब्धि सूरिः स हरत्वनिष्टम् ॥ १५ ॥ पुण्य प्रभावात् प्रथितः पृथिव्याम्, चित्तं यदौदार्य गुणैः प्रसन्नम् । सृष्टौ सदा स्वात्म समानदृष्टिः, श्रेष्ठान्गुणान् यच्छतु लब्धिसूरिः ॥ १६ ॥ मोहाभिभूतान् मनुजान् प्रबोध्धु, दानं च शीलं च तपश्च भावः । यद्देशनायाः प्रथमं हि तत्त्वं बोधाय सोऽस्तु प्रभु लब्धि सूरिः ॥ १७ ॥ चिह्न त्रिशूलं तु ललाट मध्ये, जाताश्च तेनैव कुवादि जेता । सर्वत्र कीर्ति र्ध्वज लक्ष्मतोऽभूत, अंक प्रभावो वदतीति लोकः ॥ १८ ॥ यात्राः कृता येन विहृत्य भूमि, संरक्षितास्तीर्थधरा स्तथैव । चैत्येषु नैकेषु कृताः प्रतिष्ठाः, स श्रेयसेऽस्तु प्रभु लब्धि सूरिः ॥ १९ ॥ कल्याण कर्तुः भवि शर्म दातुः, वैराग्य वार्धे स्त्रिदशार्चितस्य । स्तुत्यानयाऽहं गुरु लब्धि सूरेः, प्राप्नोमि शं "कल्पयशाख्यसाधुः" ॥ २० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org