SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 18 श्री विक्रमसूरीश्वरजी स्तुत्यष्टादशकम् ( इन्द्रवज्रा ) आनंददं गुर्जर देश मध्ये, छायापुरे नैक गुणि प्रपूर्णे । पुण्येन लब्धं सुकुले सुजन्म, तं नौम्यहं विक्रमसूरिवर्यम् ॥ १ ॥ सूरीश लब्धे र्धृत संयमं च, प्रेम्णा ग्रहीता स्वगुरोः सुशिक्षाः । स्वाध्याय कर्तुं दिन रात्रि लीनम्, तं नौम्यहं विक्रमसूरिवर्यम् ॥ २ ॥ यस्याननं निर्मल चंद्र तुल्यम्, भव्यांबुजार्कं जिनशासनाभ्रे । वैराग्य पूर्णं हृदयं सदैव तं नौम्यहं विक्रमसूरिवर्यम् ॥ ३ ध्वान्तं विनंष्टुं तिमिरारि तुल्यम्, ज्ञानं प्रदीपं शुभबोधिदं वै । श्री रत्न तुल्यं जिनशासनाब्धौ तं नौम्यहं विक्रमसूरिवर्यम् ॥ ४ ॥ नक्षत्र वर्गै: सह भाति चंद्र, पृथ्व्यां स शिष्यो हि तथा मुनीन्द्र । वक्त्राकृति हीं शरदिन्दु तुल्या, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ५ ॥ ज्ञानं शुभाप्तं गुरु लब्धिसूरे, र्नित्यं निमग्नं जिन शास्त्र मध्ये । व्याख्यान दक्षं करुणार्द्र चित्तम्, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ६ ॥ संसार वार्धेस्तरणाय नावम्, हर्तुं शशांकं भवरागतापम् । वात्सल्यदं मातृसमं मुनीन्द्रम्, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ७ ॥ Jain Education International वक्तुं न शक्यो गुणरत्नराशिः, पुण्य प्रभावं भुवने प्रसिद्धम् । श्रेयस्करं यस्य शुभाभिधानम्, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ८ ॥ पंचेन्द्रियाश्वं निपुणं निरोध्धुम् कर्माष्टकौघं कुशलं निहन्तुम् । संसार वार्धिं तरितुं प्रवीणम्, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ९ ॥ || मर्त्यास्तु लब्धे रुपकाननस्य, पुण्यांबुना प्रस्फुरितं सुपुष्पम् । आलोक्य हर्षं वहुशो लभन्ते, तं नौभ्यहं विक्रमसूरिवर्यम् ॥ १० ॥ आलंबनीयं चरणं भवाब्धौ देवेन्द्र वंद्यं हृदयं प्रशस्यम् । लौकैरगम्यं खलु यत्चरित्रम्, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ११ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.005571
Book TitlePandav Charitram yane Jain Mahabharat
Original Sutra AuthorN/A
AuthorKalpyashsuri
PublisherJiravala Parshwanath 24 Tirthankar Trust
Publication Year2009
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy